OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 17, 2026

 फिफा विश्वचषकः।

क्रीडाङ्कणे मेस्सीवर्यस्य अजय्यप्रतापः, इन्द्रजालं -  अनुस्यूतत्रितयम्।

प्राप्तलक्ष्यकन्दुकस्य मेसेः आह्लादः। 

अर्जेन्टीना अल्जीरियां पराजापयत - (३-०)

कन्सास् नगरं>  २३ तमे फिफा  विश्वचषकपादकन्दुके वर्तमानीनवीरस्य अर्जन्टीनादलस्य प्रथमक्रीडा अद्य प्रभाते कन्सास् नगरस्थे क्रीडाङ्कणे सम्पन्ना। प्रतिद्वन्दी तु आफ्रिकायाः प्रबलं दलम् अल्जीरिया। अत्यन्तम् उत्साहोज्वले प्रतिद्वन्द्वे अर्जन्टीनानायकस्य लयोणल् मेस्सीवर्यस्य मास्मरिके इन्द्रजालप्रकटने एकपक्षीयैः त्रिभिः लक्ष्यकन्दुकैः अल्जीरियां विजित्य अर्जन्टीनायाः  प्रथमक्रीडा अविस्मरणीया जाता। 

  अर्जन्टीनया सम्पादितानि लक्ष्यकन्दुकत्रयमपि मेसेः पादाभ्यामेव प्रसूतानि। क्रीडायाः १७, ६०, ७६ तमेषु निमिषेषु आसन् लक्ष्यकन्दुकानि। विश्वचषकस्य प्रथमम् अनुस्यूतत्रितयं [Hatrick] मेसीवर्यस्य नाम्नि अङ्कितम्। मेसेः षट्सु लक्ष्यकन्दुकप्रयत्नेषु त्रयः अपि सफलाः जाताः।

Latest newsLatest news