OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 22, 2025

 उपराष्ट्रपतिः जगदीप धन्करः  पदम् अत्यजत्। 


नवदिल्ली> संसदः वर्षाकालसम्मेलनस्य प्रथमे दिने उपराष्ट्रपतेः जगदीप धन्करवर्यस्य अप्रतीक्षितः स्थानत्यागः। तस्य स्वास्थ्यक्लेशाः एव हेतुरूपेण सूचिताः। गतदिने रात्रावेव त्यागपत्रं राष्ट्रपतये द्रौपति मुर्मू वर्यायै समर्पितवान्। ततः सामाजिकमाध्यमद्वारा स्वस्य स्थानत्यागं विज्ञापितवान् च। 

  वर्षद्वयमपि उपराष्ट्रपतिपदे धनकरस्य कालपरिधिः वर्तते। किन्तु वैद्यानामुपदेशमनुसृत्य स्वास्थ्यपरिरक्षार्थमस्ति स्थानत्याग इति त्यागपत्रे सूच्यते। राष्ट्रपतिः, प्रधानमन्त्री, केन्द्रमन्त्रिणः इत्यादयानां कृते कृतज्ञताप्रकाशनमपि त्यागपत्रे अस्ति।

Monday, July 21, 2025

 प्रक्षोभसूर्यः अस्तंगतः। 

 वि एस् अच्युतानन्दः दिवंगतः। 

श्वः सामाजिकविरामदिनम्। 


अनन्तपुरी> केरलस्य भूतपूर्वमुख्यमन्त्री तथा च भारतीयसाम्यवादीदलस्य (मार्क्स् वादी) [CPI (M)] समुन्नतनेता वि एस् अच्युतानन्दः अद्य अपराह्ने  ३. २० वादने दिवं गतः। १०१ वयस्कः आसीत्। मासैकं यावत् अनन्तपुर्यां एस् यू टि आतुरालये परिचर्यायामासीत्। 

   भारते साम्यवादीदलस्य स्थापकनेतृषु अन्यतमः आसीत् अच्युतानन्दवर्यः। मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। तस्य भौतिकशरीरं सामाजिकान्त्योपचारार्थं 'ए के जि मन्दिरम्' इति दलास्थाने समर्पयिष्यति। अन्त्येष्टिकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते।  वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन विज्ञापितं प्रशासनेन।

 धर्मस्थले हत्याप्रकाशनं - समग्रान्वेषणाय सविशेषसंघः। 

कर्णाटकस्थं धर्मस्थलमिति धार्मिकमन्दिरम्। 

बङ्गलुरु> कर्णाटकराज्यस्थे धर्मस्थलम् इति मन्दिरपरिसरे २० वर्षेभ्यः पूर्वं लैङ्गिकातिक्रमणानन्तरं व्यापादितानाम्  उपशतं स्त्रीणां बालिकानां च मृतदेहान् निखनितुं वशंवदः  इति  लोकान् पुरतः विज्ञापितस्य पूर्वंभूतश्रमिकस्य प्रोक्तिं सगौरवं स्वीकृत्य समग्रान्वेषणं कर्तुं विशिष्टान्वेषणसंघः [एस् ऐ टि] सर्वकारेण रूपीकृतः। एतदर्थं चत्वारः वरिष्ठाः ऐ ए एस् पदीयाः नेतृत्वं वक्ष्यन्ति। 

   बह्वीनां महिलानां बालिकानां च मृतदेहान् विविधस्थानेषु निखनितवानिति धर्मस्थलमन्दिरे भूतपूर्वः स्वच्छताकर्मकरः एव प्रकाशितवान्। १९९८ - २०१४ वर्षाणां मध्ये आसन् एताः घटनाः इति बल्तङ्ङाडि न्यायालये उपस्थाय विज्ञापितवान्। मृतदेहावशिष्टान् प्रमाणरूपेण समर्पितवान् च।

    राज्ये महिला आयोगस्य व्यवधानेनैव अन्वेषणप्रक्रमः। धर्मस्थले समीपप्रदेशे च अतीतेषु २० वर्षेषु जातानि महिलानां बालिकानां चअस्वाभाविकमरणानि तिरोधानानि तथा हत्याः आत्महत्याः च अन्वेषणाय निर्देशः कृतः।

