'चतुरङ्ग ओलिप्याड्' अद्य आरभ्यते। 
दिव्या देशमुखः, कोनेरू हम्पी, डि गुकेषः, आर् प्रज्ञानन्दः।
समर्खण्डः> चतुरङ्ग ओलिप्याड् [Chess Olimpiad] मङ्गलवासरे उस्बकिस्थाने आरभ्यते। 'ओपण्' विभागे महिलाविभागे च भारतमेव वर्तमानीनप्रवीरः। उद्घाटनकार्यक्रमाः अद्य सम्पत्स्यते। प्रतिद्वन्द्वाः बुधवासरे आरप्स्यन्ते। २७ तमे दिनाङ्के समाप्तिर्भविष्यति।
विश्वप्रवीरः डि गुकेशः, आर् प्रज्ञानन्दः, अर्जुन एरिगासी, निहाल् सरिनः, विजित् गुजराती इत्येते सामान्यविभागे भारताय स्पर्धिष्यन्ते। अमेरिका, उस्बकिस्थानं, चीनः जर्मनी इत्येतेषां राष्ट्राणां गणेभ्यः भारतं तीव्रां प्रतिस्पर्धाम् अभिमुखीकरिष्यन्ति।
महिलाविभागे कोनेरु हम्पी, दिव्या देशमुखः, आर् वैशाली, वन्दिका अगर्वाल्, बि सविताश्री इत्येताः भारतं नयन्ति।