गासायां भवनसमुच्चयः विशीर्य २१ मरणानि।
गासानगरं> गासायां बहुस्तरीयं भवनं विशीर्य निपत्य १२ बालकान् अभिव्याप्य २१ जनाः मृत्युवशं गताः। ४५ जनाः क्षताः अभवन्। पूर्वं इस्रयेलस्य आक्रमणे जातः बलक्षयमेव भवनस्य नाशकारणमिति अधिकृतैरुक्तम्।
गासानगरे वर्तमानं षट्स्तरीये भवने शताधिकाः अभयार्थिनः वसन्तः सन्ति। तत्र एव दुर्घटना दुरापन्ना।