OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 16, 2026

 पश्चिमेष्यायां शान्त्युपस्थापनम्!

यू एस्-इरानसन्धिः अभवदिति ट्रम्पः! 

शुक्रवासरे आधिकारिकं हस्ताक्षरीकरणम्!

वाषिङ्टणः> पश्चिमेष्या युद्धस्य शाश्वतशान्तिः अभ्यागच्छतीति डोनाल्ड ट्रम्पस्य प्रस्तावः। इरानं विरुध्य यू एस्-इस्रयेलयोः १०७ दिनानि यावत् अनुवर्तमानं युद्धं समापयित्वा शाश्वतशान्त्यर्थं मार्गदर्शकस्य सन्धेः संक्षिप्तरूपं यू एस् - इरानराष्ट्राभ्याम् अङ्गीकृतम्। सन्धिपत्रे अमूर्तहस्ताक्षरं [virtual signature] कृतमिति ट्रम्पेन निगदितम्। तेन प्रोक्तं यत् शुक्रवासरे मध्यस्थप्रमुखस्य पाकिस्थानराष्ट्रस्य आतिथेयत्वे जनीवायाम् औद्योगिकः हस्ताक्षरीकरणकार्यक्रमः सम्पत्स्यते इति। एप्रिल् अष्टमदिनाङ्के प्रवृत्तिपथमागतं ह्रस्वकालिकयुद्धविरामं ६० दिनानि यावत् दीर्घीकर्तुमुद्दिश्य एवायं सन्धिः।

  युद्धमालक्ष्य इरानेन पिहितः होर्मुस् समुद्रसङ्कोचः शुक्रवासरे उद्घाटयिष्यते मार्गः शुल्करहितः भविष्यतीति ट्रम्पेन निगदितम्। एप्रिल्मासे यू एसेन विधत्तं नाविकोपरोधं प्रत्याहरतीति च तेन प्रोक्तम्। किन्तु होर्मुस् धुनिमार्गे शुल्कसमाहरणं करिष्यामः इति  इरानेन प्रोक्तम्।