भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता।
९९% भारतीयोत्पन्नानां ब्रिटने करविमुक्तिः।
नवदिल्ली> वर्षत्रयस्य उभयपक्षचर्चानां नयतन्त्रव्यवहाराणामनन्तरं भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता। भारतात् ब्रिटनं प्रति आयातानि ९९% वस्तूनि करमुक्तानि भविष्यन्ति। तथा च ब्रिटनात् भारतमायातानां ९०% वस्तूनां करः न्यूनीकरिष्यते।