OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 6, 2016

 रेलमार्गसम्बन्धज्ञापनानि अधुना अङ्‌गुल्याग्रे- इन्द्रजालसंख्या: दत्वा अधिकारिणः। 
Image result for railwayआलपुष़ा (केरलम्)> रेलयानयात्रिकाः इतः आरभ्य: तिस्रः संख्याः एव स्मरन्तु , रेलमार्गज्ञापनानि भवतां अङ्गुल्याग्रम् आगच्छन्ति - रेलमार्गाधिकारिणः नूतनं प्रख्यापनमेतत् । १३८, १३९,१८२ इत्याद्या: तिस्रः निशुल्कसंख्याः आश्रयित्वा ज्ञापनानि अवगन्तुं शक्यते । १३९-रेलयानानां गमनागमनज्ञापनं, समयः , प्रवेशनपत्रसंवरणम् इत्यादीनां सौकर्याय उपयुज्यते। १३८- यात्रावेलायाम् अनुभूयमानानां क्लेशानां बोधनाय उपयुज्यते। एतत्‍तु सर्वासामपि भाषायाम् उपयोक्तुं शक्यते।१८२ - सुरक्षितत्वसम्बन्धनिवेदनं, आरक्षकसेवनं, तस्कराक्रमणं, रेलमार्गसुरक्षासेनायाः सेवनम् इत्यादिभ्यः कृते उपयुज्यते। एतदर्थं प्रवेशनपत्रस्य संख्या, दूरवाणीसंख्या च दातव्ये।
 
वेतनवर्धनं न्यूनमेव - केन्द्रसर्वकारोद्योगिनः समरं प्रति गच्छन्ति।
     नवदहली > सप्तमं वेतनसमितेः प्रख्यापितः नूतनवेतनसम्प्रदाय: अपर्याप्तः इति कारणात् केन्द्रसर्वकारोद्योगिनां विविधसङ्‌घानां संयुक्तसमित्या समरकार्यक्रमः प्रख्यापितः। अस्य मासस्य ११ दिनाङ्कादारभ्य अनिश्चितकालात्मकः एव समरः। नाषणल् जोयिन्ट् कौण्सिल् एव समराय आह्वानम् अकरोत्। उद्योगिनां ६ सङ्‌घानां संयुक्तसमितिरेव इयम्। आधारवेतनं ७००० इति संख्यायाः १८००० इति परिवर्तितमासीत्। किन्तु एतत् अपर्याप्तम्, आधारवेतनम् २६००० इति परिवर्तनीयम्‌ इत्येव समिते: निवेदनम्। समित्या: नेतृभि: आभ्यन्तरसचिव: राजनाथसिंहः, आर्थिकसचिव: अरुण् जयट्ली, रेलसचिवः सुरेष् प्रभुः इत्यादिभिः सह जूण् ३० तमे दिनाङ्के चर्चा कृता आसीत्। ततः परमेव समित्या समरप्रख्यापनमकरोत्।

अन्तर्जालवेगम्  अवलोकयितुं नूतनं 'आप्'।
 नवदहली > अनौद्योगिकवार्ता प्रक्षेपणसङ्घानां कापट्यं प्रतिरोद्धुं ट्राय् । ३जी, ४जी सौकर्यादिकं वाग्दानं कृत्वा २जी वेगपरिमितं सेवनमेव अनौद्योगिकवार्ताप्रक्षेपणसङ्घैः दीयते इति बहवः ट्राय् अधिकारिणः सूचितवन्तः। समस्यामिमां परिहर्तुमेव ट्राय् संस्थया 'मै स्पीड्' इति नाम्ना नूतनं प्रयोगसंविधानम् आविष्कृतम्। इदं संविधानमुपयुज्य दूरवाण्याः वेग: स्वयमेव अवगन्तुं शक्यते इति ट्राय् अधिकारिणः सूचयन्ति।

कानडायां किरीटं संप्राप्य भारतीयक्रीडकाः
 काल्गरी > कानडा ओप्पण् ग्रान्ट् प्री बाड्मिण्टन् स्पर्धायां किरीटं संप्राप्य भारतीयाः। पुरुषविभागे बि साय् प्रणीतः पुरुषाणां द्वन्द्विविभागे मनु अत्रिः-सुमीत् रेड्डिः संख्यं च किरीटं प्रापयत्। बाड्मिण्टन् क्रीडामण्डले साय् प्रणीतस्य प्रथमं किरीटं भवत्येतत्। मनु अत्रिः-सुमीत् रेड्डिः संख्यं रियो ओलिम्पिक्स् मध्ये भारतस्य कृते क्रीडिष्यते च।

अङ्गपरिमितेभ्य: ३% संवरणं दातव्यम् - उच्चतरन्यायालय:।
 नवदहली > सर्वकारोद्योगेषु अङ्गपरिमितेभ्य: उद्योगार्थिभ्यः ३% संवरणं कल्पनीयमिति उच्चतरन्यायालयस्य कल्पना। अधुना सर्वकारस्य सर्वेष्वपि विभागेषु अङ्गपरिमितविभागानां संवरणे परिधिरासीत्। तदेव उच्चतरन्यायालयेन परिवर्तितम्। इदानीं सर्वेष्वपि विभागेषु तेभ्यः ३% संवरणं लभ्यते। प्रसारभारती मध्ये कस्यचित् नियमसम्बन्धनिवेदनस्य चर्चायामेव न्यायालयेन नूतनं प्रख्यापनमकरोत्।

भीमाकारिका दूरदर्शिनी निर्माय चैना।

बीजिङ् > अन्यग्रहेषु विद्यमानानां जीविनां निरीक्षणाय भीमाकारिकां दूरदर्शिनीं निर्माय शास्त्रलोकं प्रति चैनाया: योगदानम्। 'नाषणल् अस्ट्रोणमिक्कल् ओब्सर्वेषन्' भवति दूरदर्शिन्याः निर्माता। चैनायां शास्त्रसाङ्केतिककार्यक्रमाणां गवेषणप्रवर्तनानां च निर्वहणं कुर्वतः 'चैनीस् अकादमी ऑफ सयन्सस्' इति संघस्य नेतृत्वे एव दूरदर्शिन्याः निर्माणप्रवर्तनानि आयोजितानि। इमां दूरदर्शिनीमुपयुज्य भूमेः १००० प्रकाशवर्षात् दूरस्थं वर्तमानं सर्वमपि रेडियो तरङ्गम् निरीक्षितुं शक्यते।

चतुर्दिनाभ्यन्तरे ग्रामे पत्रालयम् उद्‌घाट्य वार्ताविनिमयमन्त्रालयः।
  नवदहली > नरेन्द्रमोदिनः सर्वकारस्य विमर्शकेषु प्रमुखः एव राजदीपसर्देशाय्। प्रसिद्धः पत्रकार्यकर्ता अयं 'इंडिया टुडे' पत्रिकायाः सम्पादकः वर्तते। गतसप्ताहे अयं पत्रालयरहितं कमपि ग्रामं परामर्श्य सामूहिकमाध्यमे ट्वीट् कृतवान् आसीत्। किन्तु  वृत्तान्तममुं ज्ञात्वा चतुर्दिनाभ्यन्तरे एव वार्ताविनिमयमन्त्रालयेन तस्मिन् ग्रामे पत्रालयमारभ्य प्रतिकरणं दत्तम्। एतत् सम्बन्ध्य सचिवेन रविशङ्करप्रसादेनैव प्रतिट्वीट् कृतं वर्तते। मोदीसर्वकारस्य कार्यक्षमतायाम् अद्भुतस्तब्धः एव अधुना राजदीपसर्देशाय्।

उत्तरप्रदेशे काण्ग्रस् दलं नेतुं प्रियङ्कागान्धी।
 नवदहली > निर्णायकम् उत्तरप्रदेशस्थं निर्वाचनं लक्ष्यीकृत्य काण्ग्रस्दलम् अग्रे नेतुं प्रियङ्कागान्धी इति सूचना।निर्वाचनसम्बन्धानि प्रचारणप्रवर्तनानि प्रियङ्कायाः नेतृत्वे आयोजयितुं काण्ग्रस् नेतृभिः निर्णय: स्वीक्रियते। विदेशे वर्तमानस्य राहुल् गान्धिनः प्रत्यागमनात्परम् एतत्सम्बन्ध्य प्रख्यापनं भविष्यति। उत्तरप्रदेशराज्यस्थानां प्रवर्तनानां दायित्वं वहन् गुलां नबि आसादः प्रचारणनेतृत्वविषये प्रियङ्‌कया सह चर्चाम् अकरोत्। राज्ये विद्यमानानां विविधानां लघुदलानां योजनेन बृहत् दलरूपीकरणमपि काण्ग्रस् नेतृत्वं चिन्तयति।


संस्कृतप्रचारणाय आदर्शविद्यालयपद्धतिः समारब्धा। 
कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचारणविभागस्य नेतृत्वे अस्मिन् वर्षे राज्ये आविष्क्रियमाणायाः आदर्शविद्यालयपद्धत्याः राज्यस्तरीयोद्घाटनम् उपकुलपतिः डो. एम् सि दिलीप्कुमारः निरवहत्।

Tuesday, July 5, 2016

  धाक्का आक्रमणम् - ऐ एस् योगदानं नास्तीति बङ्‌गलादेशसर्वकार:।
  धाक्का > भारतीयविद्यार्थिनीसहितानां विंशति जनानां वधाय कारणीभूते आतङ्गवादाक्रमणे इस्लामिक् स्टेट् (ऐ एस्) योगदानं नास्तीति विशदीकृत्य बङ्‌गलादेशसर्वकार:।बङ्‌गलादेशस्य आभ्यन्तरमन्त्रिणा आसाद् उस्मान् खान् महोदयेनैव एतदुक्तम्। बङ्‌गलादेशस्यैव आभ्यन्तरातङ्गवादिनः जमायत्तुल् मुजाहिदीन् बङ्‌गलादेश् इति संस्थायाः प्रवर्तकाः एव आक्रमणकारिणः इति सर्वकारस्य विशदीकरणम्। एवमेव पाकिस्तानस्य ऐ एस् ऐ इति गूढसंस्थायाः अपि दायित्वमस्तीति सूचनाः सन्ति।

 पाश्चात्यसिनेमासंविधायक: मैक्किल् चिमिनो दिवङ्गतः।
 लोस् आञ्चलस् > अमेरिकायाः विख्यातः चलनचित्रसंविधायकः ओस्कार् पुरस्कारजेता च मैक्किल् चिमिनो दिवङ्गतः। शनिवासरे स्वगृहे एव तस्य मृतदेहः दृष्टः वर्तते। मरणकारणं व्यक्तं न भवति। तस्य ७७ वयः आसीत्। १९७८ तमे वर्षे 'द डीर् हण्टर्' इति सिनेमायाः कृते ओस्कार् पुरस्कारः प्राप्तेन तेन अष्ट सिनेमा: सज्जीकृताः सन्ति। इट्टलीवंशीयः सः १९३९तमे वर्षे न्यूयोर्क् मध्ये लब्धजन्मा वर्तते । चित्रलेखने निपुणः चासीत् चिमिनो महोदयः।

 खुर्-आन् ग्रन्थं प्रति अवहेलनम् - ए ए पि नियमसभासामाजिकं प्रति अन्यायनिवेदनम्।
  नवदहली > पञ्चाबे मुस्लिम् भूरिपक्षप्रदेशे मलेर् कोट्ला मध्ये वर्गीयसंङ्घर्षाय प्रेरितः इति आक्षेपमुन्नीय दक्षिणदहली नियमसभासामाजिकं नरेष्‌ यादवं प्रति पञ्चाब् आरक्षकवृन्देन अन्यायनिवेदनम् स्वीकृतम्।अग्रिमवर्षे पञ्चाबराज्ये जायमाने नियमसभानिर्वाचने विजयाय राज्ये वर्गीयसंङ्घर्षम् उत्पादयितुं धर्मग्रन्थस्य खुरानस्य पुटानि विच्छिद्य मार्गेषु निक्षिप्तुं विजयकुमारनामकं युवकं प्रेरितवान् इत्येव अन्यायः। प्रदेशात् खुरानस्य पुटानि अपि लब्धानि। एतत्सम्बन्धे अन्याये बन्धितः विजयकुमारः नरेष् यादवस्य प्रेरणया एव दोषः आचरितः इति अवदत्I तदनुसृत्यैव आम् आदमी दलस्य सभासामाजिकं प्रति अन्यायनिवेदनं स्वीकृतं वर्तते।

विम्बिल्डण् - भारताय सानिया मिर्सा रोहन् बोप्पण्णः च पुरतो गच्छतः।
 लण्टन् > पादद्वयं पूर्तीकृते विम्बिल्डण् मध्ये भारतस्य सानिया मिर्सायाः रोहन् बोप्पण्णस्य च सङ्घौ प्री क्वार्टर् पादं प्रविष्टौ। किन्तु प्रतीक्षया द्वितीयपादे मत्सराय आगतः भारतस्य लियाण्टर् पेस् पोलण्टस्य मार्सिन् मट्‌कोव्स्कि दलं बहिर्गतम्।

Monday, July 4, 2016


विदेशोद्योगार्थिनः कृते नैपुण्यविकसनपरिशीलनम्।
  नवदहली > विदेशेषु उद्योगमन्विष्य गच्छतां भारतीयानां कृते नैपुण्यविकसनपरिशीलनं दातुं विदेशकार्यमन्त्रालयस्य पर्यालोचना। एतदर्थं राष्ट्रे ५० केन्द्राणि आरब्धुं मन्त्रालयेन आलोच्यते। विदेशराष्ट्रेषु यत्र कुत्रापि वा भवतु तत्रत्या: परीक्षाः परिशीलनानि च पूर्तीकरणीयानि। तदर्थं नैपुणी विकसनमेव मुख्योद्देश्यम्। अन्तःराष्ट्रियवैदग्ध्ययुक्तं  परिशीलनमेव एतेषु केन्द्रेषु उद्दिश्यते।

 डो. जि गंगाधरन् नायर् संस्कृतविश्वविद्यालयस्य सिन्डिकेट् अङ्गः।
कालटी> प्रमुखः संस्कृतपण्डितः आचार्यश्रेष्ठः डो. जि गङ्गाधरन् नायर् वर्यः कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सिन्डिकेट् सदस्यरूपेण केरलराज्यपालेन नियुक्तः। इदानीं विश्वविद्यालये व्याकरणविभागस्य डीन् अस्ति।
   संस्कृतभारत्याः केरलघटकस्य ( विश्वसंस्कृतप्रतिष्ठानम्) रक्षाधिकारी अयं वेलियनाट् चिन्मय अन्तर्देशीय गवेषणसंस्थायाः अध्यक्षः तथा कोच्ची सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् संस्थायां ओणररि प्रोफसर् च वर्तते।

