OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 21, 2025

 प्रक्षोभसूर्यः अस्तंगतः। 

 वि एस् अच्युतानन्दः दिवंगतः। 

श्वः सामाजिकविरामदिनम्। 


अनन्तपुरी> केरलस्य भूतपूर्वमुख्यमन्त्री तथा च भारतीयसाम्यवादीदलस्य (मार्क्स् वादी) [CPI (M)] समुन्नतनेता वि एस् अच्युतानन्दः अद्य अपराह्ने  ३. २० वादने दिवं गतः। १०१ वयस्कः आसीत्। मासैकं यावत् अनन्तपुर्यां एस् यू टि आतुरालये परिचर्यायामासीत्। 

   भारते साम्यवादीदलस्य स्थापकनेतृषु अन्यतमः आसीत् अच्युतानन्दवर्यः। मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। तस्य भौतिकशरीरं सामाजिकान्त्योपचारार्थं 'ए के जि मन्दिरम्' इति दलास्थाने समर्पयिष्यति। अन्त्येष्टिकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते।  वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन विज्ञापितं प्रशासनेन।