 २० संवत्सराणि 'स्वपन् राजकुमारः' अन्त्यनिद्रां प्राप। 

मृत्युं प्राप्तः अल् वलीद् राजकुमारः चिकित्सालये। 

रियादः>  'स्वपन् राजकुमारः' इति लोकैराहूयमानः सौदिराजकुमारः अल् वलीद् बिन् खालिद् बिन् तलाल् नामकः शनिवासरे मरणं प्राप्तवान्। सौदिराष्ट्रस्य राजभवने खालिद् बिन् तलाल् अल् सौद् राजकुमारस्य ज्येष्ठपुत्रः अल् वलीदः २००५ तमे वर्षे लण्टने  दुरापन्नायां कार् यानदुर्घटनायां गभीरेण आहतः अभवत्। तदा ब्रिटने सैनिककलालये  अध्ययनं कुर्वन्नासीत् सः। 

  रियादस्थे किङ् अब्दुल् असीस् चिकित्सालये २० वर्षाणि यावत् अबोधावस्थायां वर्तमानः सः ३६ तमे वयसि गते शनिवासरे मृत्युवशं गतः इति वृत्तान्तं  पित्रा लोकेभ्यः  न्यवेदयत्।

 गासायां पुनरपि गणहत्या - 

भोज्यवितरणस्थाने ३२ जनाः हताः। 

डेयर् अल् बाला> गासायां स्थानद्वये भोज्यादानाय प्राप्तानां प्रति इस्रयेलसेनया कृते भुषुण्डिप्रयोगे ३२ जनाः मृताः। टेय्ना इत्यत्र २५ जनाः, षौ कौष् इत्यत्र सप्त जनाः च व्यापादिताः। ७० जनाः व्रणिताश्च। किन्तु व्यापादनं इस्रयेलेन निरस्तम्। सूचनार्थमेव भुषुण्डिप्रयोगः कृतः इति सेनया प्रोक्तम्।

 वियट्नामे नौका निमज्य ३४ मरणानि। 

हानोयि> वियट्नामे हा लोङ् नामके समुद्रान्तराले विनोदयात्रानौका निमज्य ३४ पर्यटकाः मृताः। तेषु २० बालकाः भवन्ति। अष्टजनाः समुद्रे तिरोभूताः। ११ जनाः रक्षिताः वर्तन्ते। 

  नौकायां ४८ पर्यटकाः पञ्च कर्मकराः चासन्। भीषणवातोपेता गम्भीरा वृष्टिः च दुर्घटनाकारणमभवत्।

Sunday, July 20, 2025

 भारतीयसंसदः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतीयसंसदः वर्षाकालीयसम्मेलनं जूलय् २१ तमदिनाङ्कत‌ः आगस्ट् २२ दिनाङ्कपर्यन्तं सम्पत्स्यते। एतेषु दिनेषु आहत्य २१ उपवेशनानि भविष्यन्ति। 

  सम्मेलनस्य समीचीनप्रचालनाय अद्य सर्वपक्षीयस्मेलनं सम्पन्नम्।

 तिब्बते ब्रह्मपुत्रायाः उपरि महा सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य चिन्ता वर्धिता।

    तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रानद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः प्रसिद्धस्य त्रैणगर्जपरियोजनायाः त्रैगुण्यम् अतिक्रामति।

  एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषं चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।

   भारतदेशेन चीनं प्रति निवेदनं कृतम्— "नीचगामिनां राज्यानां हिताय परियोजना निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतद् परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।

 १२०० कि.मी अनुस्यूततया डयमानः विस्फोटकग्राही विमानः। 

  भारतीयः नूतनविमानः १२०० कि मी दूरम् अनुस्यूततया डयमानः भविष्यति। अयं १२ टण् भारं वोढुं क्षमः भविष्यति। 

