एष्यन् गयिंस्
कायिकताराणां वासाय महानौका!
कोस्टा सेरीना आडम्बरमहानौका।
नगोया [जापानं]> सहस्रशः यात्रिकैः सह उल्लासयात्रां गच्छन्ती 'कोस्टा सेरीना' नामिका महानौका आगामिषु त्रि सप्ताहेषु नूतने कार्यभारे व्यापृता भविष्यति। २० तम एष्यन् गयिंस् क्रीडायै जापानं प्राप्तानां क्रीडकाणाम् अधिवासाय सज्जा अस्तीयं महानौका।
मङ्गलवासरे महानौका नगोया नौकाश्रये कीलबन्धमुपस्थिता। ओक्टेबर् षष्ठदिनाङ्कपर्यन्तमत्र भविष्यति। ४००० कायिकताराणां वाससुविधा महानौकायामस्ति। वाससुविधासज्जीकरणं शीघ्रगत्या प्रचलदस्ति।