उद्योगात् निष्कास्यन्ते कर्माचारिणः।
अमेरीकसंयुक्तराज्यस्य शासनं वित्तीयव्ययविषयके राजनैतिकविवादे निमग्नम्। अस्य विवादस्य परिणत्या शासनस्तम्भनस्य महान् सम्भवो जातः। एतदनुसृत्य वैट् हौस् सर्वाः सङ्घीयसंस्थाः सम्भाव्य पिधानाय सज्जतामाचरितुम् आदिशत्। शासनस्य व्ययविधेयकं काङ्ग्रेस् इति विधायिकायां डेमोक्रेट् -रिपब्लिक पक्षयोर्मध्यगतेन गतिरोधेन नानुमोदितम्। अतः यदि विधेयकमिदं नियतकालात् प्राक् न अङ्गीकरिष्यते तर्हि अनेके शासकीयविभागाः स्वकार्याणि स्थगयिष्यन्ति। एवं सति लक्षशः कर्मचारिणः अवकाशं दत्वा प्रेषयिष्यन्ते। यद्यपि राष्ट्रसुरक्षादिसम्बद्धा अत्यावश्यकसेवाः अनवरतं चलिष्यन्ति तथापि इतराणि नैकानि कार्याणि रुद्धानि भविष्यन्ति॥