OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 7, 2025

 सि पि ऐ [एम्] 'पार्टी कोण्ग्रस्' परिसमाप्तम्। 

एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यः। 

एम् ए बेबिः। 

मधुरा> तमिलनाटे मधुरायां प्रचाल्यमाना सि पि ऐ [एम्] राजनैतिकदलस्य पञ्चदिवसीया  राष्ट्रस्तरीयपरिषत् [पार्टी कोण्ग्रस्] रविवासरे समाप्ता। केरलीयः वरिष्ठनेता एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यरूपेण चितः। पूर्वस्य सचिवमुख्यस्य  ई एम् शङ्करन् नम्पूतिरिप्पाटस्यानन्तरं दलस्य समुन्नतस्थानं प्राप्नुवन् केरलीयो भवति एम् ए बेबिवर्यः। 

  दलस्य पोलिट् ब्यूरो नामिकायां  राष्ट्रिय निर्वाहकसमित्यामपि  महत्वपूर्णं परिवर्तनमभवत्। वर्तमानीनसंयोजकः प्रकाशकाराट् इत्यमुमभिव्याप्य ६ विरिष्ठनेतारः ७५ वयः इति कालावधिमतीताः इत्यनेन नूतनाः तत्स्थानमागताः। केरलस्य मुख्यमन्त्री इति कारणेन पिणरायि विजयः विशेषविधेरपवादत्वं प्राप्तवान्।

Sunday, April 6, 2025

 ट्रम्पशुल्के प्रत्याघातः।

विश्वकोटीश्वराणां दिनद्वयेन अर्धलक्षं कोटि डोलरमितस्य नष्टम्। 

मुम्बई> अंशकविपण्यां कोविड् वैराणुना जातात् महान् प्रत्याघातः ट्रम्पकर्तृकेण करविधानेन जायते । गृहोत्पादनस्य उन्नतिं लक्ष्यीकृत्य यू एस् राष्ट्रम् इतरराष्ट्रेभ्यः निर्यातानां वस्तूनां परस्परानुपातिककरविधानमिति नाम्नि विहिते अधिकशुल्के विश्वविपणिः लम्बतया निपतति इति सूच्यते। डोनाल्ड ट्रम्पस्य अयं प्रक्रमः आर्थिकमान्द्याय  मूल्यवर्धनाय च हेतुः भविष्यति। अमेरिकीयविपण्यामेव महत्पतनं दृश्यते।

 ट्रम्पस्य दक्षिणहस्तरूपेण वर्तमानः कोटीश्वरसूचिकायां प्रथमस्थाने विद्यमानः इलोण मस्कः महान्तं प्रत्याघातमभिमुखीकरोति। तस्य टेस्ला अंशकानि शुक्रवासरे १०% च्युतिरनुभूतानि। अनेन तस्य द्रव्यसञ्चये दिनद्वयेन २८६० कोटि डोलरमितस्य आकुञ्चनमभवत्। तथा च 'आमसोण्' इतिसंस्थायाः स्वामिनः जेफ् बिसोस् इत्यस्य २३५९ कोटि डोलरमितस्य नष्टमभवत्। मेटा स्थापकस्य मार्क् सकरबर्गस्य २७३४ कोटि डोलराणि विनष्टानि। अंशकमूल्ये १४% आकुञ्चनमभवत्। एतत्सर्वं कोविड्कालादत्रिच्य महदाकुञनमितिसूच्यते।

समुद्रमण्डलेषु प्रतिरोधं सुशक्तं कर्तुं भारतं सज्जते।

   नवदिल्ली> भारतसर्वकारः प्रतिरोधमण्डलेषु बृहत् निक्षेपम् अनुवर्तते। अस्मिन् मासे २६ 'राफेल्-मारिडैम् स्ट्रैक् फैट्टर्' नाम युद्धविमानानि क्रेतुं नरेन्द्रमोदीसर्वकारः अनुमतिं प्रदातुं सज्जः भवति। २०२४-२५ संवत्सरे कोट्यधिक-द्विलक्षाधिकरूप्यकाणि प्रतिरोधमण्डले भारतेन व्ययीकृतानि सन्ति। अस्य मासस्य अन्तिमपादे  ७६० कोटि डोलर्  धनस्य व्यवस्थापत्रं  युद्धविमान-सुरक्षाकार्यपरिषदः समक्षं बोधयिष्यति इति प्रतिवेदनमस्ति। तदनन्तरं त्रयाणां मृत्तैलेन्धन-वैद्युत-अन्तर्वाहिनीनामपि सर्वकारेण अनुज्ञा प्रदीयते।

 संसदः आयव्ययपत्रकीयं सम्मेलनं परिसमाप्तम्।

नवदिल्ली> जवुवरी ३१ तमदिनाङ्कतः आरब्धं भारतसंसदः आयव्ययपत्रकीयं सम्मेलनं शुक्रवासरे समाप्तम्। २६ उपवेशनैः १६० होराः सम्मेलनमभवत्। १६ विधेयकानि अनुमोदितानि। तेषु मणिप्पुरसम्बन्धकं, वखफ विधेयकं, वित्तकार्यविधेयकानि इत्यादीनि प्रमुखानि भवन्ति।

Friday, April 4, 2025

 गासायां १५ स्वास्थ्यप्रवर्तकाः इस्रयेलेन व्यापादिताः गर्ते आच्छादिताश्च। 

डेयर् अल् बला>  स्वास्थ्यप्रवर्तकान् सन्नद्धसेवकान् चाभिव्याप्य १५ पालस्तीनीयान्  इस्रयेलसैनिकाः व्यापाद्य गर्ते निपात्य मृदाच्छादनमकुर्वन् इति यू एन् संस्थया आरोपितम्। मार्च् मासे २३ तमे दिनाङ्के राफायां टेल् अल् सुल्ताना इत्यत्र एतैः सञ्चरितं वाहनम् आम्बुलन्स् यानं च लक्ष्यीकृत्य पृथक् पृथक् आक्रमणं कृतमासीत्। आक्रमणे मृतान् सैन्येन 'बुल्डोसर'यन्त्रमुपयुज्य महतद्गर्तं खनित्वा शरीराणि आच्छादितानीति अधिगतम्।

Thursday, April 3, 2025

 शुभांशु शुक्लः आगामिमासे बहिराकाशनिलयं प्रति। 


वाषिङ्टणः> भारतीयव्योमसेनायां 'ग्रूप् केप्टन्' पदीयः शुभांशु शुक्लः मेये मासे अन्ताराष्ट्र बहिराकाशनिलयं [ऐ एस्]  प्रति गम्यमाने 'आक्सियों दौत्ये' [ए एक्स् - ४] अन्तर्भूतः। दौत्ये साक्षात्कृते ऐ एस् गच्छन् प्रथमो भारतीयो भविष्यति शुभांशुः। 

  शुभांशुमभिव्याप्य चतुरान् यात्रिकान् वहन् स्पेस् एक्स् इत्यस्य ड्रागणपेटकं मेय्मासे फ्रोलिराडायां केन्नडि बहिराकाशनिलयात् प्रस्थास्यति। अस्याः परियोजनायाः वैमानिको भवति शुभांशु शुक्लः।

 लोकसभायां वखफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वखफ्-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वखफ्-संशोधन-विधेयकसम्बन्धितया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वखफ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।