OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 17, 2026

लुधियान-नगरात् १६ वर्षीया गुणिशा कौर 2026-तमवर्षीयस्य 'अन्ताराष्ट्रिय-युवा-पर्यावरण-वीर-पुरस्कारस्य' (International Young Eco-Hero Awards) तृतीयं स्थानं प्राप्तवती।

चित्रम् -TOI

​यस्मिन् समये नगरेषु हरितक्षेत्राणि जैवविविधतायाः कृते अधिकाधिकं महत्त्वपूर्णानि वर्तन्ते, तस्मिन् समये पञ्जाबराज्यस्य लुधियाना-निवासिनी षोडशवर्षीया (१६) गुणिशा कौर द्विविधोद्देश्ययुक्तानाम् उद्यानानां निर्माणे निरता अस्ति - परागकहानाम् (pollinators) आवासप्रदानं, विशिष्टापेक्षाणां बालकानां कृते प्रकृतेः सुलभता च।

​तस्याः 'बसिङ् ब्लूम्स' (Buzzing Blooms) इति प्रक्रियया लुधियाना, मीरठ्, मुम्बई तथा च अन्येषु सहवर्तीक्षेत्रेषु विंशत्यधिकाः परागकोद्यानानि पर्यावरण-पुनरुद्धार-प्रकल्पाः च स्थिताः सन्ति। चतुर्विंशतिमासानाम् अनुवीक्षणस्य पश्चात् एतेषु उद्यानेषु परागकप्रजातीनाम् समृद्धिः १८ तः ४६ अथवा प्रतिशतं १५५ इति वर्धितेति 'आक्षन् फोर् नेचर्' (Action For Nature) इत्यनेन संगठनेन घोषितम्, येन गुणिशा तस्य पुरस्कारस्य  'अन्ताराष्ट्रिय-युवा-पर्यावरण-वीर-पुरस्कारस्य' (International Young Eco-Hero Awards) तृतीयस्थानेन सम्मानिता।

News Desk SampratiVartah.in|17 October 2026 |