OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 10, 2019

मोदी-षी जिन् पिङ् अभिमुखं शुक्रवासरे।
   नवदहली > द्वितीयं भारत-चीनराष्ट्रयोः अनौपचारिकमेलनं शुक्रवासरे सम्पद्यते। चेन्नै राज्यस्य महाबलिपुरे एव मेलनम्। मेलनार्थं महाबलिपुरं सुसज्जंभवति। सुरक्षाक्रमीकरणादिकं पूर्णं जातम्।  विश्वराष्ट्राणि मेलनमिदम् आकाङ्क्षापूर्वकं निरीक्षन्ते। काश्मीरविषयः सूक्ष्मतया निरीक्षते इति प्रगतदिने चीनाध्यक्षेण षी जिन् पिङ् महोदयेन सूचितम्। किन्तु काश्मीरविषयः भारतस्य आभ्यन्तरविषय एव भवति, एतादृशाभ्यन्तरविषयेषु अन्यस्य राष्ट्रस्य नासिकाप्रवेशः नावश्यकः इति विदेशकार्यमन्त्रालयवक्त्रा रवीष्कुमारेण अभिप्रेतम्। तथापि, व्यापार-सीमासुरक्षाविषयेषु प्रधाननिर्णयादिकं मेलने स्वीक्रियते इत्‍येव प्रतीक्षा।