एकीकृतपौरधर्मसंहिता - सम्मिश्रप्रतिकरणानि।
  कोषिकोट् > राष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशनं प्रति सामूहिकमण्डलेभ्यः सम्मिश्रप्रतिकरणानि। एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति केचन सामुदायिकनेतारः अभिप्रेतवन्तः। किन्तु एतस्याः सन्निवेशनं राष्ट्रस्य धर्मनिरपेक्षतां हनिष्यतीति भारतीयमुस्लिंदलनेतारः अभिप्रयन्ति।भा ज पा दलेन नेतृत्वं कुर्वतः केन्द्रसर्वकारस्य नूतनपरिष्कारः दूरव्यापकप्रत्याघातः स्रक्ष्यतीति तेषामभिप्रायः। विवाहः, जीवनांशः,पैतृकसम्पत्,मरणानन्तरकार्यक्रमाः इत्यादिषु व्यक्तिनियमः दैवीकः एव, तत्र चर्चायाः आवश्यकता एव नास्ति- भारतीयमुस्लिंदलस्य देशीयकार्यदर्शिना इ टि मुहम्मदबषी रेण उक्तम्।किन्तु एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति सीरो मलबार् सभया उक्तम्।केन्द्रसर्वकारस्य निर्णयोऽयं स्वागतार्हः,तथापि आचारानुष्ठानानां वैविध्यानि संरक्षणीयानि इति मेजर् आर्च बिषप् कर्दिनाल् मार् जोर्ज् आलञ्चेरि अवदत्।

शिरस्त्राणविहीनेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः-इन्धनदातारः
  तिरुवनन्तपुरम् > केरलराज्ये आगस्त् मासादारभ्य शिरस्त्राणविहीनेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः इति इन्धनदातारः अभिप्रेतवन्तः।विषयेऽस्मिन् अधिकृतैः इन्धनव्यापारसंघैः सह चर्चा कापि न कृता। नियमस्यास्य प्रायोगिकांशाः इन्धनव्यापारसंघान् प्रतिकूलतया एव बाधन्ते। अतः निर्णयममुं अङ्‌गीकर्तुं नैव शक्यते इति तै: उक्तम्। किन्तु अधुना केषुचित् जनपदेषु परीक्षणाधारेण नियमोऽयम् आरब्धः वर्तते।

अरुणाचलप्रदेशे शकलराश्यपघातः- दश जनाः हताः। इट्‌टानगरम् > अरुणाचलप्रदेशे वेस्ट् कमेंग्मण्डले गतदिने संजाते शकलराश्यपघाते दश जनाः हताः। अतिवृष्ट्या शुक्रवासरे रात्रावेव अपघातः संजातः। अपघातेन बहूनि गृहाणि ,अनेके विद्यालयाश्च भग्नाः। अपघातस्थलेषु एन् डि आर् एफ्‌ संघाः मण्डलाधिकारिभिः सह रक्षाप्रवर्तनानि कुर्वन्तः सन्ति।

विम्बिल्डण् मध्ये पुनरपि अप्रतीक्षितविजयः- जोकोविच् बहिर्गतः।
  लण्डण् > अनुस्यूतं किरीटधारणं लक्ष्यीकृत्य आगतं विश्वप्रथमस्थानवाहकं नोवाक् जोकोविचं तृतीयपादे पराजित्वा अमेरिकायाः सांक्वरेः प्रयाणः। अनेन कलण्डर् ग्रान्ट्स्लाम् इति प्राप्तिः जोकोविचस्य अप्राप्या जाता। ७-६,६-१,३-६,७-६ इत्यनुपाते एव सांक्वरेः विजयः।

 धाक्का आतङ्गवादाक्रमणम् - मृतेषु भारतीयविद्यार्थिनी अपि।
     धाक्का > बड्ग्लादेशस्य राजधान्यां धाक्कायाम् एकस्मिन् भोजनालये संवृत्ते आक्रमणे विंशदधिकाः जनाः हताः। तेषु भारतीया विद्यार्थिन्यपि अन्तर्भूता वर्तते। आतङ्गवादिभिः बन्धितेषु तारिषी जेयिन् (१९) नामिका भारतीयविद्यार्थिनी एव हता। विदेशकार्यसचिवया सुषमा  स्वाराजमहोदयया एतत् दृढीकृतम्। मृतेषु सर्वेऽपि जपान्‌-इट्टलीराज्येभ्यः आगताः जनाः आसन् इति सूचनाः।ऐ एस् आतङ्गवादिनः एव आक्रमणं कृतवन्तः। तथापि विशुद्धखुरान् ग्रन्थस्य पारायणं कृतवन्तं प्रत्येकमपि जनम् आतङ्गवादिनः वधात् मोचितवन्तः इत्यपि सूचनाः सन्ति। विशुद्धरमदानसम्बन्धानाम् आचाराणाम् अनुष्ठानसमये एव सम्पन्नानां मण्डले गुल्षन् मध्ये होली आर्टिसान् नामके भोजनालये ऐ एस् आक्रमणं सञ्जातम्।

केरलेषु इतरराज्यस्थानां दिवसवेतनकर्मकराणां संख्या क्रमातीता - गत्यन्तरं विना कर्मकरमन्त्रालयः।
     तिरुवनन्तपुरम् > केरलेषु इतरराज्यस्थानां कर्मकराणां संख्या प्रतिदिनं वर्धयन्ती एव।उद्योगाय कति जनाः केरलम् आगच्छन्ति इति मन्त्रालयपक्षतः स्पष्टं विशदीकरणमपि नास्ति। समीपकाले पेरुम्पावूर् देशे जाते जिषा नामिकायाः युवत्याः वधे आसामदेशीयः युवकः आसीत् अपराधिः।ततः इतरराज्यस्थानां जनानां विषये गणनायै सर्वकारेण श्रमः कृतःवर्तते।गणनेयं मन्त्रालयाय श्रमकरः एव भवति। अनौद्योगिकगणनामनुसृत्य केरलेषु २५ लक्षाधिकाः इतरराज्यस्थकर्मकराः सन्तीति उच्यते। ते च उद्योगेन प्रतिवर्षं १७,५०० कोटि रुप्यकाणि सम्पादयन्ति इति सर्वकारः विशदयति।

 फेय्स् बुक् मध्ये वाचनं सुकरम्
 न्यूयोर्क् >  प्रचुरतया प्रचाल्यमाने सामूहिकमाध्यमे फेय्स्  बुक् मध्ये वाचनं सुकरं कर्तुं नूतनसंविधानेन सह फेय्स् बुक् अधिकारिणः।फेय्स् बुक् ब्लोग् मध्ये दत्तां सूचनामनुसृत्य नूतनसंविधानेन एकस्मिन्नेव समये ४४ भाषाः प्रति लेखनानि परिवर्तयितुं शक्यन्ते। एतदर्थं ' मल्टी लिङ्ग्वल् ' संविधानमेव उपयुज्यते। तथा च  अन्यभाषाज्ञानं विनापि सामूहिकमाध्यमेऽस्मिन् वाचनलेखनादिकं सुकरं कर्तुं शक्यते।

 पठन्ति प्रौढाः सादरं संस्कृतं मुदा।
 कोच्ची > एरणाकुलं जनपदे मुवाट्टुपुष़ायां प्रचलित विश्व संस्कृतप्रतिष्ठानस्य दशदिनात्मक संभाषण शिबिरस्य उद्‌घाटनकर्मं श्री नारायणशर्म महोदयेन अकरोत् । प्रथमकक्ष्या एरणाकुलं जनपदस्य सहकार्यदर्शी श्री राजेष् कुमार् महोदयेन अचालयत् | जूलै १३ दिनाङ्के कक्ष्यायाः समापनं भविष्यति।
 एरणाकुलं जनपदे मूवाट्टुपुष़ायां प्रचलित दशदिनात्मक-संस्कृतसम्भाषण-शिबिरम्

Sunday, July 3, 2016

उत्तराखण्डे मेघस्फोटनं ; प्रलयः; २२ मरणानि।
पित्तोरगढ् - उत्तराखण्ड राज्ये मेघस्फोटनमिति पर्यावरणप्रतिभासानन्तरं दुरापन्ने महावृष्ट्यां भूछेदे च द्वाविंशति जनाः मृताः। पञ्चविंशति जनाः अप्रत्यक्षाः अभवन्।
 पित्तोरगड् चमोलि जनपदयोः गुरुवासरे अर्धरात्रौ आसीत् दुरन्तः। महत्या वृष्ट्या भूछेदे च बहूनि गृहाणि बहवः प्रदेशाश्च मृत्तिकान्तर्भूतानि।
  बहुत्र मार्गाः नाशिताः। अतः रक्षाप्रवर्तनानि न सुगमानि वर्तन्ते। केन्द्र- राज्यदुरन्तनिवारणसेनाः सैनिक - अर्धसैनिकविभागाश्च रक्षाप्रवर्तनं कुर्वन्ति।

 भारतराष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशाय केन्द्रसर्वकारस्य श्रमः ।
नवदहली > भारतराष्ट्रे अचिरादेव एकीकृतपौरधर्मसंहितायाः सन्निवेशनं भविष्यति। एतदर्थं केन्द्रसर्वकारेण श्रमः आरब्धः। नियममन्त्रालयेन एतत्सम्बन्ध्य नियमसमितिं प्रति निर्देशः पृष्टः वर्तते। नियमनिर्माणाय उपदेशादिकं दीयमाना समितिरेव केन्द्रनियमसमितिः । एतदर्थं समित्या विभिन्नान् व्यक्तिनियमसङ्घान् प्रति चर्चां कर्तुं आलोच्यते। विरमितः न्यायाधिपः बल्बीर् सिंहः एव समितेः अध्यक्षः। समवायेनैव नियमपरिष्कारः आरभ्यते इति केन्द्रमन्त्रिणा सदानन्दगौडेन उक्तं वर्तते।भारतीयशिक्षानियमस्य चतुर्चत्वारिंशत् ४४-तमे भागे पौरधर्मसंहितामधिकृत्य प्रतिपादनं वर्तते इति मन्त्रिणा सूचितम्। एकीकृतधर्मसंहितायाः सन्निवेशनेन भारते व्यक्तीनां विवाह: , विवाहमोचनं, पैतृकसम्पद्, जीवनांशः इत्यादिषु बहुषु विषयेषु एकस्यैव नियमस्य आश्रयणमेव भविष्यति।

राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना ।  
  हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्वेषम्‌ उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्वेषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं  सर्वेभ्यः निर्देशः दत्तः वर्तते।

भारतम् अफ्गानेन सहैव-राष्ट्रपतिः ।
नवदहली > आतङ्गवादिनः प्रति भारतं सर्वदा अफ्गान् राष्ट्रेण सहैव वर्तिष्यतीति राष्ट्रपतिः प्रणब् कुमार मुखर्जी। गतदिने काबूल् मध्ये सैनिकव्यूहं प्रति आतङ्गवादिनाम् आक्रमणेन बहवः सैनिकाः हताः। एतत्सम्बन्ध्य अफ्गान् राष्ट्रपतिं प्रेषिते अनुशोचनसन्देशे एव राष्ट्रपतिना एवं सूचितम्। आक्रमणम् अपलप्य बहवः विश्वनेतारः अफ्गान् राष्ट्रं समाश्वासितवन्तः ।


ओलिम्पिक्स् मध्ये क्रिकेट् अपि ?
रोम् > २०२४तमे वर्षे ओलिम्पिक्स् क्रीडाभ्यः रोम् वेदी भविष्यति चेत् क्रिकेट् कृते अपि अवसरः लप्स्यते इति सूचना। इट्टलीस्थक्रिकेट्समितेः अध्यक्षेण सिमोण् गाम्पिनो महोदयेनैव सूचना दत्ता । अन्तःराष्ट्रक्रिकेट्समितेः वार्षिकयोगः रोम् मध्ये प्रचाल्यमाने सन्दर्भे एव तेन एवमुक्तम्। एतत् साक्षात्‍कृतं चेत् १२४ वर्षेभ्य: परं क्रिकेट् विश्वकायिकमहोत्सवे भागं करिष्यति। एतद् भारतम् इव बहुभ्यः राष्ट्रेभ्यः ओलिम्पिक्स् सुवर्णपतकाय अवसरः एव भवति।

अर्बुदरोगिणां संख्या - दहली प्रथमस्थाने, केरलं    द्वितीये च।

    बङ्गलुरु > आघातदायकं याथार्थ्यं निवेद्य आरोग्यमन्त्रालयः। भारतीया आरोग्यानुसन्धानसमित्या एव पठनं कृतं वर्तते। पठनेषु अर्बुदरोगिणां संख्या दहल्याम् अत्यधिका वर्तते। २०१२ तः २०१६ पर्यन्तस्य कालस्य आरोग्यसम्बन्धानि अनुसन्धानि एव याथार्थ्यमिदं निवेदयति।  केरलेषु तिरुवनन्तपुरमेव अग्रे वर्तते। पट्टिकायां कोल्लं जिलायाः अपि स्थानमस्ति। जनानाम् उद्योगरीतिः, भक्षणक्रमः, जीवनशैली इत्यादीन्येव अर्बुदरोगाय मुख्यानि कारणानि भवन्तीति तिरुवनन्तपुरं रीजणल् कान्सर् सेन्टर् स्थापकनेता  डा.कृष्णन् नायर् महोदयः अवदत्।

विम्बिल्डण् मध्ये अप्रतीक्षितविजयः- मुगुरसे बहिर्गता।
 लण्डण् > विश्वटेन्नीस् मण्डले वनिताविभागे द्वितीयस्थानवाहिका फ्रञ्च् ओप्पण् जेता च गर्बिन् मुगुरसे विम्बिल्डण् तः बहिर्गता। स्लोवाक्यायाः जाना सेपलोवया एव मुगुरसायाः उपरि विजयः प्राप्तः। केवलं ५९ मिनिट्‌ अभ्यन्तरे समाप्तायां क्रीडायां सेपलोवा ६-३,६-२ इत्यनुपाते विजयं प्राप्तवती। वीनस् विल्यंस्, इगेनी बौचार्ड्, सिमोण् हालेप् इत्याद्याः वनिताः द्वितीयपादं प्रविष्टाः।

व्योमसेनायां 'तेजस्' अपि।
 बंगलुरु > ३३ वर्षाणां कठिनप्रयत्नेन भारतेन तद्देशीयतया निर्मितं फ्लयिङ् डग्गेर्स् ४५ इति नामकं विमानद्वयं व्योमसेनायै समर्पितम्।सर्वधर्मप्रार्थनायाः अनन्तरमेव समर्पणम् अभवत्। हिन्दु ,मुस्लिं,सिख्, क्रिस्तुधर्मपण्डितानां प्रार्थनानन्तरं व्योमसेनाध्यक्षस्य जस्बीर् वालियमहोदयस्य सान्निध्ये एव तेजसः समर्पणमभवत्।सर्वकारस्य हिन्दुस्थान् एयरोनोटिक्स् लिमिटड् एव विमाननिर्माता।

Saturday, July 2, 2016

 भारतस्य आयुधशेखरेषु वरुणास्त्रमपि।
  नवदहली > भारतेन तद्देशीयतया निर्मितः भारयुक्तः च टोर्पिडो वरुणास्त्रं नाविकसेनायाः आयुधशेखरेषु स्थानं प्रापयत्। बुधवासरे दहल्यां प्रतिरोधसचिवस्य मनोहर् परीकरस्य आध्यक्षे नाविकसेनाया: अध्यक्षस्य सुनिल् लाम्बस्य अन्येषां प्रमुखाणां च सान्निध्ये संवृत्ते योगे एव वरुणास्त्रस्य समर्पणमभवत्।

