सौरव् गांगुलिः बि सि सि ऐ अध्यक्षत्वेन अवरोधितः।
मुम्बै > सौरव् गांगुलिः भारतीयक्रिकेट्नियन्त्रणसंस्थायाः ३९ तमः अध्यक्षः अभवत्। बङ्गाल् क्रिकेट्समितेः अध्यक्षः भवति सः। मुम्बै मध्ये बि सि सि ऐ आस्थाने सम्पन्ने वार्षिकमेलने सः स्थानमारूढः इति ट्विट्टर् माध्यमद्वारा बि सि सि ऐ न्यवेदयत्। दशमासात्मकः कालः सः अध्यक्षपदवीम् अलङ्करिष्यति। केन्द्राभ्यन्तरमन्त्रिणः पुत्रः जय् षा कार्यदर्शित्वेन दायित्वमवहच्च।