OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 16, 2026

 जनसंख्यागणना।

स्वयंबोधनसमर्णम् अद्य आरभ्य।


अनन्तपुरी> 'Census 2027' नामक जनसंख्यागणनायाः अंशतया व्यक्तिगतसूचनाः स्वयमेव अङ्कितुम् उद्दिष्टं स्वयं परिसंख्यानं [Self enumeration] मङ्गलवासरे प्रारभ्यते। se.census.gov.in इति 'पोर्टल्' द्वारा (portal] अस्य मासस्य त्रिंशत् दिनाङ्कपर्यन्तं सूचनाः स्वयमेव दातुं शक्यन्ते। 

  जनसंख्यागणनस्य अंशतया विधास्यमानं भवनगणनं जूलाई प्रथमदिनाङ्कतः ३१ दिनाङ्कपर्यन्तं भविष्यति। एतदर्थं परिसंख्याकर्तारः [enumerators] प्रतिगृहं साक्षादागमिष्यन्ति। 

  स्वयंबोधनसमर्पणाय ये अशक्नुवन्ति तेषां कृते परिसंख्याकर्तारः साक्षादागत्य सूचनासंग्रहणं करिष्यन्ति। सेन्सस् प्रक्रियायाः द्वितीयचरणं जनसंख्यागणनं २०२७ फेब्रुवरि-मार्चमासयोः विधास्यते।