OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 22, 2025

 उपराष्ट्रपतिः जगदीप धन्करः  पदम् अत्यजत्। 


नवदिल्ली> संसदः वर्षाकालसम्मेलनस्य प्रथमे दिने उपराष्ट्रपतेः जगदीप धन्करवर्यस्य अप्रतीक्षितः स्थानत्यागः। तस्य स्वास्थ्यक्लेशाः एव हेतुरूपेण सूचिताः। गतदिने रात्रावेव त्यागपत्रं राष्ट्रपतये द्रौपति मुर्मू वर्यायै समर्पितवान्। ततः सामाजिकमाध्यमद्वारा स्वस्य स्थानत्यागं विज्ञापितवान् च। 

  वर्षद्वयमपि उपराष्ट्रपतिपदे धनकरस्य कालपरिधिः वर्तते। किन्तु वैद्यानामुपदेशमनुसृत्य स्वास्थ्यपरिरक्षार्थमस्ति स्थानत्याग इति त्यागपत्रे सूच्यते। राष्ट्रपतिः, प्रधानमन्त्री, केन्द्रमन्त्रिणः इत्यादयानां कृते कृतज्ञताप्रकाशनमपि त्यागपत्रे अस्ति।