OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 23, 2019

भीकरवादिभिः सह पाकिस्थानेन क्रियमाणः सहयोगः चर्चायै भङ्‌गः भवति - अमेरिक्क।
  वाषिङ्टण्> भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां परिहाराय पाकिस्थानेन भीकरवादिनामुपरि स्वीक्रियमाणः अनुकूलव्यवहारः भङ्गं सृजति इति अमेरिक्क। सीमामुल्लङ्घ्य भीकरवादप्रवर्तनानि कुर्वतां लष्कर् इ तोय्बा, जेय्षे मुहम्मद् सदृशाना संघानां कृते पाकिस्थानस्य पक्षतः लभ्यमानः सहयोगः निराशाजनक एवेति यु एस् राज्यस्तरीयोपकार्यदर्शी आलिस् जि वेल्स् अभिप्रायत्। १९७२ तमे वर्षे हस्ताक्षरेण कृतायाः षिम्ला व्यवस्थायाः आधारेण समस्याः परिहरिष्यतीति  विश्वासः नैव नष्टः इत्यपि सा अवदत्। द्वयोरपि राष्ट्रयोः मध्ये परस्परविश्वासः आर्जनीयः एव भवति। तथापि भीकरवादिभिः सह पाकिस्थानेन अनुवर्तमानः सहयोगः सर्वदा विघातः एव इत्यपि सा असूचयत्।