मणिपुरे आक्रमणे त्रयः मेय्ती वंशीयाः हताः।
इम्फालः> मणिपुरे वने काष्ठसंग्रहणे व्यापतान् मेय्तीवंशीयान् ग्रामीणान् विरुध्य सायुधसंघेन कृते भुषुण्डिप्रयोगे त्रयः मृताः। मृतशरीरैः सह जनाः मुख्यमन्त्रिणः वासगृहस्य पुरतः प्रतिषेधमकुर्वन्।
सोमवासरे प्रभाते सप्तवादने इम्फालस्य पूर्वीयप्रान्ते ग्रामे आसीदाक्रमणम्। काष्ठसंग्रहणार्थमागतं १६ अंगोपेतसंघं विरुध्य सायुघसंघः निलीय गोलिकाप्रक्षेपं कुर्वन्नासीत्। त्रयः व्रणिताः सन्तः परिचर्यायां वर्तन्ते।