OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 20, 2026

 यूरोपभूखण्डः कलहकलुषितः। 

फ्रान्सः, इटली, बल्जियमः, पोर्चुगलः इत्यादिराष्ट्रेषु जनाः प्रक्षोभे। 

फान्से  दुरापन्नः अक्रमः। 

> अस्य वर्षस्य सेप्टम्बरमासादारभ्य प्रायेण यूरोपे सर्वत्र जनाः प्रक्षोभमार्गे वर्तन्ते। यूरोपीयराष्ट्रेषु जीवनव्ययः अधिकायते इति कलहस्य मुख्यहेतुः। 

  फान्से विद्यार्थिप्रक्षोभरूपेण आसीत् सेप्टम्बरमासे सर्वकारविरुधप्रतिषेधः आरब्धः। शिक्षकाणां दौर्लभ्यं, अयोग्याः कक्ष्याप्रकोष्ठाः, अत्यधिकः जीवितव्ययः, इन्धनस्य अधिकमूल्यमित्यादयः प्रक्षोभस्य हेतवः आसन्।ओक्टोबर्  १७ तमे दिनाङ्के व्यापकतया अक्रमपरम्परा आरब्धा। 

  इटलिदेशे च कारणानि समानानि आसन्। मिलान्, टूरिन्, बोलोणा इत्यादिषु नगरेषु ओक्टोबर् १६ तः महाप्रक्षोभः अजायत। 

 बल्जियमे ओक्टोबर् नवमदिनाङ्के आरब्धः प्रतिषेधः १७ तमे दिनाङ्के महासंघर्षरूपेण पर्यवर्तयत। तत्र विरताः सर्वकारोद्योगस्थाः, कर्मकराः, न्यूनवेतनिकाः च तेषां जीवनाशङ्कया प्रक्षोभमार्गं स्वीकृतवन्तः। 

पोर्चुगले  लिस्बणनगर कर्मकरसंघटनानां नेतृत्वे सहस्रशः जनाः तेषां  जीवनावस्थायाः क्लेशे प्रतिषिध्य पथसञ्चलनम् आयोजितवन्तः। अनियन्त्रितं भाटकवर्धनं, वर्धितं  गृहमूल्यं, असहनीयः जीवनव्ययः च कारणानि भवन्ति।