OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 4, 2019

वन्दे भारत-एक्स्प्रेस् यात्रा समारब्धा। 
       नवदहली > दहलीतः जम्मूकाश्मीरस्य कत्रां प्रति सज्जीकृतस्य सेमि-है स्पीड्  वन्दे भारत्-एक्स्प्रेस् रेल्यानस्य यात्रां केन्द्राभ्यन्तरमन्त्री अमित् षा उदघाटयत्। विनोदसञ्चारमण्डलस्य विकसनं लक्ष्यीकृत्य नूतनतया आरब्धं भवति सेमि-है स्पीड् रेल्यानस्य सेवनम्। दशवर्षाभ्यन्तरे जम्मूकाश्मीरं भारतस्य बहुविकसितं राज्यं भविष्यतीति अमित् षा अवदत्। महात्मागान्धिनः स्वदेशी इत्याशयं पुरस्कृत्य नूतनरेल्यानस्य निर्माणं पूर्णतया भारते एव अभवत् इति सः असूचयत्। मेय्क् इन् इन्ट्या आयोजनायां निर्मितं भवति वन्दे भारत्-एक्स्प्रेस्। अनेन केवलं अष्टखण्डाभ्यन्तरे दहलीतः जम्मूकाश्मीरस्य कत्रां प्राप्तुं शक्यते।