 स्ववर्गानुरागिण: तृतीयलिङ्गविभागे नान्तर्भवन्ति- उच्चतरन्यायालयः।
 नवदहली> स्ववर्गानुरागिण: तथा उभयलैङ्गिकानुरागिणः च तृतीयलिङ्गविभागे नान्तर्भवन्तीति उच्चतरन्यायालयः। भिन्नलैङ्गिकशेषियुक्ताः एव तृतीयलिङ्गविभागे अन्तर्भवन्तीति परमाध्यक्षस्य टि एस् ठाकुरस्य न्यायस्थानेन विशदीकृतम्। २०१४ तमस्य उच्चतरन्यायालयस्य विधेः व्यक्ततां सम्पादयितुं केन्द्रसर्वकारेण समर्पितं निवेदनमनुसृत्यैव नूतनविशदीकरणम्।स्ववर्गरतिम् अपराधत्वेन विशदीकुर्वन्तं भारतीयशिक्षानियमस्थं ३७७ तमं भागं दहली उच्चतरन्यायालयेन परिवर्तयति स्म।तस्य पुनःपरिशोधनानिवेदनमपि परिगणनायां वर्तते।


ब्रिट्टीष् प्रधानमन्त्रिपदाय पञ्च प्रमुखाः पट्टिकायाम्।
 लण्टन् > स्थानं त्‍याज्यमानस्य डेविड्कामरूणस्य अनुयायी भवितुं ५ प्रमुखाः पट्टिकायाम् अन्तर्भूताः। किन्तु सर्वैः प्रतीक्षाम् अर्पितेन लण्टन् नगराध्यक्षेण बोरिस् जोण्सनेन मत्सररङ्गात् प्रतिनिवृत्तिः प्रख्यापिता च। एतस्मिन्नवसरे कण्सर्वेटीव् दलस्य प्रमुखाः नेतारः मैकिल् गोव्, आभ्यन्तरसचिवा तेरेसा मेय् , स्टीफन् क्राब् , आन्ट्रिया लीट्‌सं, प्रतिरोधकार्यदर्शी लियां फोक्स् च मत्सररङ्गे सजीवाः सन्तिI ब्रिट्टणस्य यूरोप्यन् सङ्‌घात् प्रतिनिवृत्तये अत्यधिकम् उद्घोषितः आसीत् बोरिस् जोण्सन्।

 विम्बिल्डन् - जोकोविच्, फेडरर् च तृतीयपादं प्रविष्टौ।
 लण्टण् > विम्बिल्डन् टेन्नीस् स्पर्धायां जोकोविच् फेडरर् च तृतीयपादं प्रविष्टौI ब्रिट्टणस्य मार्कस् विल्लिसमेव फेडरर् पराजितवान् । अनुपातः ६-०,६-३,६-४ । अधुनाधुनविजेता जोकोविच् अड्रियान् मन्नारिनं ६-४,६-३,७-६ इति अनुपाते पराजितवान्। ग्रान्ड्स्लाम् अनुक्रमेषु जोकोविचस्य ३०तमः अनुस्यूतविजयः एव अयम् ।


 निधिभण्डारः शून्यः; राज्यम् आर्थिकप्रतिसन्धौ - केरळवित्तमन्त्री।

अनन्तपुरी - केरळम् अतिरूक्षे आर्थिकप्रतिसन्धौ पतदस्तीति वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं धवलपत्रम्। सर्वकारेण झटित्येव परिहर्तव्या ऋणबाध्यता दशसहस्रं कोटिरूप्यकाणामस्ति। एवं स्थिते गतार्थिकवर्षान्त्ये १६४१ कोटिरूप्यकाणाम् अधिकप्रस्तावः कृत्रिमत्वेन आविष्कृत इति  वित्तमन्त्रिणा प्रस्तूयते।

धवलपत्रं न, कृष्णपत्रमिति माणिः; अकर्मण्यतायाः प्रतिभूतिग्रहणमिति विपक्षनेता।
 अनन्तपुरी -केरळधनमन्त्रिणा डो. तोमस् ऐसकेन विधानसभायाम् अवतारितं धवलपत्रं वास्तवविरुद्धमिति विपक्षनेतारः। यू डि एफ् सर्वकारेण आविष्कृतानां विकसनोन्मुखप्रवर्तनानां भूतकारुण्यपद्धतीनां च अवमत्यर्थं कुसृष्टं कृष्णपत्रमेतदिति भूतपूर्ववित्तमन्त्री के एम् माणिः आक्षिपति स्म।
  आगामीसंवत्सरेषु एल् डि एफ् सर्वकारः किमपि न करिष्यति इत्यस्य अकर्मण्यताप्रख्यापनस्य नान्दिः एतदिति विपक्षनेता रमेश् चेन्नित्तला उक्तवान्।
  ऋणं कृत्वा आविष्कृतानां विकसनपद्धतीनां गुणफलं तदनुसारं आयवृद्धिश्च भविष्ये एव अनुभोक्तुं शक्यतेति तेनोक्तम्।


 राष्ट्रे वर्गीयकलापाय ऐसिस् पद्धतिः इति सूचना। 
   हैदराबाद् > गतदिने हैदराबाद् मध्ये आरक्षकैः बन्धितः ऐसिस् सङ्घः राष्ट्रे वर्गीयविद्देषम्‌ उत्पाद्य आक्रमणं कर्तुं पद्धतिः पर्यालोचिता इति सूचनाः। जनवासकेन्द्रेषु विस्फोटनेन तथा आराधनाकेन्द्रेषु वर्गीयविद्देषम् जन्यमानानि कुत्सितप्रवर्तनानि च सङघेन उद्दिष्टानि। तदर्थं भाग्यलक्ष्मीमन्दिरे गोमांसं निक्षिप्य हिन्दू-मुस्लीं विरोधमुत्पाद्य आक्रमणाय सङ्घस्य पद्धतिरासीदिति आरक्षकवृन्दं सूचयति। अत एव राष्ट्रे जाग्रतया वर्तितुं  सर्वेभ्यः निर्देशः दत्तः वर्तते।

 मध्यप्रदेशस्य आभ्यन्तरमन्त्रिणा स्वस्थानं त्यक्तम्।
भोप्पालः > मध्यप्रदेशस्य आभ्यन्तरमन्त्रिणा बाबुलाल् गौर् महाभागेन स्वस्थानं परित्यक्तम्। स्थानत्यागनिर्णयः दलस्य उपदेशमनुसृत्यैवेति तेन उक्तम्। समीपकालेषु मध्यप्रदेशसर्वकारस्योपरि तथा भा ज पा दलस्योपरि च तेन कृताः विवादपरामर्शाः एव स्थानत्‍यागस्य निदानाः। अपि च समीपे एव काले स: एकां स्त्रियं प्रति मर्यादारहितेन व्यवहृतवान् इति आक्षेपः जातः आसीत्। एवमेव व्यापं दुर्व्यवहारं प्रति मुख्यसचिवं शिवराजसिंह चौहानमपि सः परोक्षतया विमर्शयन् आसीत्। एतत् सर्वमपि स्थानत्यागस्य कारणं भवतीति वार्ता: सूचयन्ति।

Friday, July 1, 2016

मोदी पाकिस्थान् राष्ट्राय विपज्जनकः नेता - हाफिस् सयीद्।
  नवदहली > भारतप्रधानमन्त्री पाकिस्थान् राष्ट्राय विपज्जनक: पुरुषः एवेति आतङ्‌गवाददलस्य लष्कर् ई तोयिबायाः नेता हाफिस् सयीद् । भारतस्थायै मोदीविरुद्धशक्त्यायै सम्पूर्णसहयोगः अपि तेन प्रख्यापितः अस्ति। पाम्पोर् मध्ये सि आर् पि एफ् वाहनव्यूहं प्रति संवृत्तस्य आक्रमणस्य दायित्वम् अनया संघटनया अङ्गीकृतमासीत्I आक्रमणस्यास्य मुख्यः सूत्रधारः अस्य भागिनेय: खालिद् वालिद् भवति इति सूचना आसीत्I शनिवासरे एव पाम्पोर् मध्ये आक्रमणं सञ्जातम्। आक्रमणेन अष्टौ सैनिकाः हताः आसन्।

केन्द्रमन्त्रिसभाया: पुनःसंघाटनम् अचिरादेव।
 नवदहली > अग्रिमवर्षे उत्तरप्रदेश: - पञ्चाब् राज्ययोः नियमनिर्माणसभानिर्वाचनं लक्ष्यीकृत्य केन्द्रमन्त्रिसभायाः पुनःसंघाटनम् अचिरादेव भवतीति सूचना। एतत्सम्बन्धचर्चा: भा ज पा दलाध्यक्षः अमित् षा महोदय: प्रधानमन्त्रिणा सह कृताः इति विस्रंभयुक्तानि वार्ताकेन्द्राणि सूचयन्ति। पुनःसंघाटनेन मन्त्रिसभायां केषाञ्चन नवमुखानां प्रवेशोऽपि भविष्यतीत्यपि सूचनाः दृढीकुर्वन्ति।

मुंबई मध्ये मेट्रो रेलयानस्य वेगः वर्धयितुम् अनुमतिः।
 मुंबई > जुलै २ तः मुंबई मेट्रो रेलयानं प्रतिहोरम् अशीति (८०) कि.मी. वेगेन सञ्चालयिष्यति। एतदर्थं मेट्रो रेयिल् सुरक्षाधिकारिणा अनुमतिः दत्ता। मुंबई मेट्रो पद्धत्याः आरम्भे वेगः घण्टायां ५० कि.मी आसीत्। पश्चात् २०१६ तमे वर्षे ६५ कि.मी इति वर्धितः आसीत् ।नूतनः परिष्कारः जनेभ्यः सौकर्याय कल्पते।

मातृकानियमाय अङ्‌गीकारः - राष्ट्रे वाणिज्यकेन्द्राणि २४ घण्टेष्वपि।
   नवदहली > उन्नतवाणिज्यकेन्द्राणि प्रतिदिनं पूर्ण समयमपि प्रवर्तनसज्जं कर्तुं योजनाबद्धाय मातृकानियमाय केन्द्रसर्वकारस्य अङ्गीकारः लब्धः। दशाधिकाः उद्योगिनः अन्तर्भूतानि तथा उत्पादनप्रक्रियारहितानि च वाणिज्यकेन्द्राण्येव नियमस्यास्य परिधौ अन्तर्भवन्ति। किन्तु ऐ टि मण्डले एवं जैवसाङ्केतिकविद्यामण्डले च प्रवर्तमानेषु स्थापनेषु प्रवर्तनसमयः प्रतिदिनं ९ घण्टाः एव।नूतननियममनुसृत्य वाणिज्यकेन्द्राणां प्रवर्तनसमयः तैः स्वेच्छया निर्णेतुं शक्यः। किन्तु वाणिज्यकेन्द्रेषु अथवा स्थापनेषु पानजलं, भोजनालयः , शौचालयः , स्त्रीणां सुरक्षा इत्यादिषु कार्येषु व्यक्तं सज्जीकरणम् आवश्यकम् इत्यपि नियमे सूचयति। एतत् सर्वं अधिकृतैः परिशोध्य एव अनुमतिः दीयते।

 केरलेषु इन्धनमावश्यकं चेत् शिरस्त्राणं धार्यम्।
 तिरुवनन्तपुरम् > केरलेषु आगस्त् १ तः द्विचक्रिकायात्रिकेभ्यः इन्धनम् आवश्यकं चेत् तैः शिरस्त्राणम्  अवश्यं धार्यम्  इति गतागताधिकारिणः विज्ञापनम्। परीक्षणाधारेण तिरुवनन्तपुरम्, कोच्ची, कोषिक्कोट् नगरसभापरिधावेव नियमस्य प्राबल्यम्। नियमोऽयं द्विचक्रिकायात्रिकैः अङ्‌गीकृतः चेदपि कैश्चित् मण्डलेभ्य: विरोधोऽपि आगत:। नियमोऽयं अप्रायोगिक: चेत् परिष्करिष्यतीति गतागतसचिवेन ए के शशीन्द्रन् महोदयेन सूचितम्।

चित्रकलाचार्यः के जि सुब्रह्मण्यः दिवंगतः।
वडोदरा > आधुनिक भारतीय चित्रकलायाः आचार्येषु अन्यतमः के जि सुब्रह्मण्यः दिवंगतः।  के जि एस् इति विख्यातः सः भारतपारम्पर्यम् अनुतिष्ठन् चित्रकलानवीकरणाय प्रयत्नमावहति स्म।
 १९२४तमे संवत्सरे केरले कण्णूर् जनपदे लब्धजन्मायं वंगदेशे टागोर् वर्यस्य शान्तिनिकेतनादेव चित्रकलाभ्यासं कृतवान्। १९५१ तमे गुजरात् प्राप्य  बरोडायां एम् एस् विश्वविद्यालये अध्यापक अभवत्। १९८० तमे अध्यापकवृत्तित्वेन शान्तिनिकेतनं प्रत्यागतवान्। अन्त्यकाले बरोडायामेवासीत् तस्य वासः।
    पद्मश्री पद्मभूषणं पद्मविभूषणं  च दत्वा राष्ट्रेण आदुतः। अपि च कालिदास पुरस्कारः रविवर्मा पुरस्कारः ललितकला अक्कादम्याः विविधाः पुरस्काराः वंगमहाराष्ट्रसर्वकारयोः पुरस्काराश्च तं प्राप्तवन्तः। विदेशेषु विश्वविद्यालयेषु श्रेष्ठाचार्यपदवीं च ऊढवान्।

Thursday, June 30, 2016

अन्येभ्यः प्रवेशानुमतिपत्रं न दातव्यम् - यु.एस् नियमनिर्माणसंसदङ्गः। 
वाषिङ्टण् > अन्यराष्ट्रेभ्यः इदानीं दीयमानस्य प्रवेशानुमतिपत्रस्य विराम: आवश्यकः इति अमेरिकायाः नियमनिर्माण संसदङ्गेन अभिप्रेतम्। रिप्पब्लिकन् प्रतिनिधिः चक् ग्रेस्ले एव एवमवदत् । अधुना त्रयोविंशति (२३) राष्ट्रेभ्यः अमेरिकया प्रवेशानुमतिपत्रं दीयते । तत्र विराम: अथवा नियन्त्रणम् आवश्यकम् I प्रतिवर्षम् आगच्छतां वैदेशिकानां प्रतिगमनं नैव सम्भवति , अथवा राष्ट्राणि तेषां प्रत्याह्वाने निस्सहकरणं प्रदर्शयन्ति। अतः अनुमतिपत्रदाने नियन्त्रणम् अवश्यं भवेत्- प्रतिनिधि: अवदत् । भारतम् इव  बहुभ्यः राष्ट्रेभ्यः अभिमतोयं प्रतिकूल: एव।

मेसिना स्वनिर्णयः परिवर्तनीयः-मारडोणा।  
बूणस् ऐरिस् > कोपा अमेरिका पादकन्दुकक्रीडाया: किरीटनष्टाघातेन स्वीकृतं विरामनिर्णयं पर्यालोचनया परिवर्तयतु इति मेसिम् उपदिश्य अर्जन्टीनायाः ऐतिहासिकक्रीडक: पूर्वपरिशीलकश्च डीगो मारडोणा । २०१८ तमवर्षस्य रष्यन् विश्वचषकक्रीडापर्यन्तमपि अन्तःराष्ट्रकायिकमण्डले मेस्याः सान्निध्यम् आवश्यकम्।प्रतिभाधनस्य मेस्याः विरामनिर्णय: आराधकवृन्देभ्यः आघात एव आसीत् । अर्जन्टीनासंघस्य दुरन्तकाङ्‌क्षिणः एव तस्य विराममुद्दिश्य आरोपान् उन्नयन्ति - मारडोणेन अभिप्रेतम्।

