भ्रमणपथे तैः बाह्याकाशायुधः विन्यस्तः इति अमेरिकेन अङ्गीकृतम्।
वार्ताहरा - रमा टी के
![]() |
| ए. ऐ निर्मितम् |
भूमेः भ्रमणपथे बाह्याकाशायुधः विन्यस्तः इति अमेरिकेन अङ्गीकृतम्। इदंप्रथमतया एव एतादृशी आक्रमणक्षमता तेषाम् अस्ति इति अमेरिकेन लोकसमक्षम् अङ्गीकृतम्। शत्रूणाम् आक्रमणात् स्वसेनां संरक्षितुम् एतादृशः आयुधः आवश्यकः इति यू. एस्. व्योमसेनायाः कार्यदर्शिना ड्रोय् मेङ्क् इत्यनेन स्पष्टीकृतम्।
उपग्रहान् आक्रमितुं सक्षमः उपग्रहः रष्येन विक्षिप्तः इति २०२४ तमे संवत्सरे अमेरिकेन उक्तमासीत्। किन्तु रष्येन लोकसमक्षं प्रतिवचनं न दत्तमातीत्। चीनया अपि बाह्याकाश प्रतिरोधक्षमता विकासयन् अस्ति इति प्रतिवेदनमपि अस्ति।
