OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, March 4, 2025

 ओस्कारे  'अनोरा' प्रकाशते - ५ पुरस्काराः। 

   मैकी माडिसणः श्रेष्ठा अभिनेत्री; अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता। 

पुरस्कारलब्धाः - वामतः , अड्रियन् ब्रोडिः [नटः], मैकी माडिसणः [नटी], सोयी सल्दाना [सहाभिनेत्री], किरण् कुल्किन् [सहाभिनेता] 

लोस् आञ्जलसः> ओस्कार् चलच्चित्रपुरस्कारस्य ९७ तमे संस्करणे षोण् बेकरेण निदेशं कृतं अमेरिकीयचलच्चित्रम् अनोरा नामकं पञ्च पुरस्कारान् प्राप्नोत्। श्रेष्ठं चित्रं, श्रेष्ठा दृश्यकथा, श्रेष्ठं निदेशनं, श्रेष्ठं चित्रसंयोजनं, श्रेष्ठा अभिनेत्री इत्येते पुरस्काराः अनोरया प्राप्ताः। 

  निदेशकत्वं विना दृश्यकथा, चित्रसंयोजनं इति पुरस्कारद्वयमपि निदेशकेन षोण् बेकरेण प्राप्तानि। अनोरा इति नायिकाकथापात्रम् अवतारितवती   मैकी माडिसणः श्रेष्ठा अभिनेत्री अभवत्। 'दि ब्रूटलिस्ट्' इत्यस्मिन् चलच्चित्रे अभिनयेन अड्रियन् ब्रोडिः श्रेष्ठः अभिनेता जातः।

Monday, March 3, 2025

 रञ्जी ट्रोफी विदर्भया प्राप्तम्। 


नागपुरं> रञ्जी ट्रोफी क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे केरलं पराजित्य विदर्भादलः किरीटं प्राप।   रञ्जी ट्रोफी स्पर्धायां विदर्भायाः तृतीयकिरीटं भवत्येतत्। 

  अन्तिमचरणं यावत् पराजयमविज्ञाय अग्रे गच्छतः केरलस्य इदं प्रथमतया किरीटं लप्स्येत इत्यभिलाषः अस्तंगतः। अन्तिमस्पर्धायाः पञ्चमदिने रविवासरे द्वितीयचरणे विदर्भायां ३७५/९ इति प्राप्तायां स्पर्धां समस्थितिं विधातुं दलद्वयेन निश्चितम्। प्रथमचरणे प्राप्तस्य ३७ धावनाङ्कानामधिकत्वस्य कारणेन विदर्भा विजयीभूता।

 'श्यामवेतालः' उडुराजं संस्पर्श। 

चन्द्रोपरितलावतरणं सम्पूर्णविजयं प्राप्तवत् प्रथमं निजीयपेटकम्। 

चन्द्रोपरितलं प्राप्तम् ब्लू गोस्ट् पेटकम्। 

फ्लोरिडा> अमेरिकायां निजीयसंस्था 'फयर् फ्लै एय्रो स्पेय्स्' इत्यनया विक्षिप्तं 'ब्लू गोस्ट्' नामकं यानपेटकं चन्द्रोपग्रहस्य उपरितलं सुरक्षितरीत्या अवतारितम्। उडुराजं प्रति सुरक्षितेनावतीर्णं द्वितीयं निजीयं स्थलतरणकम्, अवतरणं सम्पूर्णविजयं प्राप्तवत् प्रथमं निजीयपेटकमिति लाभः ब्लू गोस्ट् प्राप्नोत्। 

  भारतीयसमयानुसारं रविवासरे अपराह्ने २. ०४ वादने चन्द्रे 'मेर् क्रिसियम्' इति गर्ते पेटकमिदं अवतरितम्। अवतरणप्रक्रिया ६३ निमेषान् यावत् सम्पन्ना। जनुवरिमासे १५ तमे दिनाङ्के आसीत् स्पेय्स् एक्स् इत्यस्य फाल्कण् ९ इति विक्षेपिणीमुपयुज्य ब्लू गोस्टस्य विक्षेपणम्। मासैकं यावत् भूमिं परिक्रम्यानन्तरमेव चान्द्रभ्रमणपथं प्राप्तवत्।

