अतिशीघ्ररेल् केरलाय अनिवार्यम् - ई श्रीधरः।
ई श्रीधरः अङ्कमाल्यां वार्ताहरैः सह संवदति।
अङ्कमाली> अतिशीघ्ररेल् यानाभियोजना केरलाय अनिवार्या इति 'मेट्रोमान्' इत्यभिज्ञातेन ई श्रीधरवर्येण प्रोक्तम्। 'वेन्दे भारत' रेल् याने जनसम्मर्दः अस्य प्रमाणमिति तेनोक्तम्। स्वेन समर्पितायै अभियोजनायै यावच्छीघ्रम् केरलसर्वकारात् अनुज्ञा लप्स्यते इति सः प्रतीक्षां प्रकटितवान् च। अङकमालीनगरे ऐ सी ई सी इन्जिनीयेर्स् [Integrated Civil Engineers' Council] शिखरसम्मेलनस्य उद्घाटनानन्तरं वार्ताहरैः सह भाषमाणः आसीत् ई श्रीधरः।
केरले प्रतिदिनं पञ्चलक्षं जनाः दक्षिणोत्तरदिशि यात्रां कुर्वन्ति। तदेव अतिशीघ्ररेल् यानस्य प्राधान्यं द्योतयति। अनन्तपुरीतः होरात्रयेण कण्णूर् प्राप्तुं शक्यते। २३ निस्थानानि सन्ति। ६०,००० कोटि रूप्यकाणां व्ययः प्रतीक्षते। पूर्णतया सौरोर्जे प्रवर्तमाना अभियोजना स्यात्। अनन्तपुरीतः कण्णूर् पर्यन्तं ८०० रूप्यकाणि चीट्कामूल्यं भविष्यति। पञ्चवर्षाभ्यन्तरे निर्माणं समापयितुं शक्यते। श्रीधरमहोदयः स्वाभियोजनायाः सविशेषताः एवं वर्णितवान्।