२० संवत्सराणि 'स्वपन् राजकुमारः' अन्त्यनिद्रां प्राप। मृत्युं प्राप्तः अल् वलीद् राजकुमारः चिकित्सालये।
रियादः> 'स्वपन् राजकुमारः' इति लोकैराहूयमानः सौदिराजकुमारः अल् वलीद् बिन् खालिद् बिन् तलाल् नामकः शनिवासरे मरणं प्राप्तवान्। सौदिराष्ट्रस्य राजभवने खालिद् बिन् तलाल् अल् सौद् राजकुमारस्य ज्येष्ठपुत्रः अल् वलीदः २००५ तमे वर्षे लण्टने दुरापन्नायां कार् यानदुर्घटनायां गभीरेण आहतः अभवत्। तदा ब्रिटने सैनिककलालये अध्ययनं कुर्वन्नासीत् सः।
रियादस्थे किङ् अब्दुल् असीस् चिकित्सालये २० वर्षाणि यावत् अबोधावस्थायां वर्तमानः सः ३६ तमे वयसि गते शनिवासरे मृत्युवशं गतः इति वृत्तान्तं पित्रा लोकेभ्यः न्यवेदयत्।