पाकिस्ताने अध्ययनोद्देश्यं भारतनिन्दा एव - हिना रब्बानी। 
इस्लामाबाद् > पाकिस्ताने विद्यालयेषु भारतं निन्दितुमेव प्रमुखं शिक्षणं दीयते इति पाकिस्तानस्य भूतपूर्वविदेशकार्यसहसचिवया हिना रब्बानी महोदयया उक्तम्। भारतस्योपरि निन्दाप्रदर्शनाय एव विद्यालयेषु छात्रान् प्रेरयति। अफ्गान्राष्ट्रं प्रत्यपि अयमेव व्यवहारः स्वीक्रियते। अत एव भारत-अफ्गान् सौहृदं प्रति पाकिस्तान् विरोधं प्रदर्शयतिI भारतेन सह सौहृदं दृढीकर्तुमेव अधिकारिभिः श्रद्धा देया। केवलं युद्धेन वा निरन्तरप्रकोपनेन वा काश्मीरं स्वायत्तीकर्तुं नैव शक्यते। अतः भारतेन सह नयतन्त्रचर्चायै पाकिस्तानेन निर्णयः स्वीकार्यः इत्यपि तया सूचितम्‌ । २०११-१३ अनुक्रमे पाकिस्तानस्य मन्त्रिसभायां अन्तर्भूता आसीत् वक्ता।

वधसम्बन्धे तर्के शुक: साक्षी। 
षिकागो > इदम्प्रथमतया विश्वे एकस्मिन् तर्के साक्षिण: स्थाने शुक: I षिकागोयां मिषगाम् देशे एव इयम् अपूर्वा स्थितिः । मार्टिन् ड्यूरल् इति नामकः पुरुषः तस्य पत्न्या ग्लेन्ननया गोलिकाप्रहरेण कृते वधे एव साक्षिण: स्थाने शुकस्य आगमनम्। तर्केऽस्मिन्  शुकस्य वचनं सुप्रधानं प्रमाणमिव स्वीकर्तुमेव न्यायालयस्य निर्णयः।

Wednesday, June 29, 2016

सोपानम्-05 Archana ER Saraswathi Vidyaniketan Chengamanad. News reading 29/06/2016

राष्ट्रिय-मानबिन्दुं विरुद्ध्य केरळराज्यस्य संसदङ्गः वि.टि बलरामः

 केरळराज्यस्य संसदङ्गः (MLA) वी.टी बलरामस्य संस्कृतभाषाविरुद्ध-भाषणे  आभारतं जनाः प्रतिषेधं प्रदर्शितवन्तः।

मृतभाषा इति 'फेस् बुक्' माध्यमद्वारा संस्कृतभाषाम् अधिकृत्य अनाधारारोपं प्रकाशितवान् बलरामः ।
भारत-संविधानेन अङ्गीकृतासु अष्टादशभाषासु प्राचीनतमं भवति संस्कृतम्। इदानीमपि सर्वेषां भारतीयभाषाणां पोषकाधारा च। एतादृशीं भाषाम् अपक्वमनसा उपहासं कुर्वतः अस्य, जनप्रतिनिधेः स्थानमार्जयित्वा कृतव्यवहारः निन्द्यः एव। राष्ट्रिय-मानबिन्दवः सदा समादरणीयाः खलु। एतस्य अपक्वाभिमत-प्रकाशनं विरुद्ध्य सर्वेषां विप्रतिपत्तयः प्रकाशयन्ताम् इति केरळ संस्कृताध्यापक फेडरेषन् दलस्य सचिवः टि.के सन्तोष्कुमारः अवदत् ।

संस्कृतम् अमृतस्य भाषा डा. बलदेवानन्दसागरः।

 नवदेहली >स्वस्यसंस्कृेतेः महिमानम् संस्कृतभाषायाः गरिमा च अज्ञात्‍वा एव केरळ राज्यस्य संसदङ्गः वि.टि बलरामः स्वस्यअभिमतस्य प्रकाशनम् अकरोत् इति बलदेवानन्द सागर: अवदत्। संस्कृतं मृतभाषा न अमृतभाषा एव। संसदङ्गाः तत् ज्ञात्वा पक्वमतयः भवन्तु इत्यपि तेन उक्तम् । अज्ञातविषये पाण्डित्य प्रकाशनं शेभनं न इति सागरमहोदयः स्मारितवान् च ।


सर्वकारस्य यशसे जनप्रतिनिधयः श्रद्धालवः भवन्तु - मोदीः।
   नवदहली > जनप्रतिनिधयः सभायां तथा बहिः च सर्वकारस्य यशसे श्रद्धालवः भवन्तु इति प्रधानमन्त्रिणः मोदिनः उद्‌घोषणम् । स्वपक्षप्रतिनिधिः वा प्रतिपक्षप्रतिनिधि: वा भवतु जनानां प्रतिनिधित्वेन सभायां बहिः च भाव्यम् इति मोदिना उक्तम्। समीपकाले रिसर्व्बाङ्‌क्  अध्यक्षस्य रघुराम् राजस्य स्थानत्यागविषये उन्नीयमानाः आरोपा: सर्वकारस्य शोभां न्यूनीकरिष्यतीति भा ज पा दलप्रतिनिधेः सुब्रह्मण्यं स्वामिनः नाम अनुक्त्वा मोदिना सूचितम्। रघुराम् राजः उत्तमः राज्यस्नेही तथा भारतस्य आर्थिकमण्डलस्य अनिवार्यभाग: च भवतीति प्रधानमन्त्रिणा अभिप्रेतम्।


 कोप्पा किरीटः चिलिराष्ट्राय।
न्यूजेर्सी - कोप्पा अमेरिक्का पादकन्दुककिरीटः अर्जन्टीनां पराजित्य  पुनरपि चिलिदेशेन करस्थीकृतः। निश्चिते समये उभयोः राष्ट्रयोः कन्दुकलक्ष्यरहिते स्थिते षूट् औट् मार्गेण ४-२ कन्दुकलक्ष्ये एव चिली जितः।
  गतवर्षे अपि अर्जन्टीनामेव  पराजित्य चषकं प्राप्तवानासीत्।

रिसर्व् बाङ्क् - अध्यक्षस्थानाय चतुर्णां पट्टिकाः।
   नवदहली > समयावधिं पूर्तीकृत्य सितम्बर् मासे स्थानं त्याज्यमानस्य रघुराम् राजस्य अनुयायिनं निर्णेतुम् अन्तिमा पट्टिका सम्पन्ना इति सूचना। अष्टानां प्रमुखाणां नामभि: सह पूर्वं सज्जीकृतायाः पट्टिकायाः एव चतुर्णाम् अन्तिमा पट्टिका सज्जीकृता वर्तते। रिसर्व् बाङ्क् नियुक्ताधिकारी उर्जित् पहेल्, भूतपूर्वनियुक्ताधिकारिणौ राकेष्मोहनः , सुबीर् गोखन् च एवं एस् बि ऐ अध्यक्षा अरुन्धती भट्टाचार्या इत्यादय: प्रमुखाः अन्तिमपट्टिकायां अन्तर्भूताः सन्ति। राष्ट्रस्य आर्थिकनयरूपीकरणाय समितेः रूपीकरणमपि केन्द्रसर्वकारस्य पर्यालोचनायां वर्तते।

 नूतनसमस्या उभयपक्षचर्चायै विघ्नाः- चैना।
  बीजिङ् > सीमातर्काः तथा नूतनाः काचन समस्याः च भारत-चैनयोः उभयपक्षबन्धुत्वदृढीकरणे विघ्नाः भवन्तीति चैनायाः विदेशकार्यसहसचिवः ली हुलैः अवदत् । भारतेन सह बान्धवः सर्वदा चैनाया: मुख्यः विषयः एव इति तेन उक्तम्। तथापि नूतनसमस्याः काः इति विशदी कर्तुं स: सन्नद्धः नाभवत् ।

अर्जन्टीना'मिशिहा' निवृत्तः।
न्यूजेर्सी - आराधकैः प्रेमपुरस्सरं "मिशिहा" (रक्षकः) इति संबुध्यमानः पादकन्दुकेतिहासः अर्जन्टीना नायकश्च लयणल् मेस्सी अन्ताराष्ट्रपादकन्दुकस्पर्धातः निवृत्तः।
   कोप्पा अमेरिक्का शताब्दिमेलिकायाः अन्तिमचरणे चिलिं प्रति पराजयप्राप्तेः अनन्तरक्षण एव आराधकानां द्वितीयाघात इव क्रीडानिवृत्तिमधिकृत्य मेस्सीवर्यस्य प्रख्यापनमभूत्। चिलिं विरुध्य षूट् औट् मध्ये मेस्सेः प्रहरः बहिर्गत्वा  वृथा जातः। एतस्य निराशा अन्ते परजयस्य आघातः च मेस्सेः नाटकीयनिवृत्तप्रख्यापनस्य कारणभूतौ जातौ।
  विश्वस्य श्रेष्ठपादकन्दुकक्रीडकाय देयमानः बालण् द्योर् पुरस्कारः पञ्चवारम् अनेन स्वायत्तीकृतः। ११३ स्पर्धासु ५५ कन्दुकलक्ष्याणि प्राप्य  अर्जन्टीनायै नवचरितमपि रचितवानयम्।

Tuesday, June 28, 2016

पय्यन्नूरस्थसंस्कृतसमित्या  जनप्रतिनिधेः  प्रस्तावनायाः प्रतिषेधः प्रकटीकृतः । 
उपजिल्ला- शैक्षिकाधिकारिणः श्री रामनाथमहोदयस्य आध्यक्ष्ये संस्कृतप्रवर्तनानां वार्षिकासूत्रणयोगे एव समित्या प्रतिषेधः प्रदर्शितः। समित्याः मुख्यसंयोजकः श्री गोविन्दमहाशयः तथा भारवाहिनश्च सन्निहिताः आसन् । संस्कृतभाषायाः उपरि अवक्षिप्यमाणं किमपि अनाधारारोपं न सहामहे इति संस्कृतप्रेमिणः अध्यापकाः च उच्चैः उद्घोषितवन्तः ।

शबरि गिरिदेशीयतीर्थाटनकेन्द्रं - शतकोटिरूप्यकाणां पद्धतिः अङ्गीकृता। 
अनन्तपुरी - शबरिगिरिं देशीयतीर्थाटनकेन्द्ररूपेण विकासयितुं राज्यसर्वकारेण समर्पितायाः ९९.९८कोटिरूप्यकाणां पद्धत्याः केन्द्रसर्वकारस्य अङ्गीकारः। केन्द्रस्य स्वदेश् दर्शन् नामिकायां पद्धत्याम् अन्तर्भावयित्वा एरुमेलि - पम्पा - सन्निधानानि योजयित्वा  आत्मीयतीर्थाटनकेन्द्रं कर्तुमेव अनया पद्धत्या उद्दिश्यतेति केन्द्रविनोदसञ्चारविभागमन्त्रिणः डो. महेष् शर्मणः कार्यालयवृत्तैः  उक्तम्।
 गतफेब्रुवरिमासे एव अङ्कारः लब्धः आसीत्। किन्तु निर्वाचनवेला इत्यनेन कारणेन प्रख्यापनं नाभवत्।

Sunday, June 26, 2016

 मेक् इन् इन्ट्या पद्धत्या वैदेशिकनिक्षेपे महान् लाभः
नवदहली > आगोलस्तरे साक्षादेव वैदेशिकनिक्षेपं सम्पादितेषु राष्ट्रेषु मेक् इन् इन्ट्या पद्धत्या  भारतस्य महान् लाभः। आगोलस्तरे वैदेशिकनिक्षेपः१.७६ ट्रिल्यण् इति उन्नतिम् प्रापयत्। तत्र ४४ बिल्यण् निक्षेपः भारतम् एव आगतः।२००८ तमे वर्षे प्राप्तं ४७ बिल्यण् एव मण्डलेऽस्मिन् भारतस्य रेकोर्ड।

६९ संवत्सराणां प्रतीक्षा-बस्यानसेवनम् आरब्धम्
 डेराडूण् > ६९ संवत्सराणां दीर्घां प्रतीक्षां समाप्य उत्तराखण्डे चमोली जिल्लायाः सिल्पट्टा ग्रामः। दीर्घस्याः प्रतीक्षायाः अन्ते ग्रामे बस्यानसेवनम् आरब्धम्। प्रधानमन्त्रिणः ग्रामीणसडक् योजना पद्धत्याम् अन्तर्भाव्य एव ग्रामस्य विविधानां गतागतमार्गाणां निर्माणं पूर्तीकृतम्।

संस्कृतनाटकाचार्यः कावालं नारायणप्पणिक्कर् महाशयः कालयवनिकां अन्तरधात्।  
                         तिरुवनन्तपुरम् > नाटककलायाः आचार्यः श्री कावालं नारायणप्पणिक्कर्   ह्यः रात्रौ दिवड़्गतः।  88 वयः पर्यन्तं नाटककलायाःनिदेशकः आविष्कर्ता प्रायोजकः च आसीदयं महाभागः। 1961 तमे संवत्सरे केरळसड़्गीतनाटक अकादमी-संस्थायाः अध्यक्षपदमलड़्कृतवान्।  संस्कृतभाषायां प्रसिद्धे भासनाटकचक्रे  विद्यमानानानां नैकानां नाटकानां  रङ्गाविष्कारः महानुभावस्यैतस्य निदेशत्वेन सफलतां  प्राप्नोत्। संस्कृतनाटकप्रेक्षकाणां अमूल्यनिधिः एव एतस्य देहवियोगेन  नष्टभूतः।  चलनचित्रमण्डलेषु प्रगल्भाः मोहनलालप्रभृतयः अस्य प्रोत्साहनेन संस्कृतनाटकेषु भागम् ऊढवन्तः। 2007 तमे पद्मभूषणेन 2009 तमे वल्लत्तोल् पुरस्कारेण चायमादृतः। भासनाटकानां रङ्गसज्जीकरणेन आविष्कारेण च अयं महात्मा संस्कृतचित्तानां हृदि चिरं भासते  नात्र  सन्देहलेशोऽपि।

 भारतस्य प्रश्नोत्तरीकर्ता दिवङगतः
कोल्कत्ता > भारतस्य प्रश्नोत्तरीकर्ता इति विख्यातः सामूहिकप्रवर्तकः नील् ओब्रियन् दिवङगतः। पञ्चाशत् वर्षेभ्यः पूर्वं प्रश्नोत्तरी इति नूतनः बौद्धिकविनोदः जनकीयं कर्तुं प्रयत्नं कृत्वा प्रश्नोत्तरीकर्ता इति नाम्ना विख्यातः सः महोदयः आङ्गल-भारतसमूहस्य नेता च आसीत्। ८२ वयस्कः सः समीपकाले वार्धक्यसहजैः आतुरैः पीडितः आसीत्।भारतस्य राष्ट्रियसामूहिकमण्डलस्य सजीवप्रवर्तकः सः महोदयः एकवारं लोकसभायां वारत्रयं बङ्गाल् नियमनिर्माणसभायां च जनप्रतिनिधिः आसीत्।