Sunday, March 2, 2025

 चाम्प्यन्स् ट्रोफी  

आस्ट्रेलिया  चतुर्थांशं प्रविष्टा। 

लाहोरं> चाम्प्यन्स् ट्रोफी क्रिकेट स्पर्धायाः आस्ट्रेलिया-अफ्गानिस्थाप्रतिद्वन्द्वे वर्षाभ्यः त्यक्ते बी संघे प्रथमस्थानं प्राप्तः  आस्ट्रेलियदलः चतुर्थांशचक्रं प्राविशत्। 

  अफ्गानेन दत्तं २७४ धावनाङ्काः इति विजयलक्ष्यमनुधावन् आस्ट्रेलिया दले १२. ५ क्षेपणचक्रेषु ताडकैकं विनष्ट्य १०९ धावनाङ्केषु  प्राप्तेषु वृष्ट्या क्रीडा स्थगिता। वृष्टिनियमोSपि प्रयोक्तुं न शक्येत यतः २० क्षेपणणचक्राणि न पूर्तीकृतानि।

 एस् एस् एल् सि , एछ् एस् एस् परीक्षाः श्वः आरभ्यन्ते। 

अनन्तपुरी> केरले दशम्याः  कक्ष्यायाः , +२ कक्ष्यायाः च वार्षिकी परीक्षाः सोमवासरे आरप्स्यन्ते। प्रतिदिनं प्रातः ९. ३० वादनतः ११. ४५ वादनपर्यन्तं दशमकक्ष्यापरीक्षाः [एस् एस् एल् सि] विधास्यन्ते। उच्चतरक्ष्याणां [+२] परीक्षाः मध्याह्नानन्तरं सार्धैकवादनात् सायं सपादचतुर्वादनपर्यन्तं प्रचालयिष्यन्ते। 

  एस् एस् एल् सि परीक्षाः , +२ परीक्षाः च मार्च् २६ तमे दिनाङ्के समाप्स्यन्ते।

Saturday, March 1, 2025

 कृत्रिमबुद्धेः लोके  शरत् श्रीधरः श्रद्धेयः।

   कृत्रिमबुद्धेः परीक्षणं निरीक्षणं च आविश्वं प्रचलत् अस्ति। सन्दर्भेऽस्मिन् भारतीयः युव वैज्ञानिकः शरत् श्रीधरः विशेषवैज्ञानिकरूपेण चितः अस्ति। अमेरिकराष्ट्रे विद्यमाना ' इन्स्टिट्यूट् ओफ् इलट्रिकल् आन्ट् इलक्ट्रोणिक्स् एन्जिनियेर्स् इन्टलिजन्ट् सिस्टंस् (IEEE) संस्थया एव एषः चितः। अमेरिक राष्ट्रस्य विश्वविद्यालयेषु विश्रुतः कोलराडो विश्वविद्यालये अध्यापकः भवति अयम्। मानवानां धार्मिकविश्वासः तेषां व्यवहाराः च क्रित्रिमबुद्धौ समन्वयितुम् उपकारकं  'Algorithm' एव तस्य अनुसन्धान विषयः। कालेऽस्मिन् कृत्रिमबुद्धेः धर्मिकतायां जनेभ्यः आश्ङ्काः वर्तन्ते।  सन्दर्भेऽस्मिन् अस्य अनुसन्धानः प्राधान्यम् अर्हति। CUSAT इति केरळस्यय वैज्ञानिक-प्रौद्योगिक-विश्वविद्यालयात् सङ्गणकीय विज्ञाने बिरुदं प्राप्तवान् एषः अरिसोण विश्वविद्यालयतः बिरुदानन्तरबिरुदम् अनन्तरं विद्यावारिधिः (PhD) च प्राप्तवान् ॥

