OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 26, 2025

उद्योगात् निष्कास्यन्ते कर्मचारिणः।

  अमेरीकसंयुक्तराज्यस्य शासनं वित्तीयव्ययविषयके राजनैतिकविवादे निमग्नम्। अस्य विवादस्य परिणत्या शासनस्तम्भनस्य महान् सम्भवो जातः। एतदनुसृत्य वैट् हौस् सर्वाः सङ्घीयसंस्थाः सम्भाव्य पिधानाय सज्जतामाचरितुम् आदिशत्। शासनस्य व्ययविधेयकं काङ्ग्रेस् इति विधायिकायां डेमोक्रेट् -रिपब्लिक पक्षयोर्मध्यगतेन गतिरोधेन नानुमोदितम्। अतः यदि विधेयकमिदं नियतकालात् प्राक् न  अङ्गीकरिष्यते तर्हि अनेके शासकीयविभागाः स्वकार्याणि निश्चलीकरिष्यन्ति। एवं सति लक्षशः कर्मचारिणः उद्योगात् बहिः प्रेषयिष्यन्ते। यद्यपि राष्ट्रसुरक्षादिसम्बद्धा अत्यावश्यकसेवाः अनवरतं चलिष्यन्ति तथापि इतराणि नैकानि कार्याणि रुद्धानि भविष्यन्ति॥