उत्तरभारतराज्येषु वृष्टिःशक्तिं प्रापयति

 नवदहली> अग्रिमचतुर्भिः दिवसैः उत्तरभारतस्य केषुचित् राज्येषु वृष्टिः शक्ता भविष्यतीति परिस्थितिनिरीक्षणकेन्द्रम्। राजस्थाने वर्षाकालस्य आरम्भकतया महती वृष्टिरेव अनुभूयते। चतुर्भिः दिवसैः गुजरात्, उत्तरप्रदेशः, मध्यप्रदेशः, हरियाणा, उत्तराखण्ड्,हिमाचलप्रदेशः, पञ्जाब्, चण्डीगड् इत्यादिषु राज्येषु महती वृष्टिः भविष्यतीति परिस्थितिनिरीक्षणकेन्द्रेण सूचना दत्ता वर्तते।

ब्रेक्सिट्" अनुसृत्य  "डेक्सिट्" अपि।
नवदिल्ली - दिल्ली अपि पूर्णराज्यपदवीम् अपेक्षते इति विषये ब्रिट्टनस्य इव हितपरिग्रहणं अचिरादेव करिष्यताति दिल्ली मुख्यमन्त्री अरविन्द् केज्रिवालेन उक्तम्। एतद्विषयकं देयकं ए पि पि सर्वकारेण प्रकाशितमासीत्।
  जूण् ३० पर्यन्तं जनानां मतप्रकाशनवेला अस्ति। दिल्ल्यां तन्त्रप्रधानमण्डलानि विहाय एव पूर्णराज्यपदवीं प्रति सर्वकारस्य प्रयत्नः।

काश्मीरे सि आर् पि एफ् वाहनव्यूहं प्रति भीकराक्रमणं 
- अष्ट सैनिकाः हताः।
श्रीनगरं - जम्मुकाश्मीरे पुल्वामजनपदे पाम्पोर् प्रदेशे केन्दीयार्धसैनिकविभागस्य (सि आर् पि एफ्) वाहनव्यूहं प्रति लष्कर् ई तोयबा भीकरैः कृते भुशुण्डि आक्रमणे अष्ट सैनिकाः हताः; एकविंशतिः व्रणिताः। सेनायाः प्रत्याक्रमणे द्वौ भीकरावपि हतौ।
    भीकराः पाकिस्तानीयाः इति प्राथमिकदेहपरिग्रहेण प्रत्यभिज्ञातम्।
  श्रीनगर-जम्मु देशीयवीथ्यां ह्यः सायं ५.५० वादने आसीत् आक्रमणम्। लात्पोरस्थानात् परिशीलनानन्तरं प्रत्यागच्छन्नासीत् षड्वाहनेषु सैनिकसंघः।

विद्यालयपाठ्यपद्धत्याम् आयुर्वेदः भवितव्यः - केरळस्य शिक्षामन्त्री।
तृश्शिवपेरूर् - केरलस्य सार्वजनीनविद्याभ्यासपद्धत्याम् आयुर्वेदम् अन्तर्भावयितुं सर्वकारः प्रतिज्ञाबद्ध इति शिक्षामन्त्री सि रवीन्द्रनाथः उक्तवान्।
  आयुर्वेद औषधनिर्मातृसंस्थायाः आयुर्वेदचिकित्सालयप्रबन्धकसंघस्य च नेतृत्वे आयोजितायां बोधवत्करणसंगोष्ठ्याम् उद्घाटनभाषणं कुर्वन्नासीत् शिक्षामन्त्री। यू पि एस् सि संस्थायाः परीक्षासु आयुर्वेदम् ऐच्छिकविषयरूपेण निबद्ध्नातुं सम्मर्दं करिष्यतीति तेनोक्तम्।

'मन् की बात्' श्रद्धेयांशैः सह मोदी।
 नवदहली >  प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणीद्वारा क्रियमाणे 'मन् की बात् 'इति प्रतिमासकार्यक्रमे आयकरसमर्पणमधिकृत्य नूतनम् आह्वानं कृतम्। वार्षिकधनसम्पादनमधिकृत्य याथार्थ्यं गूढतया परिपाल्यमानानां जनानां कृते तत् प्रकाशयितुम् अन्तिम: अवसरः सितंबर् ३० पर्यन्तं दीयते इति प्रधानमन्त्रिणा उक्तम्। ततः पूर्वमेव आयस्य विषये याथार्थ्यं प्रकाश्य दण्डनव्यवहारेभ्यः मोचनं स्वीकर्तुं मोदिना आह्वानं कृतम्। सितंबर् ३० अनन्तरम्  आवश्यकरेखाः विना परिपाल्यमानस्य धनसम्पादनस्य उपरि दण्डनव्यवहारं स्वीकर्तुं आयकरमन्त्रालयस्य सम्पूर्णाधिकारः वर्तते इत्यपि स: अवदत्। अपि च स्वप्रभाषणे ऐ.एस्. आर्.ओ संस्थायाः नूतनविजयाय अभिनन्दनमपि तेन कृतम्।

यूरो २०१६- पोर्चुगल्, फ्रान्स् च अष्टगणचक्रे।
लेन्ट् > यूरो २०१६ मध्ये क्रोयेष्यां जित्वा क्रिस्ट्यानो रोनाल्डस्य पोर्चुगल् संघः अष्टगणचक्रं प्राविशत्। क्रीडायामस्यां परिमितसमये लक्ष्यम् उन्नीय एकः श्रमः अपि द्वयोरपि सङ्घयोः पक्षतः नासीत्। अधिकसमये एव पोर्चुगल् दलेन लक्ष्यं प्राप्तम्।क्रीडायां पोर्चुगलेन १-० इत्यंशे जयः प्राप्तः।अपरस्यां क्रीडायाम् अयर्लन्ट् दलं जित्‍वा फ्रान्स् दलमपि अष्टगणचक्रं प्राविशत्। फ्रान्स् दलाय अन्टोणियो ग्रीस्मान् वारद्वयं लक्ष्यं प्राप्तवान् ।क्रीडायामस्यां फ्रान्स् दलेन २-१ इति अंशे विजयः प्राप्तः।

क्षेपणायुधसाङ्गेतिकविद्यानियन्त्रणसङ्घे भारतस्य प्रवेशः अचिरादेव
नवदहली > एन् एस् जि मध्ये प्रवेशः न लब्धः चेदपि  क्षेपणायुधसाङ्गेतिकविद्यानियन्त्रणसङ्घे भारतस्य प्रवेशः सुसाध्यः एव। अनेन आयुधनिर्माणाय व्यापाराय च नूतनाः मार्गाः आविष्कर्तुं शक्यन्ते। एम्‌ टि सि आर् सङ्घे प्रवेशनाय योग्यतापत्रं  विदेशकार्यदायित्वं वहन् कार्यदर्शी एस् जयशङ्करः श्वः एव समित्यै समर्पयिष्यति। अनेन भाविकाले एन् एस्‌ जि, आस्ट्रेलिया सङ्घः, वासेनर् अरेञ्ज्मेन्ट् इत्यादिषु सङ्घेषु प्रवेशनं सुकरमिति विदग्धाः नयतन्त्रज्ञाः अभिप्रयन्ति।

ऋग्वेदपारम्पर्यम्-पोलिष् भाषायां ग्रन्थः
कोषिकोट् > केरलेषु नम्पूतिरिसमुदायस्य ऋग्वेदपारम्पर्यम् अधिकृत्य एकः गवेषणग्रन्थः पोलिष् भाषायां प्रकाशितः। पोलिष् सर्वकारः एव प्रकाशकः। पोलण्ट् राष्ट्रस्य क्राकोवस्थस्य जागिलोणियन् विश्वविद्यालयस्य इन्टोलजी संस्कृतविभागस्य अध्यक्षः डा.सेसारी गेलेविक्स् एव ग्रन्थकर्ता। कोषिकोट् सैबर् विदग्धः डा.विनोद् भट्टतिरिः चित्रकारः मदनः च सहायकौ भवतः। " भारतस्य सजीवाः ऐतिहासिकाः " इति परम्परायाः एका कृतिः भवति इयम्। ग्रन्थकारेण  डा.विनोदस्य भवनम् आगत्य ग्रन्थस्य प्रतिकृतीः दत्ताः।

अञ्जू बोबी जोर्ज केन्द्रसमित्याम्
 नवदहली > केन्द्रीयकायिकमन्त्रालयस्य "खेलो इण्ट्या" पद्धतेः देशीयनिर्वाहकसमित्‍याम् अञ्जू बोबी जोर्ज अपि। केन्द्रीयकायिकमन्त्रालयस्य कार्यदर्शी एव समित्याः अध्यक्षः। क्रीडामण्डलात् पुलेला गोपीचन्दः अपि समित्यां वर्तते। पञ्चायत् स्तरादारभ्य छात्राणां युवकानां च कायिकमण्डलं प्रति उन्नयनमेव पद्धतेः प्रमुखं लक्ष्यम्। तदर्थं २०२० अभ्यन्तरे कायिमण्डलस्य आधारसौकर्यविकसनं कायिकसञ्चयानां निर्माणं च पूर्तीकरिष्यतीति कायिकमन्त्रालयेन सूचितम्।
एन्.एस्.जि भारतं बहिः एव
 सोल् > एन् एस् जि मध्ये अङ्गत्वसम्पादनाय भारतेन समर्पितं निवेदनम् अवगणय्य सङ्घस्य २६-तमः योगः समाप्तःI आणवनिर्व्यापनसम्मतपत्रे भारतं मुद्रां न अकरोत् इति कारणेन तादृशराष्ट्रेभ्यः सङ्घाङ्गत्वं न कल्पनीयम् इति निर्णयः योगे स्वीकृतः। चैनाम् अतिरिच्य ब्रसील्, आस्ट्रिया, न्यूसिलाण्ट्, तुर्की, स्विट्सर्लाण्ट् इत्यादीनि राष्ट्राणि भारतं विरुद्ध्य निर्णयम् अकुर्वन्। तथापि भारतस्य प्रवेशनं वर्षेऽस्मिन्नेव सम्भवतीति अमेरिकायाः औद्योगिकवृन्दं सूचयति।योगे अष्टस्त्रिंशत् राष्ट्राणां सहयोगः भारतेन सम्पादितः।

विश्वस्य दशसु सामूहिकसंरम्भकेषु भारतीयवनिता अपि
न्यूयोर्क् > मानविकनीतिसंरक्षणं,परिस्थितिसंरक्षणं, दुर्व्यवहारान् प्रति समरः इत्यादीन् कार्यक्रमान्‌ लक्ष्यीकृत्य प्रवर्तमानेषु दशसु सुस्थिरसामूहिकसंरम्भकेषु "अय्ष्" इति संस्थायाः स्थापकनेत्री भारतीयवनिता सुबैदा बायी अपि स्थानं प्राप्तवती।दारिद्र्यम् अनुभवतां स्त्रीणां सम्पूर्णम् उन्नमनमेव अय्ष् संस्थायाः मुख्यं लक्ष्यम्।ऐक्यराष्ट्रसभायाः पट्टिकायां लब्धं स्थानम् अभिमानप्रदमेवेति सुबैदा बायी महोदयया अभिप्रेतम्।ऐक्यराष्ट्रसभायाः केन्द्रे संवृत्ते आगोलनेतृयोगे परमाध्यक्षेण बान् कि मूण् महोदयेनैव पट्टिका प्रख्यापिता।

ऐ.टि मण्डले अनिश्चितत्वम् - उद्योगस्थाः आशङ्कायाम्‌। 
कोच्चि > ऐ.टि सङ्घैः यूरोप् मध्ये आर्थिकसमस्यायां कष्टमनुभूयमानेऽस्मिन् सन्दर्भे भारते विद्यमाना: ऐ.टि सङ्‌घाः अपि आशङ्कायाम्।ऐ. टि मण्डले भारतीयव्यापारस्य ३०% यूरोप् मध्ये एव। एतेषां व्यापाराणां मुख्यं केन्द्रं तु लण्टन् देशः च। यूरोप्यन् वृन्दात् ब्रिट्टणस्य बहिर्गमनेन आर्थिकमण्डले महती समस्या एव सञ्जाता। अधुना प्रचारमानस्य सोफ्ट्वेयर् व्यापारस्य महान् नष्टः अपि प्रतीक्ष्यते च।

Saturday, June 25, 2016

सियाल् -विजयाणां गिरिशृङ्गे ।
 कोच्चि > भारतराष्ट्रे सामूहिसहयोगेन निर्मित: प्रथमः व्योमयाननिलयः अनुस्यूतविजयाणां गिरिशृङ्गे।  गते आर्थिकनिर्णयवर्षे संस्थायाः आदायः ५२४.५४ कोटि रूप्यकाणि भवन्ति। अनेन १७५.२२ कोटि रूप्यकाणां लाभः अपि लब्धः। ह्यः संवृत्ते सियाल् निर्देशकसमितेः योगे लाभसंख्याया: २५% निक्षेपकेभ्यः दातुं निर्णयः जातः। केरलस्य मुख्यसचिवः पिणराय विजय: एव सियाल् संस्थायाः अधुनातन मुख्यनिर्देशक: ।

शास्त्रम् अग्रे गच्छत् एव....।
स्टोक्होम् > मलिनीकरणनियन्त्रणेन परिस्थितिसंरक्षणं लक्ष्यीकृत्य स्वीटनमध्ये विश्वस्य प्रथमः विद्युन्मार्गः सज्जः। पूर्णतया विद्युदुपयुज्य क्रमीकृतेन मार्गेण गमनं विजयम् अभवत् । परीक्षणाधारेण निर्मितेन २ कि.मी परिमितेन मार्गेणैव गमनम् अकरोत् एतदर्थं वाहनानि अयोदण्डेषु बन्धयित्‍वा चालनमकरोत्। अन्यानि वाहनानि इव वेगेन गमनम् अनेन अपि शक्तमिति विदग्धा: अभिप्रेतवन्तः।

रेकोर्ड्ड् प्राप्त्या सह धोणिः।
नवदहली > नायकत्वेन अधिकाधिकाः क्रीडाः चालिताः इति रेकोर्ड धोणिना  अपि प्राप्तम्। गतदिने सिम्बाब्वेन सह तृतीये ट्वन्टि ट्वन्टि क्रिकट्क्रीडानन्तरमेव नूतना प्राप्तिः तस्य सञ्जाता। ३२४ क्रीडाः इति आस्ट्रेलिया क्रीडकस्य रिकी पोण्टिङ् महोदयस्य रेकोर्ड सहैव धोणेःविजयप्राप्तिः।  अन्तिमक्रीडायां भारतेन ३ धावनाङ्‌कैः विजय: प्राप्तः आसीत्।

उभयकक्षीबान्धवं मुख्यम् - चैना।
बीजिङ् > आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशनसम्बन्धे विषये स्वनिर्णयः कठिनः चेदपि भारतेन सह बन्धुता मुख्या एव इति चैनाया: राष्ट्रपतिः षी जिन् पिङ्‌ । ह्यः उस्बकिस्थान् मध्ये ताष्केन्टे सम्पूर्णयोगानन्तरं भाषयन् आसीत् स: । तत्र भारतप्रधानमन्त्रिणा मोदिना सह तस्य चर्चा संवृत्ता च। एन् एस् जि प्रवेशनविषये भारतं विरुद्ध्य निर्णयः स्वीक्रियते चेदपि भारतेन सह उभयकक्षीबान्धवम् अनुवर्तयिष्यतीति तेन सूचितम्।

