OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 28, 2019

ऐ एस् नेता बाग्दादी व्यापादितः।

  वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।