फ्रान्से बहुजनप्रक्षोभः।
अक्रमः, चौर्यं, अग्निप्रज्वालनम्।
पारीस्> फ्रन्सराष्ट्रे मासैकात् पूर्वमारब्धः बहुजनप्रतिषेधः गतदिनेषु अक्रमासक्तः अभवत्। रविवासरे प्रक्षोभः तस्य मूर्धन्यतां प्राप। जनाः आपणेषु चौर्यमकुर्वन्। वाहनानि बभञ्जुः। यद्यत् दृष्टानि सर्वं अग्निसात्कृतानि।
शिक्षकदौर्लभ्यं, शैक्षिकमण्डले आधारसुविधानाम् अपर्याप्तता इत्यादिविषयान् उन्नीय छात्रसंघटनैः आरब्धः प्रक्षोभः क्रमेण बहुजनप्रक्षोभरूपेण परिणमति स्म। जीवनव्ययस्य अधिकता, आर्थिकशोषणम् इत्यादीनां प्रतिषेधरूपेण वृद्धिं प्राप।