OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 23, 2025

 'एफ् - 35 बी' प्रतिडयितम्। 

अनन्तपुरी> अप्रतीक्षतया आगत्य अन्ताराष्ट्रियचर्चाणां, किंवदन्तीनां, परिहासानां च कारणभूतं ब्रिट्टनस्य युद्धविमानं - एफ् - 35 बी अनन्तपुरीतः उड्डयितम्। अमेरिकया विनिर्मितमेतद्विमानं ३९ दिनेभ्यः पूर्वमेव अनन्तपुरी विमाननिलयम् अवतारितम्।   

  आरबसमुद्रे संयुक्तसैनिकाभ्यासार्थं विमानवाहिनिमहानौकायाः उड्डयितं विमानं पर्यावरणदुष्प्रभावेणेति श्रूयते, जूण् १४ तमे दिनाङ्के रात्रौ आकस्मिकेन अवतारितम्। ततः यन्त्रक्षतिरपि सञ्जाता। तां परिहर्तुं एतावन्ति दिनानि आवश्यकानि।