OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 29, 2019

नवचरित्रं विरच्य पापुव न्यू गिनियदलम्।
   कायिकम्/ दुबाय् > विंशति२० क्रिकेट् मध्ये नवचरित्रं विरच्य पापुव न्यू गिनियदलम्। अग्रिमवर्षे ओस्ट्रेलियदेशे सम्पद्यमाने विंशति२० विश्वचषकक्रिकेट्सपर्यायां क्रीडितुं पापुव न्यू गिनियदलाय अवसरः लब्धः। विंशति२० विश्वचषकक्रिकेट्सपर्यायाः योग्यताचक्रे केनियदलं ४५ धावनाङ्कैः पराजित्य एव पापुव न्यू गिनियदलस्य चरित्रपरा प्राप्तिः। अङ्कः - पापुव न्यू गिनिय ११८ केनिय ७३ । एवम् अयर्लण्ड्दलमपि विश्वचषके क्रीडितुं योग्यतां प्रापयत्। अग्रिमवर्षे ओक्टोबर्मासस्य १८ तः नवम्बर् मासस्य १५ पर्यन्तं भवति विंशति (२०) विश्वचषकक्रिकेट्सपर्या।