OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 27, 2019

श्रीशङ्कर नृत्तसङ्गीतोत्सवः - विचारसमीक्षा सम्पन्ना। 
कालटी > अन्ताराष्ट्रिय श्रीशङ्कर नृत्तसङ्गीतोत्सवस्य प्रारम्भरूपेण मासत्रयं  यावत् अनुवर्तमाना मार्गदर्शनसमीक्षा (counseling) सम्पूर्णतामाप्ता। षट्शतं नाट्यनिपुणैः भागभागित्वं क्रियमाणः महोत्सवः विंशत्यधिकद्विशते ईसवीये एप्रिल् मासे सम्पत्स्यते। कथक्, ओडीसी, सत्रिया, कुच्चिप्पुटी, भरतनाट्यं, मोहिनियाट्टं, विदेशनृत्तरूपाणि इत्यादिषु विश्वप्रसिद्धाः कलाकोविदाः भागं वहन्ति। 
  विचारसमीक्षायाः अन्तिमे सत्रे श्रीशङ्करा नृत्तविद्यालयस्य मुख्यकर्ता प्रोफ. पि वी पीताम्बरः, मुख्यसंयोजिका सुधापीताम्बरः, अध्यापकक्षाकर्तृभारवाहिणः इत्यादयः नेतृत्वमवहन्। लोकसभासदस्यः बन्नीबहनानः, विधानसभासामाजिकः रोजी एम् जोण् इत्येतयोः रक्षणाधिकारे विपुला कार्यकर्तृसमितिरपि रूपीकृता।