OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 30, 2019

भारत-सौदिराष्ट्रयोः मध्ये सुरक्षामण्डलस्थः सहयोगः दृढीक्रियते।
   रियाद्> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सौदिसन्दर्शनवेलायां सुप्रधानविषयेषु निर्णयः स्वीकरिष्यतीति सूचना। सौदि वार्तामाध्यमेन अरब् न्यूस् इत्यनेन एतत्सम्बन्ध्य वार्ता प्रकाशिता। चर्चासु राष्ट्रसुरक्षा, प्रतिरोधव्यावसायिकमण्डलं, ऊर्जमण्डलम् इत्यादिषु विषयेषु प्रामुख्यं दीयते। तदर्थं मोदी, सौदिराजेन सल्मानेन, अनन्तरकिरीटधारिणा मुहम्मद् बिन् सल्मानेन च सह चर्चां करिष्यति। भारतं सौदि अरेब्यः च समीपस्थानां राष्ट्राणां नासिकाप्रवेशैः सुरक्षासमस्याः अभिमुखीकुर्वती राष्ट्रे भवतः इति मोदिना अभिप्रेतम्। सुरक्षासहयोगाय द्वयोः राष्ट्रयोः प्रतिनिधीः अन्तर्भाव्य समितिः रूपीक्रियते। भारते अधुना वाणिज्याय वातावरणम् अनुकूलं भवतीति मेय्क् इन् इन्ड्या, डिजिटल् इन्ड्या, स्किल् इन्ड्या, स्वच्छ भारत् इत्यादीः परियोजनाः उद्दिश्य मोदिना अभिप्रेतम्।  अरबन्यूस् कृते दत्ते अभिमुखमेलने भाषमाणः आसीत् सः।