OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 18, 2026

 लबनने इस्रयेलस्य आक्रमणम् अनुवर्तते। 

बैरूट्> यू एस्-इरानयोः शान्त्युपस्थापनसन्धेः हस्ताक्षरीकरणाय निर्णये जाते हिस्बुल्लासंघटनं लक्ष्यीकृत्य लबनने इस्रयेलस्य आक्रमणम्। दक्षिणलबननस्थे नबातिया अल् फव्ख, कफार् टबिनित् प्रान्तेषु कृते आक्रमणे पञ्च जनाः हताः। इतरेषु स्थानेष्वपि ड्रोणाक्रमणं चाभवत्। यू एस्-इरानयोः शान्तिसन्धौ लबनने युद्धविरामः सुप्रधानव्यवस्था अस्ति। किन्तु लबननात् सैनिकापसरणं न करिष्यति, युद्धमनुवर्तिष्यते इति च इस्रयेलस्य पदस्थितिः।