केरले रविवासरपर्यन्तं वृष्टिः अनुवर्तिष्यते।
अनन्तपुरी> दिनत्रयात्पूर्वम् आकेरलम् आरब्धा तुलावर्षः रविवासरपर्यन्तं तीव्रतया अनुवर्तिष्यते इति केन्द्र पर्यावरणविभागेन सूचितम्। गुरुवासरे ११ जनपदेषु पीतजागरूकता उद्घोषिता। लक्षद्वीपे अपि महती वृष्टिः भविष्यति।