कोपा अमेरिका पादकन्दुकक्रीडा याम् अनुवर्तनम्‌ 
 परमक्रीडायाम् अर्जन्टीना-चिली च
  षिकागो > ह्यस्तनक्रीडायां चिली २-० इति अंशे कोलम्बियां पराजयित्वा अन्तिमक्रीडायै योग्यतां प्रापयत्। अर्जन्टीना पूर्वमेव अमेरिकां ४-० इति अंशे पराजयित्वा योग्यतां प्रापयति स्म। कोपा अमेरिकायाः गतानुक्रमे अपि एतयोरेव अन्तिमक्रीडा आसीत्। तदानीं चिली अर्जन्टीनां पराजयित्वा किरीटधारणम् अकरोत्। इदानीन्तु मधुरप्रतिकाराय अवसर एव लयणल् मेस्स्याः संघाय लब्धःवर्तते। किन्तु पूर्वतनकिरीटधारणस्य अनुवर्तनायैव अलक्सिस् साञ्चसस्य संघस्य च सज्जीकरणम्। तथा च सोमवारे प्रभाते ५.३० वादने आरभ्यमाणा अन्तिमक्रीडा आवेशभरिता भविष्यतीति सुनिश्चित एव।

अनिल् कुम्ब्ले मुख्यपरिशीलकः।
 मुंबई > भारतीयक्रिकेट्सङ्घस्य मुख्यपरिशीलकत्‍वेन अनिल् कुम्ब्ले चितः। ह्यः मुंबई मध्ये संवृत्ते योगे एव निर्णयः जातः। योगानन्तरम् आहूते वार्तासम्मेलने बि सि सि ऐ अध्यक्ष: अनुराग् ठाकुरः एतत् स्थिरीकृतवान्। ऐतिहासिकक्रिकट्क्रीडक: सचिन् टेण्डुल्कर् , सौरव् गांगुली, वि.वि.एस्. लक्ष्मणः इत्यादयः अन्तर्भूतः समितिरेव कुम्ब्ले महोदयस्य चयनमकरोत्।बौलिङ्,बाट्टिङ् इत्याद्यंशयोः कृते अन्यौ द्वौ परिशीलकौ परं चयनीयौ भवतः। वेस्ट् इन्डीस् पर्यटनमेव नूतन परिशीलकस्य प्रथमं लक्ष्यम् । परिशीलकचयनाय दीर्घा चर्चा एव सम्भूता आसीत्।

Friday, June 24, 2016

स्मार्टसिट्टी पद्धतिः -वर्षत्रयाभ्यन्तरे पूर्तीकरिष्यति - केरळस्य मुख्यसचिवः।
  तिरुवनन्तपुरम् > केरलराज्यस्य स्वप्नपद्धतिः इति व्यवह्रियमाणा कोच्चि स्मार्टसिट्टी पद्धतिः वर्षत्रयाभ्यन्तरे एव पूर्तीकर्तुं सर्वकारः प्रयत्नं करिष्यतीति मुख्यसचिवः पिणरायि विजयः अवदत्। अनया पद्धत्या ३ लक्षं जनेभ्यः उद्योगाय अवसर: दीयते इति पद्धतेः मुख्यसहकारी टीकों संस्थायाः अधिकृतैः उक्तम् इत्यपि मुख्यसचिवेन सूचितम्‌। पिणरायि विजयः तिरुवनन्तपुरे टीकों प्रतिनिधिभिःसह चर्चां कृत्वा  माध्यमप्रवर्तकान् एतत् स्थिरीकृतवान्।

स्त्रीसुरक्षायै अग्रिममासादारभ्य करविमुक्ता दूरवाणीसंख्या  एका एव।
  तिरुवनन्तपुरम् > स्त्रीसुरक्षायै केरलराज्ये करविमुक्ता दूरवाणीसंख्या  एका एव। केरलराज्यस्य आरक्षकसहितानां विविधानां विभागानाम् एकोपनेन १८१ इति संख्या अग्रिममासादारभ्य प्रवर्तनसज्जा भविष्यति।भारतराष्ट्रे स्त्रीसुरक्षायै करकविमुक्तदूरवाणीसंख्यायाः एकोपनमिति केन्द्रसर्वकारस्य पद्धतिमनुसृत्यैव इदं परिष्करणम्।

व्ययनियन्त्रणनिर्णयेन सह   पिणरायि सर्वकारः I
तिरुवनन्तपुरम् > केरलराज्ये व्ययनियन्त्रणं लक्ष्यीकृत्य सचिवानां सुरक्षाक्रमीकरणेषु नियन्त्रणम्I राज्यस्तरीयायाः सुरक्षावलोकनसमितेः एव अयं निर्णयः। एतदनुसृत्य सचिवेभ्यः दीयमानेषु मार्गदर्शकवाहनेषु तथा अङ्‌गरक्षकगणेषु च नियन्त्रणं कर्तुं समित्या निर्णयः स्वीकृतः। एतदनुसृत्य भूतपूर्वमुख्यसचिवस्य उम्मन्चाण्टि महोदयस्य सेड् प्लस् सुरक्षा एवं एस्‌ एन् डि पी अध्यक्षस्य वेल्लाप्पल्लि नटेशस्य सुरक्षा च प्रतिनिवर्तयिष्यति ।

परीक्षणकुतुकिनां छात्राणां श्रद्धायै .....
काञ्जिरप्पल्ली > काञ्जिरप्पल्ली समीपे कूवप्पल्यां मार्गात् लब्धं ह्रस्वकालविद्युच्छेखरणोपकरणसदृशं वस्तु उपयुज्य विद्यालये परीक्षणं कृतवन्तः छात्राः स्फोटनेन व्रणिता:। काञ्जिरप्पल्ली साङकेतिकविद्यालयस्थाः चत्वारः छात्राः एव अपघातेन व्रणिताः। मार्गात् लब्धस्य वस्तुनः विद्युन्निर्माणपेटकेन सह बन्धनेनैव स्फोटनं सञ्जातम्।

मेरी कोम् विना रियो ओलिम्पिक्स् मध्ये भारतम्
  नवदहली > भारतस्य ऐतिहासिकक्रीडका मेरी कों रियो ओलिम्पिक्स् मध्ये भागं कर्तुं अयोग्या। मेरी कों लण्टन् ओलिम्पिक्स् मध्ये भारतस्य कृते मुष्टियुद्धे तृतीयस्थानं प्राप्तवती स्म। रियो ओलिम्पिक्स् मध्ये अस्याः कृते वैल्ट्र कार्ड् एन्ट्री द्वारा भागं कर्तुं भारतीयमुष्टियुद्धसंस्थया समर्पितं निवेदनम् अन्तःराष्ट्र ओलिम्पिक्स् समित्या गतदिने तिरस्कृतम्। तथा च प्रतीक्षितमेका कीर्तिमुद्रा नष्टा जाता।
स्मार्टसिट्टी पद्धतिः -वर्षत्रयाभ्यन्तरे पूर्तीकरिष्यति - केरळस्य मुख्यसचिवः।
  तिरुवनन्तपुरम् > केरलराज्यस्य स्वप्नपद्धतिः इति व्यवह्रियमाणा कोच्चि स्मार्टसिट्टी पद्धतिः वर्षत्रयाभ्यन्तरे एव पूर्तीकर्तुं सर्वकारः प्रयत्नं करिष्यतीति मुख्यसचिवः पिणरायि विजयः अवदत्। अनया पद्धत्या ३ लक्षं जनेभ्यः उद्योगाय अवसर: दीयते इति पद्धतेः मुख्यसहकारी टीकों संस्थायाः अधिकृतैः उक्तम् इत्यपि मुख्यसचिवेन सूचितम्‌। पिणरायि विजयः तिरुवनन्तपुरे टीकों प्रतिनिधिभिःसह चर्चां कृत्वा  माध्यमप्रवर्तकान् एतत् स्थिरीकृतवान्।

स्त्रीसुरक्षायै अग्रिममासादारभ्य करकविमुक्ता दूरवाणीसंख्या  एका एव।
  तिरुवनन्तपुरम् > स्त्रीसुरक्षायै केरलराज्ये करकविमुक्ता दूरवाणीसंख्या  एका एव। केरलराज्यस्य आरक्षकसहितानां विविधानां विभागानाम् एकोपनेन १८१ इति संख्या अग्रिममासादारभ्य प्रवर्तनसज्जा भविष्यति।भारतराष्ट्रे स्त्रीसुरक्षायै करकविमुक्तदूरवाणीसंख्यायाः एकोपनमिति केन्द्रसर्वकारस्य पद्धतिमनुसृत्यैव इदं परिष्करणम्।

व्ययनियन्त्रणनिर्णयेन सह   पिणरायि सर्वकारः I
तिरुवनन्तपुरम् > केरलराज्ये व्ययनियन्त्रणं लक्ष्यीकृत्य सचिवानां सुरक्षाक्रमीकरणेषु नियन्त्रणम्I राज्यस्तरीयायाः सुरक्षावलोकनसमितेः एव अयं निर्णयः। एतदनुसृत्य सचिवेभ्यः दीयमानेषु मार्गदर्शकवाहनेषु तथा अङ्‌गरक्षकगणेषु च नियन्त्रणं कर्तुं समित्या निर्णयः स्वीकृतः। एतदनुसृत्य भूतपूर्वमुख्यसचिवस्य उम्मन्चाण्टि महोदयस्य सेड् प्लस् सुरक्षा एवं एस्‌ एन् डि पी अध्यक्षस्य वेल्लाप्पल्लि नटेशस्य सुरक्षा च प्रतिनिवर्तयिष्यति ।

परीक्षणकुतुकिनां छात्राणां श्रद्धायै .....
काञ्जिरप्पल्ली > काञ्जिरप्पल्ली समीपे कूवप्पल्यां मार्गात् लब्धं ह्रस्वकालविद्युच्छेखरणोपकरणसदृशं वस्तु उपयुज्य विद्यालये परीक्षणं कृतवन्तः छात्राः स्फोटनेन व्रणिता:। काञ्जिरप्पल्ली साङकेतिकविद्यालयस्थाः चत्वारः छात्राः एव अपघातेन व्रणिताः। मार्गात् लब्धस्य वस्तुनः विद्युन्निर्माणपेटकेन सह बन्धनेनैव स्फोटनं सञ्जातम्।

मेरी कोम् विना रियो ओलिम्पिक्स् मध्ये भारतम्
  नवदहली > भारतस्य ऐतिहासिकक्रीडका मेरी कों रियो ओलिम्पिक्स् मध्ये भागं कर्तुं अयोग्या। मेरी कों लण्टन् ओलिम्पिक्स् मध्ये भारतस्य कृते मुष्टियुद्धे तृतीयस्थानं प्राप्तवती स्म। रियो ओलिम्पिक्स् मध्ये अस्याः कृते वैल्ट्र कार्ड् एन्ट्री द्वारा भागं कर्तुं भारतीयमुष्टियुद्धसंस्थया समर्पितं निवेदनम् अन्तःराष्ट्र ओलिम्पिक्स् समित्या गतदिने तिरस्कृतम्। तथा च प्रतीक्षितमेका कीर्तिमुद्रा नष्टा जाता।

Thursday, June 23, 2016

आणवसामग्रीवितरणसङ्‌घ: - पाकिस्थान् राष्ट्राय अपि आनुकूल्यम्।
  बीजिङ्‌ > आणवसामग्रीवितरणसङ्‌घे स्थानलब्धये भारतराष्ट्रवत् पाकिस्थान् राष्ट्राय अपि योग्यता अस्ति इति चैना। आणवनिर्व्यापननियमस्य लङ्‌घनं कृतम् इति कारणात् पाकिस्थानाय उपरोधः नावश्यक: ,पाकिस्थानस्य शास्त्रज्ञ: ए.क्यु.खान् एव अपराधि: , तस्मै पाकिस्थानधिकारिभिः दण्डनमपि दत्तम्।अस्याम् अवस्थायां तस्मै राष्ट्राय अपि स्थानाय योग्यता अस्तीति चैनाया: औद्योगिकपत्रिकायां ग्लोबल् टैम्स् मध्ये प्रसिद्धीकृते लेखने सूचितं वर्तते।

विद्यालयीययानेन सह स्वकार्यबस्यानापघातः - अष्टौ छात्रा: मृताः।  
मङ्‌गलापुरम्> कुन्तापुरायां विद्यालयीययानेन सह अपरं स्वकार्यबस्यानस्य अपघातेन डोण्बोस्को विद्यालयस्य अष्टौ छात्राः मृताः।षट्‌ छात्राणाम् अवस्था अतीव कठिना एव। विद्यालयीयवाहने १४ छात्रा: आसन्।

काश्मीरराज्यमपि सौदीवत् किम्...?।  
  श्रीनगर् > सामूहिकपरिसरेषु स्त्रीणामुपरि सम्भाव्यमानानाम् अधिक्षेपाणाम् आक्रमणानां च प्रतिरोधाय सौदी अरेब्याराष्ट्रे सर्वेष्वपि मण्डलेषु प्रत्येकं सुरक्षाक्रमीकरणानि दीयन्ते। याथास्थितिकमूल्यानि अनुवर्त्यमानं राष्ट्रमेव सौदी अरेब्या । तत्र दण्डनव्यवहारः अपि अन्येभ्यः राष्ट्रेभ्यः भिन्न एव। किन्तु भारतस्य जम्मुकाश्मीरराज्ये सौदी राष्ट्रवद् केषुचित् मण्डलेषु प्रत्येकं नियमादिकम् आरब्धं वर्तते। काश्मीरे स्त्रीणां कृते यात्रायै प्रत्येकं बस्यानसेवनमेव सर्वकारेण आरब्धम्। अप्रैल् १९तः इदं सेवनं स्त्रीणां कृते दीयमानमस्ति।

 लोके सर्वत्र योगदिनाघोषः। 
  चण्डिगड् > मानसिक-शारीरिकसान्त्वनं लब्धुं योगः अनिवार्यः इत्युद्घोषयन् द्वितीयम् अन्ताराष्ट्रयोगदिनं लोके सर्वत्र आघुष्टम्। लोकस्य विविधदेशेषु , भारतस्य सर्वेषु राज्येषु , विभिन्नप्रदेशेषु च लक्षशः जनाः योगदिनकार्यक्रमे भागभागित्वं कृतवन्तः।
   भारतस्य देशीययोगदिनाघोषः चण्डीगडे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटनं कृतवान्। योगशास्त्रमित्येतत् यस्यकस्यापि धार्मिकसंघटनस्य अनुष्ठानः आचारो वा नास्तीति प्रधानमन्त्रिणा उक्तम्। ऊर्जस्वलजीवनस्य शास्त्रं भवति योगः। अतः विवादाय न , सामान्यजनानामपि जीवनस्य अंशत्वेन भवितुं परिश्रमः आवश्यक इति तेनोक्तम्।
  तथा प्रमेहरोगस्य औषधरूपेण योगाभ्यासं परिवर्तयितुं योगाप्रवर्तकाः यतेयुः। व्ययं विना स्वास्थ्यनिगममार्गो भवति योगः। सामाजिक- आर्थिक भिन्नवत्करणं विना सर्वैः सम्यक् स्वीकर्तुं योग्यः आरोग्यसंरक्षणरीतिः भवति योगः । यथा जंगमदूरवाणी अस्माकं जीवनस्य अविभाज्यघटकः भूतः तथा योग अपि दैनंदिनचर्यायांम् अन्तर्भवितुं लाघवेन शक्यते। मोदिवर्येण संस्थापितम्।

