OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 18, 2026

 रष्यीयतैलेन्धनविषये ट्रम्पस्य परावर्तनम्। 

भारतस्य आश्वासः।

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणन्तः युक्रैनयुद्धे रष्यायै आर्थिकसाह्यं कुर्वन्तीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य आरोपे स एव परावर्तते। रष्यीयतैलेन्धनं क्रीणतां पञ्च राष्ट्राणां विरुध्य (तेषु भारतमपि अन्तर्भवति) १००% दण्डशुल्कं यू एसेन विहितमासीत्। इदानीम् अस्मिन् विषये विपुलानि लाघवानि तेन उद्घोषितानि। शुक्रवासरे आसीत् ट्रम्पस्य नूतनः प्रशासनादेशः।रष्यीयतैलस्य मुख्योपभोक्त्रे  भारताय महदाश्वासाय भवति ट्रम्पस्य इदं पराङ्मुखसरणम्।