OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, August 17, 2025

 चीनस्य विदेशकार्यमन्त्री श्वः भारते। 

नवदिल्ली> सीमाविषये भारतस्य सुरक्षा उपदेष्टा अजित डोवलः इत्यनेन सह चर्चां कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ् यि नामकः सोमवासरे भारतं प्राप्स्यति। सीमाप्रकरणे द्वितीयवारचर्चा एव भारते सम्पत्स्यते। सीमासमस्यापरिहाराय द्वाभ्यां राष्ट्राभ्यां चितौ प्रतिनिधी भवतः डोवलः वाङ् यि च।

 भारत-पाकिस्थानसंघर्षस्य समाप्तेः कारणम् अहमिति पुनः ट्रम्पः। 

डोनाल्ड ट्रम्पः। 

अलास्का> ओपरेषन् सिन्दूरस्य अंशतया जातः भारत-पाकिस्थानसंघर्षः आत्मनः व्यवहारेणैव समाप्तिं प्राप इति आवर्तनेन प्रस्तूयन् यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः। अलास्कायां रष्यायाः राष्ट्रपतिना व्लादिमिर् पुतिनेन सह युक्रैनप्रकरणे शान्तिचर्चायाः अनन्तरं वार्तामाध्यमाय दत्ते अभिमुखे आसीत् ट्रम्पस्य आत्मप्रशंसा। स्वस्य व्यवहारः नाभविष्यत् तर्हि भारत-पाकिस्थानसंघर्षः  आणवयुद्धपर्यन्तं प्राप्येत इति 'फोक्स् न्यूस्' नामकवार्तामाध्यमाय दत्ते मुखामुखे ट्रम्पः अवदत्।

 पाकिस्थाने आकस्मिकप्रलयः

मरणानि ३०७ अभवन्। 

पेषवार्> अतितीव्रवृष्टिकारणात् पाकिस्थानस्य खैबर् पक्तूनप्रदेशे  दुरापन्ने आकस्मिकप्रलये भूस्खलने च मृतानां संख्या ३०७ अभवत्। मृतेषु १३ बालकाः अन्तर्भवन्ति। 

  ४८ होराणामाभ्यन्तरे अस्ति एतावदधिके जनाः मृत्युमुपगताः। २३ जनाः आहताः। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। वृष्टिः आगस्ट् २१ दिनाङ्कपर्यन्तम् अनुवर्तिष्यते इति तत्रस्थेन पर्यावरणविभागेन निगदितम्। 

  बजौर्, बुणेर्, स्वात्, मनेह्रा, षाङ्ला, तोर्घर्, बडाग्राम् इत्येषु जनपदेषु वृष्टिदुष्प्रभावः कठिनतया दृश्यते।

Saturday, August 16, 2025

 पाकिस्थाने वृष्टिदुष्प्रभावः।

आकस्मिकप्रलये २०० जनाः विनष्टप्राणाः अभवन्।

इस्लामबादः> अतिवृष्टेः दुष्प्रभावेन पाकिस्थाने महान् दुरन्तः। आकस्मिकप्रलयेन, भूविच्छेदेन च उत्तरपाकिस्थाने १९४ जनाः मृत्युमुपगताः इति निर्णीताः। बहवः तिरोभूताः जाताः। २४ होराभ्यन्तरे एव एवंप्रकारदुरन्तः आपन्नः। 

  अफ्गानिस्थानस्य सीमासमीपे खैबर् पक्तूनप्रान्ते पर्वतोपान्तप्रदेशे अस्ति कठिनः वृष्टिदुष्प्रभावः। अत्र १५० अधिके जनाः मृताः। पाकिस्थानस्याधीने वर्तमाने काश्मीरे नव जनाः मृत्युमुपगताः। जब्रारीनामकः ग्रामः मेघविस्फोटनानन्तरं जातायामतिवृष्ट्यां मग्नोSभूत्। बजौर्, अबोट्टाबादः, खैबर् लोवर् दिर् इत्येषु स्थानेषु भूविच्छेदेन असंख्यं गृहाणि विशीर्णानि।

 दिल्यां 'दर्गा'याः भित्तिका सन्निपत्य ५ जनाः मृताः। 

नवदिल्ली> मुगलचक्रवर्तिनः हूमयूणस्य शवकुटीरस्यसमीपं वर्तमानस्य दर्गामन्दिरस्य  भित्तिका सन्निपत्य पञ्च जनाः मृत्युमुपगताः। तिस्रः महिलाः द्वौ पुरुषौ च मृताः। 

  शुक्रवासरे मध्याह्नानन्तरमासीत् दुर्घटना।  प्रार्थनां कर्तुं दर्गामन्दिरं प्राप्तवन्तः एव दुरन्ताधीनाः जाताः। भञ्जितस्य मन्दिरस्य अवशिष्टेभ्यः उपदश जनाः क्षतैः आतुरालयं नीताः।