Wednesday, June 22, 2016

सोपानम्-04 Subhadra K Naboothiri BSUPS Kalady. News Reading 22-06-2016.
विशेषवार्ता
ओट्टिसं नाम रोगेण क्ळेशितः बालः इदानीं संस्कृतभाषाप्रवीणः अभवत् ।
चन्द्रकान्तः नाम बालकः संस्कृतभाषया सह षट्सु भाषासु प्रवीणः अस्ति। द्वितीये वयसि रोगबाधितः सःI तस्य पिता सुनिलः माता षिजी च तं वात्सल्येन अपालयताम् । तयोः वात्सल्यस्य फलमिव पञ्चमे वयसि आङ्गलेय अक्षराणि अनेन अपठत्। एकवर्षाभ्यन्तरेण संस्कृतं हिन्दी च पठितुमारब्धवान् तत् तस्य बुद्धिविकासस्य कारणमभवश्च। इदानीं सः कोट्टयं देशस्य समीपे विद्यमाना कारिक्कोट्‌ के एम् एम् यु पि विद्यालये सप्तम कक्षायां पठन् अस्ति। एषः पितृ वात्सल्यमघिकृत्य मातृभाषायां कवितां रचितवान् । कैरल्याः प्रमुखदिनपत्रिकायां 'मातृभूम्यां ' तेन विरचिता कविता प्रकाशिता अस्ति। अनेन विरचितः कवितासमाहारः केरळस्य शिक्षामन्त्रिणा पूर्वं प्रकाशितः आसीत् ।
भवतु । संस्कृतभाषापठनम् अस्माकं बुद्घिविकासाय भवति ।
परीक्षायां व्याज: - समितेः पूर्वाध्यक्षः बन्धने।
       पाट्ना > बीहारराज्ये कतिपयदिनेभ्यः पूर्वं प्रत्यक्षीकृते परीक्षासम्बन्धविवादे आरोपणविधेयः बीहार् विद्यालयीयपरीक्षासमितेः पूर्वाध्यक्ष: लाल्केश्वर प्रसाद् सिंह:, पत्नी उषा सिन्हा च आरक्षकै: बन्धिते। जूण् १५ तमे दिने द्वयोरुपरि बन्धनकल्पना प्रख्यापिता आसीत्I सोमवारे एव उभावपि प्रत्येकान्वेषणसङ्‌घेन बन्धितौ।

बिरुदप्रवेशाय अखिलभारतीय प्रवेशनपरीक्षा।
  नवदहली > देशीयशैक्षिक-नयरूपीकरण-प्रक्रियायाः सम्बन्धतया समितेः पक्षतः नूतन: निर्देशः आगतः। शैक्षिकमण्डले समग्रं परिवर्तनं लक्ष्यीकृत्यैव परिष्करणसम्प्रदायःI नूतनं निर्देशम् अनुसृत्य दशमीकक्ष्यायाः द्विविधां परीक्षां सञ्चालयितुं निर्देशः। एतदर्थं दशमी कक्ष्यायां उन्नतस्तरीया, अधस्तरीया च इति द्विविधपरीक्षायाः एव निर्देशः। दशमीकक्ष्यानन्तरं उपरिपठनम् इच्छन्तः छात्रा: एव उन्नतस्तरीयां परीक्षां लिखन्तु, अन्यैः अधस्तरीया परीक्षा लेखनीया च। एवं बिरुदप्रवेशनाय अखिलभारतीयप्रवेशनपरीक्षा चालनीया च। टि. एस्.आर् सुब्रह्मण्यस्य आध्यक्षे पठनं कुर्वन्ती समिति: एव निर्देशम् अकरोत् । अपि च सर्वेषु विद्यालयेषु संस्कृतभाषापठनस्य आङ्‌गलं , हिन्दी भाषावदेव प्रामुख्यं कल्पनीयम्। पाठ्यपद्धतौ योगपठनस्य स्थानम् अवश्यं कल्पनीयम्‌ इत्येवम् अनेके श्रद्धेयाः अंशा: समित्या निर्देशिताः।

आणवसामग्रीवितरणसङ्घे भारतस्य प्रवेशः,स्वमते व्यत्यय: नास्तीति चैना।
  बीजिङ्‌ > स्वमते तीव्रतां प्रतिपाद्य पुनरपि चैना। अग्रिमसप्ताहे सोल् देशे प्रचाल्यमाने योगे भारतस्य सङ्घप्रवेश: विषय एव नास्तीति चैनायाः विदेशकार्यवक्ता अवदत्। आणवसामग्रीवितरणसङ्घे अधुना ४८ राष्ट्राणि सन्ति। यानि राष्ट्राणि आणवनिर्व्यापनसम्मतपत्रे मुद्रां न कृतानि तेषां सङ्‌घप्रवेशे सङ्‌घाङ्गानां मध्ये विरुद्धाभिप्रायाश्च सन्तीत्यपि तेन सूचितम्। स्वमतं कमपि राष्ट्रम् उद्दिश्य नास्तीत्यपि भारतं परोक्षरीत्‍या संसूच्य स: उक्तवान् । पूर्वस्मिन् दिने भारतस्य विदेशकार्यसचिवा सुषमा स्वराजः भारतस्य सङ्‌घप्रवेशे चैनायाः सहयोगः अवश्यं लप्स्यते इति असूचयत्। किन्तु नूतनावस्थायां भारतस्य प्रवेशसम्बन्धी आशङ्‌का वर्धयन्ती एव।

दहली- वाराणसी अतिवेगरेलयानम् साक्षात्करिष्यति।
   नवदहली> दहली- वाराणसी अतिवेगरेलयानम् अचिरादेव साक्षात्करिष्यति। अनेन रेलयानेन ७८२ कि.मी. दूरं केवलं १६० निमिषैः प्रापयिष्यतीति विदग्धैः अभिप्रेतम्। अलिगड्, आग्रा ,काण्पूर् , लक्नौ इत्यादिषु तीर्थकेन्द्रेषु नगरेषु अपि रेलमार्गस्य योजना अस्ति इत्येतत् जनानां कृते महदुपकारः भविष्यति। एतत्तु भारतस्य द्वितीयम् अतिवेगरेलसंविधानं भवति।

प्रतिरोधमण्डले १००% विदेशनिक्षेपाय केन्द्रसर्वकारः।
   नवदहली > प्रतिरोध: , व्योमयानः इत्यादिषु मण्डलेषु १००% विदेशनिक्षेपाय केन्द्रसर्वकारस्य निर्णयः । औषधमण्डले ७४% निक्षेपः अपि वैदेशिक: भवतु इत्यपि निर्णयः स्वीकृतः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे संवृत्तः योगः एव निर्णयोऽयं अकरोत्। एवं अन्तर्जालव्यापारः अपि शक्तं करिष्यति। अस्य स्वाधीनं सर्वेष्वपि मण्डलेषु व्यापरिष्यति इति केन्द्रसर्वकारस्य अभिमतम्।

केरला ब्लास्टेर्स् कृते नूतनपरिशीलक:
  मुंबई > गतक्रीडाकालस्य पराजयानुभवान् परिहर्तुं नूतनपरिशीलकेन साकं सज्जीकरणम् आरभ्य केरला ब्लास्टेर्स् I भूतपूर्व: इङ्‌ग्लाण्ट् देशीयक्रीडक: तथा माञ्जस्टर् सिट्टी परिशीलक: च स्टीव् कोप्पल् एव ब्लास्टेर्स् परिशीलक: इति सङ्‌घाधीशः सचिन् टेण्डुल्कर: सामूहिकमाध्यमेन ट्विटर् द्वारा  प्रख्यापितवान् ।

रघुराम् राजन् सौदीं गमिष्यति किम्?।
 नवदहली > कालावधिं पूर्तीकृत्य उभयसम्मतपत्रस्य नवीकरणं नेष्यतीति प्रख्यापितः रघुराम् राजः सौदीराष्ट्रस्य आर्थिकोपदेशकस्थानं स्वीकरिष्यतीति सूचना । राजम् आहूय सौदीराज्ञा अभ्यर्थना कृता इति नूतनसूचना:। उत्तमं प्रतिफलं तथा अन्यानि बहूनि आनुकूल्यान्यपि तस्मै प्रख्यापितानि इति अन्तः राष्ट्रमाध्यमप्रवर्तकैः सूच्यते।

भारसेवनकरकः - स्वमतं प्रस्ताव्य पिणरायि विजय:
 नवदहली > केन्द्रसर्वकारेण लोकसभायाम् अनुमतिं स्वीकृत्य राज्यसभायाम् अनुमतये समर्प्यमाणे भारसेवनकरकविषये केरलासर्वकारस्य मतं प्रस्ताव्य मुख्यसचिव: पिणरायि विजय:। उपभोक्तृराज्यमित्यतः प्रस्तुतविषये केरलराज्यस्य आशङ्का कापि नास्ति, अतः भारसेवनकरकविषये केन्द्रसर्वकाराय सहयोगं दास्यतीति तेन उक्तम्। विषयेऽस्मिन् सन्देहः कोऽपि नास्ति, सहयोगः अवश्यं दातव्यः इति पूर्वमेव केरलासर्वकारस्य धनसचिवः डा. तोमस् ऐसक् वदति स्म। तथा च राज्यसभायामपि अनुमतिं प्राप्य नूतनं भारसेवनकरकं राष्ट्रे संस्थापयितुं केन्द्रसर्वकारेण प्रयत्‍नं शक्तं करिष्यति।

Tuesday, June 21, 2016

लोक अद्य योगे व्यापरति। 
 कोच्ची - अद्य योगदिनम्। भारतस्य सांस्कृतिकपैतृकम् उद्घुष्य लोके सर्वत्र अद्य योगदिनत्वेन आचरति। जूण् २१ अन्ताराष्ट्रीय योगदिनत्वेन आचरितुम् ऐक्यराष्ट्रसभायाः निर्णयानन्तरं द्वितीयं योगदिनमेव अद्यतनम्। चण्डीगड् प्रविश्यायां क्यापिटोल् कोम्प्लक्स् मध्ये आयोज्यमाने कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी भागभागित्वं करिष्यति।

केन्द्रीयविश्वविद्यालयेषु योगस्य अध्ययनम् आरभ्यते ।
    नवदहली >राष्ट्रे षट्सु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगः पाठ्यपद्धत्याम् अन्तर्भावयिष्यतीति Image result for indian yogaकेन्द्रमानवविभवशेषिमन्त्रालयः । शरीरिकं मानसिकं च आरोग्यं लक्ष्यीकृत्यैव केन्द्रसर्वकारस्य नवीना पद्धतिः। विद्यालयेषु तथा विश्वविद्यालयेषु च योगापठनम् अनिवार्यमेव इति मोदीसर्वकारेण उन्नीतमासीत्I विश्वभारती विश्वविद्यालयः , कासरगोडे केन्द्रीयविश्वविद्यालयः , मणिप्पूर् केन्द्रीयविश्वविद्यालयः, उत्तराखण्ड् हेंवती नन्दन् बहुगुणगर्वाल् विश्वविद्यालयः, राजस्थान् विश्वविद्यालयः, इन्दिरागांन्धी नाषणल् ट्रैबल् विश्वविद्यालयः इत्यादिषु केन्द्रीयविश्वविद्यालयेषु अग्रिममासादारभ्य योगपठनम् आरब्धुं कुलपतिभ्यः केन्द्रमानवविभवशेषिमन्त्रालय अध्यक्षया स्मृती इरानी महोदयया निर्देशः दत्तः अस्ति।

यात्रानुवादपत्रम्- केन्द्रसर्वकारस्य नूतननिर्देशः।
           नवदहली > यात्रानुवादपत्रं लब्धुं केन्द्रसर्वकारपक्षतः नूतननिर्देशः आगतः। यात्रानुवादपत्रलघूकरणसम्बन्धविषये एव विदेशकार्यमन्त्रालयेन निर्देश: दत्तः वर्तते। तदनुसृत्य यात्रानुवादपत्रं लब्धुम् आवश्यकानां रेखाणां समर्पणेन आरक्षकप्रमाणीकरणे अपि आनुकूल्यं लभ्यते। नूतननिर्देशानुसारं यात्रानुवादपत्रं लब्धुम् आधार् कार्ड, प्रत्यभिज्ञानपत्रं , पान् कार्ड इत्यादीनां रेखाणां प्रतिकृतयः समर्पयितव्या: इति विदेशकार्यमन्त्रिणी सुषमा स्वराजः ह्यः अवदत्।

कृत्रिमा वृष्टिः-भारतराष्ट्राय चैनाया: साहाय्यवाग्दानम्।
    बैजिङ् : >अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कृत्रिमरीत्या वृष्टिं वर्षयितुम् आवश्यकं साङ्केतिकसाहाय्यं दातुं सन्नद्धमिति चैना। भारते महाराष्ट्राराज्ये अनावृष्टिम् अनुभूयमानेषु प्रदेशेषु कतिपयदिनेभ्यः पूर्वं चैनायाः शास्त्रज्ञाः सन्दर्शनं कृतवन्तः स्म। तैः कृतस्य पठनस्याधारेण एव २०१७ तमे उष्णकाले कृत्रिमवृष्ट्याः कृते चैनायाः साहाय्यवाग्दानं प्रख्यापितं वर्तते।

आणवसामग्री-वितरणसङ्‌घे अङ्गत्वम् -भारतस्य प्रतीक्षा: वर्धन्ते।
         नवदहली >आणवसामग्रीवितरणसङ्‌घे अङ्‌गत्वसम्पादनाय भारतस्य प्रयत्नादिकं लक्ष्यं प्रापयत् वर्तते। अमेरिका सदृशा: विश्वराष्ट्रा: भारतस्य अङ्गत्वाय अनुमतिं प्रख्यापितेऽस्मिन् समये चैनाया: आनुकूल्यमेव इदानीं मुख्या समस्या वर्तते। एतत् परिहर्तुं चैनया सह अनुरञ्जनचर्चां कर्तुं भारतविदेशकार्यनिर्देशकेन एस्. जयशङ्‌करेण कृतं रहस्यसन्दर्शनं विजयं प्राप्स्यति इति विश्वासः । विदेशकार्यसचिवया सुषमास्वराजमहोदयया अपि एतत् स्थिरीकृतम् ।

 रिसर्वबाँक् अध्यक्षस्थानम् - पट्टिकायां प्रमुखाः।
     नवदहली >आगामिनी सितम्बर् मासे रघुराम् राजस्य स्थानत्यागेन आगम्यमाने अवसरे अध्यक्षस्थानं प्रति परिगण्यमानेषु नामसु आर्थिकविदग्धाः सहिताः प्रमुखाः अन्तर्भूता: । तेषु मुख्यपरिगणना एस् बि ऐ अध्यक्षायै अरुन्धती भट्टाचार्यायै इति सूचना । आर्थिकविदग्धः राकेज् मोहन् , अशोक् लहिरी, विजय् केल्कर् , आर् बि ऐ नियुक्ताधिकारी उर्जित् पट्टेल् , भूतपूर्वनियुक्ताधिकारी सुबीर् गोकरन् , अशोक् चौला इत्यादयः प्रमुखाः पट्टिकायाम् अन्तर्भूताः इति सूचना: आगताः। उभयसम्मतपत्रस्य नवीकरणाय तात्पर्यं नास्तीति रघुराम् राजेन प्रख्यापितमासीत्। अत एव आर् बि ऐ अध्यक्षस्थाने नूतनस्य आरोहणं निश्चितमेवास्ति।