Friday, February 28, 2025

 मार्पापावर्यस्य स्वास्थ्यं श्रेष्ठतरं जातम्। 

प्रार्थनाकार्यक्रमे भागं गृहीतवान्। 


रोमः> श्वासकोशाणुबाधया आतुरालये परिचर्यायां वर्तमानस्य मार्पापावर्यस्य स्वास्थ्यावस्था शुभकरी वर्तते इति वत्तिक्कानस्य औद्योगिकविभागेन निगदितम्। आराधनालये प्रार्थनायाम् इतराराधनाकार्यक्रमेषु च तस्य भागभाग्त्वमासीत्।

  गते १४ तमे दिनाङ्के आसीत् सः आतुरालयं प्रविष्टः। श्वासकोशे अणुबाधा न्यूना अभवत्। किन्तु शुश्रूषा अनुवर्तते।

 अद्य आकाशे दृश्यविस्मयः। 

सप्त ग्रहाः समानदिशां प्राप्नुवन्ति। 


नवदिल्ली> सौरयूथम् अत्यपूर्वदृश्यविस्मयाय सिद्धमस्ति। सप्त ग्रहाः - बुधः,शुक्रः, कुजः, बृहस्पतिः शनिः,यूरानस्, नेप्ट्य्णः, - सूर्यस्य समानदिशां विन्यस्यन्ते। २०२५ फेब्रुवरि २८ तमे दिनाङ्के रात्रौ भारते अपि एतत् द्रष्टुं शक्यते। 

  २०२५ मार्च मासस्य तृतीयदिनाङ्कपर्यन्तं भारते अपूर्वमेनं ज्योतिशास्त्रविस्मयं  द्रष्टुं शक्यते। जनुवरिमासे अयं विन्यासः आरब्धः। बुधादृते अन्ये षट् ग्रहाः इदानीमेव विन्यस्ताः सन्ति। अद्य बुधस्य विन्यासेन एतत् पूर्तीकरिष्यति।

Thursday, February 27, 2025

 चाम्प्यन्स् ट्रोफी - 

अफ्गानिस्थानात् पराजयं स्वीकृत्य इङ्लाण्टः बहिर्गतः।

शतकं प्राप्तवान् इब्राहिम सद्रानः।

लाहोर्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः गतदिने अफ्गानिस्थानस्य इङ्लाण्टं विरुध्य प्रतिलोमविजयः। इब्राहिम सद्रानस्य अत्युज्वलशतकस्य [१७७] बले महत्प्राप्ताङ्कान् [३२५] सम्पाद्य इङ्लाण्टं ८ धावनाङ्कैः पराजयत। द्वितीयचरणे प्रत्युत्तरताडने  इङ्लाण्टस्य जो रूटः शतकं [१२०] प्राप्तवानपि अफ्गानिस्थानस्य निश्चयदार्ढ्ये विजयतीरमवाप। 

  प्राप्ताङ्कसूचिका - अफ्गानिस्थानं ५० क्षेपणचक्रेषु ३२५/७ ; इङ्लाण्टः ४९. ५ क्षेपणचक्रेषु ३१७ /१०। अनेन इङ्लाण्टः क्रीडापरम्परायाः बहिर्नीतः। 

 सुडाने सेनाविमानं प्रभञ्ज्य ४६ मरणानि।

पोर्ट् सुडान्> आफ्रिकायां सुडानराष्ट्रे सेनायाः यातायातविमानं राजधान्यां कार्टूम् इत्यत्र जनावासस्थाने निपत्य ४६ जनाः मृत्युवशं गताः। १० जनाः आहताः। 

  उड्डयनावसरे एव दुर्घटना अभवत्। मृतेषु सैनिकाः सामान्यजनाश्च अन्तर्भवन्ति इति सैनिकाधिकारिभिः निगदितम्।