OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 18, 2026

 यू एस् उपरोधमार्गेण इरानस्य तैलेन्धनमहानौकानां स्वतन्त्रगमनम्। 

टेहरानं> मासद्वयानन्तरं होर्मुस् समुद्रसङ्कोचे यू एसेन कृतोपरोधमार्गेण इरानस्य तैलेन्धनमहानौकाः स्वैरं सञ्चरन्तीति वृत्तान्तीक्रियते। सोमवासरे आसीत्  शान्त्युपस्थापनसन्धौ यू एस् - इरानयोः अमूर्तं हस्ताक्षरीकरणम्। तदा एव उपरोधनिराकरणं ट्रम्पेन उद्घोषितम्। 

  सन्धेः आधिकारिकी हस्ताक्षरक्रिया शुक्रवासरे सम्पत्स्यते। तद्दिने होर्मुस् समुद्रसङ्कोचः पूर्णतया उद्घाटयिष्यते इति इरानेनापि निगदितम्।