OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 18, 2026

 कोल्कोत्तायां दुर्गापूजामध्ये जनसम्मर्दः 

- १७ मरणानि; उपचत्वारिंशत् क्षताः।

दुरन्तदृश्यम्। 

कोल्कोत्ता> उत्तरकोल्कोत्तायां 'चोर्बगान्' इत्यत्र दुर्गापूजावेलायां दुरापन्ने जनसम्मर्दे १७ जनाः मृत्युमुपगताः। उपचत्वारिंशत् जनाः क्षताः। पञ्चानामवस्था गुरुतरा इति सूच्यते।

  शनिवासरे आसीदियं दुर्घटना। पूजासमये महती वृष्टिरभवत्। जनाः  पूजावितानस्य अन्तः प्रवेष्टुं अहमहमिकया उद्युक्ताः। एतदेव ददुर्घटनामनयत्। 

  मुख्यमन्त्री सुवेन्दु अधिकारी आतुरालयं प्राप्य क्षतान् सन्दर्शयामास। प्रधानमन्त्री नरेन्द्र मोदी घटनायाम् अन्वशोचयत्। मृतानां परिवारेभ्यः प्रतिपरिवारं लक्षद्वयं रूप्यकाणि साहाय्यधनम् उदघोषयच्च।