OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 18, 2026

 केरलम्।

 तन्त्रविद्यापीठस्य आचार्यपुरस्काराः उद्घोषिताः।

 संस्कृतप्रचरणपुरस्कारः डो सि जि विजयकुमाराय।

डो सि जि विजयकुमारः।

आलुवा> तन्त्रशास्त्र-वैदिकसंस्कृति-संस्कृतभाषाप्रचारणमण्डलेषु श्रेष्ठं योगदानं कृतवद्भ्यः  आलुवास्थेन तन्त्रविद्यापीठेन दीयमानाः आचार्यपुरस्काराः उद्घोषिताः। तन्त्रशास्त्रमण्डले दीयमानः तान्त्रिकाचार्यः ब्रह्मश्री 'कल्पुष़ा दिवाकरन् नम्पूतिरि' आचार्यपुरस्कारः पटयूर् पाण्डुरङ्गन् नम्पूतिरि महाभागाय दीयते। ब्रह्मश्री वेष़प्परम्प परमेश्वरन् नम्पूतिरि महाभागस्य नाम्नि वैदिक संस्कृतिक्षेत्रे दीयमानः आचार्यपुरस्कारः कोम्पङ्कुलं विष्णु अक्कित्तिरिप्पाट्' वर्याय दीयते। संस्कृत भाषाप्रचारणाय दीनयमानः ब्रह्मश्री के पि सि नारायणन् भट्टतिरिप्पाट् स्मारकाचार्यपुरस्कारः संस्कृतपण्डिताय डो सि जि विजयकुमाराय दीयते। 

  सि जि विजयकुमारवर्यः उज्जयिनीस्थ महर्षि पाणिनि संस्कृत विश्वविद्यालयस्य भूतपूर्वः कुलपतिः अस्ति। दशाब्दैः संस्कृतभाषायाः प्रचारणाय अकादमिकाभिवृद्धये च दत्तं सुदीर्घां सेवां पुरस्कृत्य अस्ति तस्मै पुरस्कारः। 

  तन्त्रविद्यापीठस्य स्थापकाचार्यः कल्पुष़ा दिवाकरन् नम्पूतिरिप्पाट् वर्यस्य जन्मदिनं पुरस्कृत्य ओक्टोबर् २४ तमे दिनाङ्के तन्त्रविद्यापीठे आयेज्यमाने आचार्यस्मृतिदिनाचरणकार्यक्रमे पुरस्काराः समर्पिष्यन्ते।