OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, June 17, 2026

 उत्तरप्रदेशः। 

अयोध्या राममन्दिरे दानराशेः अपहरणे सविशेषान्वेषणम् आरब्धम्।

अयोध्या राममन्दिरम्।

लख्नौ> अयोध्यायां राममन्दिरे लब्धस्य दानार्पणधनस्य अपहरणमभवत् इत्यारोपणे सविशेषान्वेषणसंघस्य [SIT] अन्वेषणम् आरब्धम्। मन्दिरात् कोटिशः रूप्यकाणां दानराशिः विनष्टः इति आरोप्य समाजवादि पार्टी दलस्य नेता अखिलेष यादवः प्रथमतया न्यायालयम् अभ्यगच्छत्। 

  अन्वेषणसंघः ४० - ५० मन्दिरकर्मचारिणः परिपृच्छामकरोत्। सप्ताहाभ्यन्तरे प्राथमिकावेदनं, १५ दिनाभ्यन्तरे अन्तिमावेदनं च समर्पयिष्यतीति सूच्यते। राज्यसर्वकारेण रूपीकृतस्य अन्वेषणसंघस्य अधिकारी लख्नौ 'डिविषणल् कम्मीषणर्' पदीयः विजय विश्वास पन्तः अस्ति। अन्वेषणे केन प्रकारेणापि प्रातिलोम्यं भविष्यतीति राममन्दिरनिर्माणसमित्याः अध्यक्षः नृपेन्द्र मिश्रः उक्तवान्।