पृष्ठतोयात्रिकाणामपि आसनबन्धः अनिवार्यः - सर्वोच्चन्यायालयः।
नवदिल्ली> यानानां पृष्ठासने उपविशद्भिः यात्रिकैः अपि आसनबन्धः धर्तव्यः इति यन्त्रवाहननियमः कर्कशेन विधातव्यः इति सर्वोच्चन्यायालयेन आदिष्टम्। अस्मिन् विषये शपथपत्रं समर्पयितुं राज्यान् केन्द्रप्रशासनप्रदेशान् च सर्वोच्चन्यायालयः आदिदेश। केरलीयेन डो. ज्योतिदेव केशवदेवेन समर्पितायां सामाजिकतात्पर्ययाचिकायामस्ति नीतिपीठस्य प्रक्रमः।