OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 17, 2026

 गुरूपदेशेन विधानसभासदस्यः याचकः अभवत्। 

पराग शाहः भिक्षुवेषे। 

मुम्बई> कोटिशः रूप्यकाणाम् आर्थिकसञ्चयाधिकारादिभिः विराजमानः जनप्रतिनिधिः एकस्मिन् दिने भिक्षुकरूपेण वेषं धृत्वा जनमध्यं प्राविशत्।मलिनतरवस्त्रं धृत्वा सुस्मेरवदनः सन्  स 'याचकः' वीथ्यां चचार। किन्तु कोSपि तं न प्रत्यभिजानाति स्म। जनाः तस्मै नाणकानि भोजनं च दत्तवन्तः। प्रमुखः भवननिर्माता, कोटीश्वरः तथा च घाट् कोपरमण्डलस्य भाजपा सदस्यः पराग् शाहः एव सः आधुनिकयाचकः। 

 स्वस्य आत्मीयगुरोः नम्रमुनेः उपदेशानुसारमासीत् भाजपासदस्यस्य एकदिवसीयम् इदं वेषपरिवर्तनम्। जैनधर्मविश्वासप्रकारेण अयं पुण्यमासः इत्यस्मात् जनानां जीवितक्लेशान् सङ्कटान् च अनुभूय विज्ञातुं जनमध्यमवतरतु इत्यासीत् गुरूपदेशः। "जनाः स्वस्मात् महत्वपूर्णाः इति प्रत्यभिज्ञानमभवत्" इति सः प्रत्यभिजानाति। ३३८३ कोटिरूप्यकाणां सम्पन्नः भवत्ययम्!