OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 18, 2026

 अफ्गानं विरुध्य भारतस्य १७० धावनाङ्कानां विजयः। 

परम्परा अपि भारतस्य। 

शतकं प्राप्तवन्तौ शुभमान गिलः इषान किषन् च। 

लखनौ> एकाना क्रीडाङ्कणे सम्पन्ने द्वितीये एकदिनक्रिकट् प्रतिद्वन्द्वे अफ्गानं १७० धावनाङ्कैः पराजित्य भारतम् उज्वलं विजयं सम्प्राप। अनेन स्पर्धात्रयोपेतायां परम्परायां प्रथमं स्पर्धाद्वयं विजित्य परम्परामपि स्वायत्तीचकार। तृतीयस्पर्धा शनिवासरे चेन्नैयां सम्पत्स्यते। 

  प्राप्ताङ्कसूचिका - भारतं ४९. ५ क्षेपणचक्रेषु ४०२ धावनाङ्कैः सर्वे बहिर्नीताः। अफ्गानं तु ४४. ३ क्षेपणचक्रेषु २३२ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। 

  भारतस्य कन्दुकताडने नायकः शुभ मान गिलः , इषान् किषन् इत्यनयोः शतकद्वयं भारतस्य बृहत्प्राप्ताङ्काय कारणमभवत्। गिलः ११० कन्दुकैः १५४, इषानः ७९ कन्दुकैः १२५  च धावनाङ्कान् सम्पादितवन्तौ।