अपि च विश्वस्य कमपि प्रदेशम् अतिक्रम्य विस्फोटक-वस्तूनां विक्षेपणाय क्षमतायुक्तः च भविष्यति। इदानीम् एतादृशाः शक्नियुक्ताः विमानाः यू एस्, रष्यः ,चीनराष्ट्राणां पार्श्वे एव वर्तन्ते। भरतमपि विना विलम्बम् एतादृश-विमानेन शक्तिशाली भविष्यति।

 विधेयकनिर्णये समयक्रमः - 

राष्ट्रपतेः प्रश्नान् परिगणयितुं शासनसंविधानपीठम्। 

नवदिल्ली> विधानसभाभिः अनुमोद्य राज्यपालान् प्रति प्रेष्यमानानां विधेयकानां निर्णयाय समयक्रमं निश्चितवतः सर्वोच्चन्यायालयस्य विधिमधिकृत्य राष्ट्रपतिना उन्नीतान्  प्रश्नान् परिगणयितुं शासनसंविधानपीठं निश्चिकाय। मुख्यन्यायाधिपः बी आर् गवाय् वर्येण आध्यक्षम् ऊढ्यमानेन पञ्चाङ्गोपेतनीतिपीठेन जूलाय् २२ तमे दिनाङ्के परिगणयिष्यते। 

  १४ नियमप्रश्नाः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उन्नीताः। प्रशसनसंविधानस्य १४३ (१) इत्यनुच्छेदानुसारमेव राष्ट्रपतेः प्रश्नाः।

 पूर्वभार्यायै भरणपोषणार्थदण्डं प्रदातुं कश्चिन्निरुद्योगो नरः कण्ठसूत्रचौर्यं वृत्तिं कृत्वा बहुष्वपराधेषु लिप्तः सन्नन्ततो निगृहीतः।

    द्विवर्षव्यापिना अवृत्तित्वेन न्यायालयनिर्दिष्टेन भरणपोषणभारेण च पीडितो नागपुरस्थः पुरुषोऽयं सुवर्णकण्ठसूत्रचौरकर्मणि बहुशः प्रवृत्तः। नागपुरस्य माणकापुरान्तर्गते गणपतिनगरे निवसन् द्विचत्वारिंशद्वर्षीयः कन्हैयानारायणबौराशीत्याख्यो निरुद्योगः पुरुषः स्वपूर्वपत्न्याः कृते न्यायालयनिर्दिष्टं षट्सहस्ररूप्यकाणां मासिकं भरणपोषणधनं दातुं पुनः पुनश्चौर्यकर्मण्यभियुक्तो निगृहीतः। इदं प्रकरणं तदा प्रकाशमागतं यदाऽस्य कृष्टाब्दस्य द्वितीये मासे द्वाविंशतितमे दिनाङ्के चतुस्सप्ततिवर्षीया गाडेकुलीनजयकुमारपत्नी वृद्धा जयश्रीर्मनीषनगरे द्विचक्रिकायानेनागतेन केनचित् तस्करेण तस्याः सुवर्णसूत्रमपहृतमिति न्यवेदयत्।

 विद्युदाघातेन छात्रस्य मरणम्।

मिथुनाय सहस्राणाम् अन्त्याञ्जलिः। 

माता विदेशादागता। 

कोल्लं> अधिकृतानां उत्तरदायित्वराहित्येन विद्यालयस्थात् विद्युत्तन्त्रिणः विद्युदाघातेन  विनष्टप्राणस्य मिथुन् नामकस्य त्रयोदशवयस्कस्य अन्त्येष्टिकर्माणि विधत्तानि। 

  परिवारस्य आर्थिकक्लेशपरिहारार्थं  गृहपरिचारिकारूपेण वृत्तिं कर्तुं मासद्वयात्पूर्वं  विदेशं गतवती माता सुजा ह्यः मध्याह्ने गृहं प्राप्तवती। पुत्रस्य निश्चेतनं शीतीकरणीसंरक्षितं च  शरीरं दृष्ट्वा तस्याः विलापः हृदयभेदक आसीत्। सायं सार्धचतुर्वादने मिथुनस्य अनुजः चिताम् अग्निज्वलनमकरोत्।

   प्रभाते दशवादनतः मिथुनस्य विद्यालये तस्य शरीरं  सामाजिकान्त्योपचारार्थं  समर्पितमासीत्। सहस्रशः जनाः तस्मै अन्त्योपचारान् समार्पयन्।

