OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 30, 2019

एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर्  १८ तमे दिनाङ्के।
       नवदिल्ली> न्यायाधिपः शरद्‌ अरविन्द् बोब्डे भारतस्य उच्चतरन्यायालयस्य ४७ तमः अध्यक्षः भविष्यति। नियुक्तिपत्रे राष्ट्रपतिना रामनाथकोविन्दमहाभागेन हस्ताक्षरं कृतम्। नवम्बर् मासस्य १८ तमे दिनाङ्के सत्यप्रतिज्ञासमारोहः निश्चितः वर्तते। अधुनातनाध्यक्षः रञ्जन् गोगोय् नवम्बर् १७ तमे दिनाङ्के सेवानिवृत्तः भविष्यति। मध्यप्रदेशस्थात् उच्चन्यायालयात् २०१३ तमे वर्षे उच्चतरन्यायालयं प्रविष्टः भवति बोब्डे महोदयः। बोब्डेम् अध्यक्षत्वेन नियमितुम् अधुनातनाध्यक्षेण रञ्जन् गोगोय् महाशयेन राष्ट्रपतिं पत्रं प्रेषितमासीत्।