OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 9, 2019

त्रयाणां कृते वैद्यशास्त्रनोबेल् पुरस्कार:।
स्टोक् होम् > मानवजीवनस्य आधारभूतं प्राणवायुं सम्बन्ध्य निर्णायकम् अध्ययनफलम् आविष्कृतवतां त्रयाणां वैज्ञानिकानां कृते अस्य वर्षस्य वैद्यशास्त्रविभागस्थः नोबेल् पुरस्कारः प्रख्यापितः। विल्यं जि केयिलिन्, पीट्टर् जे राट्स्लिफ्, ग्रेग् एल् सेमन्सा इत्यादिभ्यः वैज्ञानिकेभ्यः एव पुरस्कारः। शरीरकोशेषु लभ्यमानस्य प्राणवायोः स्तरं ज्ञात्वा उचितरीत्‍या प्रतिकरणाय आवश्यकम् अनुक्रमम् अधिकृत्य कृतेभ्यः अनुसन्धानेभ्यः एव पुरस्कारः प्रख्यापितः वर्तते। जेयिम्स् पीबिल्स्, मैक्किल् मेयर्, दिदियेर् क्वलोस् इत्यादयः भौतिकशास्त्रनोबेल् पुरस्कारेण आदृताः।