Saturday, July 19, 2025

 वायुसेनायै षट् 'अवाक्स्' विमानानि अचिरेण प्राप्स्यन्ति। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणसंस्थया [DRDO] विकसितानि अत्याधुनिकानि अवाक्स् नामकानि विमानानि अचिरेण वायुसेनायाः अंशः भविष्यति। २०,००० कोटि रूप्यकाण्येवास्य व्ययः। 

   संवेदनक्षमं संविधानमुपयुज्य शत्रुविमानानि दूरतः एव अधिगम्य प्रतिरोद्धुं शक्यते। 'ओपरेषन् सिन्दूर्' दौत्ये Airborne  Warning And Control Systems इति अवाक्स् विमानानां सेवा महत्तरा आसीत्। शत्रुनिरीक्षणाय प्रतिरोधाय च निर्णायकस्थानमावहन्ति।

  अनेन सह उत्तरप्रदेशे अमेठ्यां  रष्या-भारतसंयुक्तसंरम्भेण निर्मिताः  ७००० 'कलानिष्कोव् ए के २०३' इति शतघ्नयश्च सेनायाः भागमावक्ष्यन्ति।

 षट् मावोवादिनः संघट्टनेन व्यापादिताः।

नारायणपुरं> छत्तीसगढे नारायणपुरं जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे षट् मावोवादिनः हताः। 

  गुप्तसूचनायाः आधारे अबुजमादवनक्षेत्रे कृतस्य अन्वेषणस्य मध्ये शुक्रवासरे  आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च संगृहीतानि।

Friday, July 18, 2025

 राष्ट्रियस्वच्छ सर्वेक्षणे केरलनगराणि प्रथमशतके अन्तर्भूतानि। 

नवदिल्ली> राष्ट्रस्य उत्कृष्टस्वच्छनगराणामावल्यां केरलस्य अष्ट नगराणि प्रथमशतके अन्तर्भूतानि। इदंप्रथममेव केरलस्य इयमुपलब्धिः। 

  कोच्ची [५० तमश्रेणी], तृश्शूर् [५८], कोष़िक्कोट् [७०], तिरुवनन्तपुरं [८९], कोल्लं [९३] इत्येतानि महानगराणि, गुरुवायूर् [८२], मट्टन्नूर् [५३], आलप्पुष़ा [८०] इत्येतानि नगराणि च स्वच्छतापालने उत्कृष्टताम् आवहन्ति। 

  गतवर्षे केरलस्य  नगराणां स्थानं सहस्रादधः आसीत्। किन्तु ततःपरं मालिन्यसंस्करणादिविषयेषु केरलस्य प्रगतिरजायत इति अनेन सूचितमस्ति।

 बिहारे १२५ अङ्कमितां विद्युतं निश्शुल्केन दास्यति। 

पट्ना> विधानसभानिर्वाचनाय मासेषु शिष्टेषु महदानुकूल्यप्रख्यापनेन बिहारस्य मुख्यमन्त्री नितीष् कुमारः। राज्ये गार्हिकोपभोक्तृभिः ओगस्ट् प्रथमदिनाङ्कतः १२५ अङ्कमिता [Unit] विद्युच्छक्तिः निश्शुल्केन लभ्यते। 'एक्स्' इति सामाजिकमाध्यमेन आसीत् मुख्यमन्त्रिणः उद्घोषणम्। 

  ग्रामीणक्षेत्राणाम् अभिवृद्धिं लक्ष्यीकृत्य २१,४०६ कोटि रूप्यकाणां अभियोजनाः अपि आरब्धाः। ११,३४६ वीथीनां, ७३० लघुसेतूनां निर्माणानि च एतासु अभियोजनासु अन्तर्भवन्ति।