विख्यातः चलनचित्रकारः पोल् कोक्स् दिवङ्गतः
मेल्बण् > विख्यातः आस्ट्रेलिया देशीयः चलनचित्रकारः दिवङ्गतः।आस्ट्रेलियायां स्वतन्त्रसिनेमायाः पिता इत्येव सः व्यवह्रियते। १८ चलनचित्राणि,      ७ आधारसम्बन्धिचलनचित्राणि, ११ह्रस्वचित्राणि च तेन कृतानि वर्तन्ते। अनेके अन्तःराष्ट्रपुरस्कारा: तेन प्राप्ताः। सप्तदशतमं केरला अन्तःराष्ट्रचलनचित्रोत्सवे सः पुरस्कारनिर्णयसमितेः अध्यक्षः आसीत्।

पात्रियार्कीस् बावां प्रति आत्माहुतिसन्नद्धस्य आक्रमणम्।

दमास्कस् >सिरियन् ओर्तडोक्स् सभायाः परमाध्यक्षः परिशुद्धः इग्नात्तियोस् अप्रें बावाद्वितीयः जन्मदेशे आत्माहुतिसन्नद्धस्य आक्रमणात् रक्षितः। उत्तरपूर्वसिरियायां खामिष्लि जनपदे  बावावर्यस्य खातिनामके  जन्मग्रामे रविवासरे आसीत् स्फोटनम्।  स्फोटने त्रयः सुरक्षासैनिकाः हताः।
  खात्यां सेय्फो गणहत्यायां मृतानामनुस्मरणाय आयोजिते प्रार्थनासम्मेलने भागभागित्वं कुर्वन्नवसरे एव आक्रमणम्।

Monday, June 20, 2016

कोषिक्कोट्- आलप्पुषा वैद्यकीयकलाशाले अतिविदग्धचिकित्साकेन्द्रे भवतः ।
         नवदेहली >केन्द्रसर्वकारैः स्वीकृतः निर्णयः एषः । द्वयोः वैद्यकीयकलाशालातुरालययोः कृते प्रत्येकं 125 कोटि रूप्यकाणि केन्द्रेण दीयते । प्रत्येकस्मै 25 कोटिरूप्यकाणि राज्यसर्वकारैरपि समाहरणीयानि  इति केन्द्रारोग्यमन्त्री जे पी नड्डा उद्घोषितवान् ।

 युद्धविमानाय वनिताचालकाः। 

हैदराबाद् > भारतस्य युद्धविमानम् उड्डाययितुं इदंप्रथमतया वनिताचालकाः।  भावनाकान्त्, अवनी चतुर्वेदी , मोहना सिंह इत्येताः भारतस्य प्रथममहिलाचालकरूपेण अंगीकृताः।
  हैदराबादस्थे दुण्टिगल् व्योमसेना अकादम्यां पठनं सम्पूर्णं कृतवत्यः। प्रतिरोधमन्त्री मनोहर्परीक्करः कार्यक्रमे भागभाक्कृतवान्।

Sunday, June 19, 2016

भारतेन सह प्रातिवेशिकराष्ट्राण्यपि अभिवृद्धिमर्हन्ति - मोदी। 

कोळम्बो> भारतस्य अभिवृद्ध्या सह प्रातिवेशिकराष्ट्राणां प्रगतिमपि इच्छतीति प्रधानमन्त्री नरेन्द्रमोदी। श्रीलङ्कायां जाफ्नानगरे  भारतेन सम्यक् कृतस्य क्रीडाङ्कणस्य संयुक्तोद्घाटनं दिल्लीतः वीडियो सम्मेलन द्वारा कुर्वन्नासीत् सः।
  श्रीलङ्का राष्ट्रपतिना मैत्रिपालसिरिसेनावर्येण सहैव आसीत् उद्घाटनम्। भारतस्य साहाय्यं प्रति सिरिसेना कृतज्ञतां प्रकाशितवान्। द्वयोरपि राष्ट्रयोः चरितं, संस्कृतिः, भूप्रकृतिः, कला इत्यादयः अतिमहान्तः तथा परस्परपूरिताश्च भवन्तीति मोदिना उक्तम्।
जिषाघातकः न्यायकाराधीने। 

कोच्ची - गतदिने आरक्षकैः गृहीतः जिषायाः घातकः अमियूर् उल् इस्लामः  न्यायालयम् आनीतः। सः   न्यायाधीशाधीनत्वे १४ वासराणि कारागृहे बद्धः।  
  सुदृढे रक्षावलये एव सः न्यायालयम् आनीतः। तं द्रष्टुं महान् जनसम्मर्दः आसीदपि शिरस्त्राणं धारयित्वा एव  तमपराधिनं न्यायालयं प्रविष्टवन्तः।

Saturday, June 18, 2016

केरळस्य मुख्यमन्त्री केन्द्रमन्त्रिभिः सह अमिलत्।

नवदिल्ली >गतदिने दिल्लीं प्राप्तः केरळस्य मुख्यमन्त्री पिणराय् विजयः केन्द्रमन्त्रिभिः सह मेलनं कृत्वा राज्यसंबन्धान् विषयान् अधिकृत्य चर्चितवान्। 
   केन्द्रगतागत - नौकाश्रयमन्त्रिणा नितिन् गड्करि वर्येण सहाभिमुखे केरळस्य देशीयमार्गविकसनाधिष्ठिताः विषयाः चर्चिताः। ततः स्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येणापि सह मेलनं कृतवान्।

सार्वजनीनविद्यालयसंरक्षणाय कण्णूर् जनपदात् कश्चन नूतनपाठः। 

कण्णूर् >छात्रन्यूनतायाः कारणमुक्त्वा विद्यालयपिधानाय स्पर्धां कुर्वन्तः प्रबन्धकाः विद्यमाने अस्मिन् काले तद्व्यतिरिक्तः कश्चन विद्यालयप्रबन्धकः छात्राणां न्यूनतया अनादायकरं प्राप्तं स्वकीयं विद्यालयं संरक्षितुं जनकीयसंघाय ददाति। 
  कण्णूर् जनपदे तलिप्परम्प् काञ्ञिरक्काट् आर्थिकलब्धविद्यालयस्य प्रबन्धकः पि. कृष्णमारारः छात्रान् आकृष्टुं कर्मपद्धतिम्  आविष्कृताय जनकीयसंघाय आगामी दशसंवत्सरं यावत् विद्यालयस्य विनिमयः  कृतः। विद्यालयं नवजीवं कर्तुं शक्यते इत्येव जनकीयसमित्याः प्रतीक्षा।

Friday, June 17, 2016

बेङ्कानां लयनाय केन्द्रानुमतिः।

नवदिल्ली > स्टेट् बेङ्क् आफ् इन्डिया वित्तकोशेन सह षट् अनुबन्धवित्तकोशानां लयनाय केन्द्रमन्त्रिसभायाः अङ्गीकारः। स्टेट् बान्क् आफ् ट्रावन्कूर् , बिक्कानीर् & जय्पूर् , मैसुर् , हैदराबाद् , पट्याला इत्येते स्टेट् बाङ्काः, भारतीय महिला बान्कश्च एस् बि ऐ बान्केन सह लीयमानाः वित्तकोशाः।किन्तु वित्तकोशसेवकाः तेषां संघटनाः च अस्मिन् विषये अनुकूलतां न भजन्ते। लयनेन पदोन्नतिः वेतनव्यवस्था इत्यादयः प्रतिकूलाय भविष्यन्तीति सन्देहः तेषु वर्तते।

मेघालयायां लोकयानं गर्तं पतित्वा त्रिंशत् मरणानि।

षिल्लोङ् - मेघालयराज्ये बस् यानम् अगाधं गर्तं पतित्वा त्रिंशत् जनाः मृताः ; एकादश यात्रिकाः गुरुतरेण व्रणिताः।
 खासिहिल्स् जिल्लायां सोनापुरसमीपे रात्रौ  एव दुरन्तः अभवत्।

जिषायाः घातकः गृहीतः।

कोच्ची >मासद्वयात्पूर्वं केरळे पेरुम्पावूर् समीपे स्वगृहे अतिनिष्ठुरेण निहतायाः जिषानामिकायाः घातकः  केरलीयारक्षकैः गृहीतः। आसां स्वदेशीयः अमियूर् उल् इस्लाम् भवति घातकः इति प्रत्यभिज्ञातम्। जिषायाः गृहसमीपे परित्यक्तरूपेण दृष्टम् उपानहं केन्द्रीकृत्य कृते कठिनान्वेषणस्य अन्ते अपराधी केरळ-तमिळ् नाट् सीमायाम् आरक्षकदलस्य जाले लग्नः।  घटनास्थानात् लब्धस्य डि एन् ए प्रतिदर्शस्य परीक्षणफलमपि  एतदनुसृत्य स्थिरीकरणं लब्घम्। पूर्वकालीनविरोधः एव हननकारणमिति अपराधिना उक्तम्।

कोपा अमेरिका- अन्त्यचतुष्पादस्पर्धाः अद्य आरभ्य।

कैलिफोर्निया > कोपा अमेरिका पादकन्दुकचषकस्य अन्त्यचतुष्पादस्पर्धाः अद्य आरभ्यते। प्रथममत्सरे आतिथेयराष्ट्रम् अमेरिका इक्वडोर् राष्ट्रं प्रति स्पर्धते। शनिवासरे प्रभाते ५.३० वादने आरभ्यमाणे द्वितीय स्पर्धायां कोलम्बिया-पेरु राज्ययोर्मध्ये स्पर्धा भविष्यति।

Thursday, June 16, 2016

भारतीयविद्याभवने संस्कृतपठनवर्गः आरब्धः। 

 कोच्ची >भारतीयविद्याभवन् संस्थायाः कलाभारति नामके कोच्ची केन्द्रे संस्कृतपठनवर्गः आरब्धः। प्रोफेसर. अच्युतमेनोन् वर्यस्य नेतृत्वे प्रतिसप्ताहं दिनद्वये- सोममङ्गलवासरयोः - सायं पञ्चवादने कक्ष्या आरभ्यते। वयोभेदं विना संस्कृतपिपठिषूणां प्रवेशः अस्ति। सरलयारीत्या भाषां स्वायत्तीकर्तुं शक्यमाना ललिता पाठ्यपद्धतिरेव उपयुज्यते। संबन्धाय दूरवाणी - 0484- 2383451 , 9447179087.

विजयमल्या प्रख्यापितापराधी। 

मुम्बई >आर्थिक ऋणविषये राष्ट्रं त्यक्तः मदिराव्यापारी विजयमल्या सविशेषन्यायालयेन प्रख्यापितापराधिरूपेण प्रख्यापितः। ऐ डि बि ऐ बाङ्कात् स्वीकृतानां नवशतं कोटिरूप्यकाणं प्रत्यर्पणं न कृतमिति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अभ्यर्थनाप्रकारेणैव न्यायालयस्य अयं क्रियाविधिः।
  इदानीं लण्टनम् अधिवसन्तं मल्यं गृहीतुं राष्ट्रान्तरान्वेषणसंघस्य इन्टर्पोल् इत्यस्य साहाय्यम् अर्थितं च।

 विद्यालयगणवस्त्रं विभिन्नं न स्यात्। 

अनन्तपुरी > एकस्मिन् विद्यालये विभिन्नदिनेषु विभिन्नं गणवेषं  धर्तुम् आगामीसंवत्सरादारभ्य अनुमतिं न दास्यतीति सार्वजनीनशैक्षिकनिर्देशिकायाः आदेशः। राज्यस्तरीय बालाधिकारसंस्थायाः निर्देशानुसारमेवायमादेशः।
  संवत्सरत्रयाभ्यन्तरे गणवेषस्य परिवर्तनं न साध्यम्।

Wednesday, June 15, 2016

सोपानम्-03 SRK HSS Meenchanda, Kozhikkod, News Reading 15-06-2016

यन्त्रवत्कृतमत्स्यबन्धननिरोधः (Trolling) आरब्धः।

कोल्लम् > केरळे ४७ दिनात्मकमत्स्यबन्धननिरोधः आरब्धः। यन्त्रवत्कृतनौकाः उपयुज्य समुद्रान्तर्भागेषु मत्स्यबन्धनं मत्स्यप्रजननप्रक्रियां प्रतिकूलतया बाधते। अत एव प्रजननकाल इति निर्णीते मण्सूण् काले मत्स्यबन्धने निरोधः आविष्कृतः। 
    किन्तु परम्परागतधीवरैः नियन्त्रणमङ्गीकृत्य मत्स्यबन्धनाय अनुमतिः अस्ति। जूण् १५ दिनाङ्कादारभ्य जूलाय् ३१ पर्यन्तमेव निरोधनम्।

Monday, June 13, 2016

कोप्पा अमेरिक्कातः ब्रसील् बहिर्गतम्। 

मसाच्चुसेट्स् >कोप्पा अमेरिक्का पादकन्दुकक्रीडातः पेरु राष्ट्ं प्रति पराजितः ब्रसीलदेशः अन्तिमचतुर्थांशम् अप्राप्य बहिर्गतः।  पेरु राष्ट्रेणार्जितं कन्दुकलक्ष्यं  विवादात्मकमासीत्। पेरोः क्रीडकस्य रौल् रुड्डियास् नामकस्य हस्तं संस्पृश्य एव कन्दुकः जाले पतितः इति विदग्धैः उच्यते। तत्तु विवाकेन न निर्णीतं च। एतत् ब्रसील् दुरन्ताय अभवत्।

उन्मादक वस्तूनां विनिमयमधिकृत्य ज्ञापितेभ्यः मूल्यस्य प्रतिशतं पञ्च  (५% ) लप्स्यते - ऋषिराजसिंहः

अनन्तपुरी > केरळेषु उन्मादकवस्तूनां विनिमयं प्रतिरोद्धुं एक्सैस् कम्मीषणरः ऋषि राजसिंहः सम्मानं प्रख्यापितवान् । एतदनुसारं गोप्य रूपेण उन्मादवस्तूनां विनिमयमधिकृत्य ज्ञापनीयम् । इदानीं भारतस्य विभिन्नप्रदेशेषु विद्यमानेषु कलाशालायाः तथा विद्यालयस्य च परिसरेषु उन्मादवस्तूनां विक्रयः प्रचलति।

उड्ता पञ्चाबस्य प्रदर्शनानुमतिः। 

मुम्बई > ' उड्ता पञ्चाब् ' इति हिन्दी चलच्चित्राय मुम्बई उच्चन्यायालयः प्रदर्शनाङ्गीकारम् अदात्। अभिषेक् चौबे वर्यस्य निदेशकत्वे सिद्धतामाप्तस्य चलच्चित्रस्य  ८९ दृश्यानि वर्ज्यानि इति कारणेन युक्तियुक्तविवेचननिर्वाहकायोगः (Senser board) प्रदर्शनानुमतिं  निराकृतवानासीत्।
  एतद्विरुध्य निर्मातृभिः समर्पितायां याचिकायामेव उच्चन्यायालयस्य अनुकूलविधिः।