तुलामासपूजाभ्यः शबरिगिरिमन्दिरम् उद्घाटितम्।
# मुख्यमन्त्री दर्शनं कृतवान्।
# मुख्यार्चकेभ्यः शालाकाग्रहः अद्य।
शबरिगिरिः> केरले प्रसिद्धं शबरिगिरि श्रीधर्मशास्तृमन्दिरं तुलामासपूजाभ्यः उद्घाटितम्। स्वामिदर्शनाय अभूतपूर्वः भक्तजनसम्मर्दः अनुभूयते।
आगामिमासे आरभ्यमाणं 'मण्डलकालम्' अभिव्याप्य वर्षैकस्य देवपूजायै नियोक्तुं मुख्यार्चकाय दैवपरीक्षा - शालाकाग्रहः - रविवासरे प्रभाते मन्दिरसोपानमण्डपे विधास्यते। मालिकप्पुरं मन्दिरस्य मुख्यार्चकाय तत्र दैवपरीक्षा विधास्यते।
मुख्यमन्त्री वि डि सतीशः ह्यः सायं मन्दिरदर्शनमकरोत्। मण्डलकालतीर्थाटनस्य समग्रम् अवलोकनं तेन कृतम्।
