OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, June 17, 2026

 स्फोटनाय परिकल्पना 

दिल्ल्यां सप्त भीकराः निगृहीताः। 

नवदिल्ली> राष्ट्रस्य विभिन्नस्थानेषु स्फोटनं कर्तुं  पाकिस्थानात् सहयोगं लब्धवन्तः सप्त भीकराः दिल्ली आरक्षकसेनया निगृहीताः। एषु एकः पञ्चाबे फत्तेगढ साहिब निवासी इतरे षट्  उत्तरप्रदेशे गासियाबादप्रदेशीयाः भवन्ति।  

   पाकिस्थानस्य चारवृत्तिसंघटनं ऐ एस् ऐ इत्यस्य निर्देशानुसारमासीत् एषां प्रवर्तनमिति आरक्षकसेनया निगदितम्।  निगृहीतेभ्यः आधुनिकभुषुण्डयः, गोलकास्त्राणि, वाहनानि इत्यादीनि  निगृहीतानि। 

  दिल्ल्याम् एन् सि आर् प्रदेशस्थान् प्रमुखान् धार्मिकपण्डितान् तन्त्रप्रधानकेन्द्राणि च लक्ष्यीकृत्य भीकराक्रमणयोजना एव दिल्ली सविशेषारक्षकसेनया भग्नीकृता।