 राष्ट्रस्य स्वच्छ सर्वेक्षणपरिणामः उद्घोषितः। 

 इन्दोर्, सूरट्, नवि मुम्बई नगराणि यथाक्रमं प्रथम द्वितीय तृतीयस्थानेषु। 

नवदिल्ली> भारते सर्वोत्कृष्टानि स्वच्छतापूर्णनगराणि निर्णेतुमुद्दिश्यमानस्य स्वच्छसर्वेक्षणस्य परिणामः उद्घोषितः। जनसंख्याधारितमासीत्  सर्वेक्षणम्। दशलक्षाधिकजनसंख्यायुतेषु नगरेषु प्रथमस्थानं मध्यप्रदेशस्थेन इन्दोरनगरेण स्वायत्तीकृतम्। द्वितीयस्थानं सूरट् [गुजरात्] नगरेण प्राप्तम्। तृतीयस्थाने महाराष्ट्रस्य नवि मुम्बई अस्ति। 

  ३ - १० लक्षं जनसंख्याविभागे यू पि राज्यस्थं नोय्डा नगरं प्रथमस्थानं प्राप। द्वितीयं तु चण्डीगड् नगराय, तृतीयं मैसुरु नगराय च लब्धम्। 

  नवदिल्ली, तिरुप्पती, अम्बिकापुरं नगराणि अर्धलक्षतः त्रिलक्षपर्यन्तं इति विभागे यथाक्रमस्थानानि प्रापुः। जैवाजैवमालिन्यानां विभजनं, संग्रहणं, संस्करणं,   बोधवत्करणं, जलस्रोतसां परिपालनम् इत्यादीनि सूचकानि मूल्यनिर्णये परिगणितानि।

 अनवधानतायाः बलिदानी।

विद्यालये विद्युदाघातेन अष्टमकक्ष्याछात्रस्य दारुणान्त्यम्। 

विद्युदाघातेन मृत मिथुनः, दुर्घटनास्थानं च। 

कोल्लम्> विद्यालये कक्ष्याप्रकोष्ठस्य समीपे वर्तमानायाः  द्विचक्रिकाशालायाः उपरिष्ठात् उपगच्छतः  विद्युद्वाहकात्  लोहसूत्रात् वैद्युताघातेन त्रयोदशवयस्कः बालः मृतः। कोल्लं जनपदे तेवलक्करा बालकोच्चविद्यालये अष्टमकक्ष्यायां पठन् समीपप्रदेशीयः मिथुन् नामक एव अतिदारुणेन मृत्युवशं गतः। 

  प्रभाते साधारणतया विद्यालयं प्राप्तः मिथुनः मित्रैः सह क्रीडावसरे तस्य पादरक्षा कक्ष्यायाः बहिः द्विचक्रिकाशालायाः उपरि पतिता। पादरक्षासंग्रहणाय शालोपरि आरूढस्य मिथुनस्य पादे स्रंसिते  हस्तः विद्युद्वाहकरज्जौ पस्पर्श। विद्युदाघातेन पतितं मिथुनं लोहसूत्रात् पृथक्कृत्वा आतुरालयमनयदपि प्राणरक्षां नाशक्नोत्। 

  निस्वपरिवारीयस्य मिथुनस्य पिता मनोजः निर्माणश्रमिकः अस्ति। माता सुजा स्वकुटुम्बस्य आर्थिकक्लेशं परिहर्तुं कुवैट् राष्ट्रे गृहपरिचारिकावृत्तिं कर्तुं मासद्वयात् पूर्वमेव गतवती। 

   विद्यालयाधिकारिणां तथा के एस् ई बी इति वैद्युतिविभागस्य च अनवधानता एव दुर्घटनाकारणमिति स्पष्टमस्ति। ग्रामसभासमित्याः, विद्युत्विभागस्य च अनुज्ञां विनैव कतिपयवर्षेभ्यः पूर्वं छात्रेभ्यः  द्विचक्रिकासंरक्षणशाला निर्मिता। विद्यालयस्य परिसरान्तर्भागेन विद्यालयाय इतरस्मै निजीयपरिवाराय च विद्युद्दानार्थम् उपगच्छतः लोहरज्जुपटलस्य स्थाने कवचिततन्त्राणि उपयेक्तुं के एस् ई बी संस्थया च अनवधानता प्रदर्शिता। प्रकरणेSस्मिन्  बहुजनानां प्रतिषेधान्दोलनं प्रचलति।