 राष्ट्रे स्वतन्त्रतादिनम् आमानितम्।

रक्तदुर्गे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजमुन्नयति।

नवदिल्ली> भारतस्य ७९ तमं स्वतन्त्रतादिनं विविधैः कार्यक्रमैः आराष्ट्रम् आमानितम्। नवदिल्यां 'रेड् फोर्ट्' [रक्तदुर्गः]  इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजम् उन्नीतवान्। ततः पूर्वं मोदिवर्यः राजघट्टं प्राप्य महात्मागान्धिनः स्मृतिमण्डपे पुष्पाञ्जलिं समार्पयत्। 

  रक्तदुर्गस्था वेदिका ओपरेषन् सिन्दूरं,विकसितभारतम् इत्यादिप्रकरणाधिष्ठितैः कलारूपैः अलङ्कृता आसीत्। स्थल-नौ-वायु-तटसंरक्षणसेनाविभागानां संघाः पथसञ्चलनम् अकुर्वन्। पञ्चसहस्राधिके आमन्त्रितातिथयः स्वतन्त्रतादिनोत्सवदर्शनाय प्राप्तवन्तः। 

  प्रधानमन्त्रिणः स्वतन्त्रतादिनभाषणं राष्ट्रविकासः, देशसुरक्षा, प्रजाक्षेमः, स्वपर्याप्तता, यूनां वृत्यवकाशः इत्यादिभिः विषयैः सम्पन्नमासीत्। प्रभाषणं १०३ निमेषं यावत् दीर्घितमासीत्। अनुस्यूततया १२ तमं प्रभाषणमासीत् अस्मिन् वर्षे रक्तदुर्गे सम्पन्नम्।

Friday, August 15, 2025

 स्वतन्त्रतादिनोत्सवः। 

चतुर्भ्यः सैनिकेभ्यः  कीर्तिचक्रं लभन्ते; पञ्चदशभ्यः  वीरचक्रं च। 

नवदिल्ली> भारतस्य ७९ तमस्वतन्त्रतादिनाचरणस्य अङ्गतया सैनिकपुरस्काराः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उद्घोषिताः। 

  १२७ सैनिकाः धीरतायै दीयमानाय पुरस्काराय अर्हाः अभवन्। ४० सेनाप्रमुखाः विशिष्टसेवापुरस्कारान् प्राप्तवन्तः। एषु चत्वारः कीर्तिचक्रपुरस्कारेण विशिष्टाः भवन्ति।  १५ सैनिकाः वीरचक्रेण, २६ सैनिकाः शौर्यचक्रेण च आमानिताः।

 बिहारस्य संगृहीतमतदायकावलिः 

अपनीतानां वृत्तान्ताः प्रकाशयितव्याः - सर्वोच्चन्यायालयः। 

नवदिल्ली> तीव्रमतदायकावलीपरिष्करणस्य [SIR] अंशतया निर्वाचनायोगेन आगस्ट् प्रथमदिनाङ्के  प्रसिद्धीकृतात् संगृहीतमतदायकावलेः निष्कासितानां ६५ लक्षं मतदायकानां वृत्तान्तान् प्रसिद्धीकर्तुं सर्वोच्चन्यायालयेन निर्दिष्टम्। निष्कासनस्य कारणमपि सूचितव्यम्। 

  अपसारितानां सूचनाः आगामिकुजवासरात्पूर्वं प्रकाशयितव्याः इति न्यायाधीशः सूर्यकान्तः, न्यायाधीशः जोय् मल्या बाग्चि इत्येतयोः नीतिपीठेन निर्दिष्टम्। प्रकरणमिदं आगामिशुक्रवासरं प्रति परिवर्तितम्।

  यदि वृत्तान्ताः प्रसिद्धीक्रियन्ते तर्हि निर्वाचनायोगं विरुध्य प्रचारः  समापयिष्यतीति न्याया. जोय् मल्या वर्येण सूचितम्।

 जम्मु-काश्मीरे महामेघविस्फोटनम्।

४६ जनाः मृत्युमुपगताः।

दुरन्तस्थानात् मृतशरीराणि अपनीयन्ते। 

श्रीनगरं> जम्मु-काश्मीरस्य किष्त्वार् जनपदस्थे चिसोतिनामके ग्रामे गुरुवासरे मध्याह्ने दुरापन्ने महति मेघविस्फोटने तदनन्तरं जाते गभीरे गिरिजलपाते ४६ जनाः मृताः। द्विशताधिके जनाः तिरोभूताः। १२० अधिके क्षताः जाताः। मृतेषु द्वौ सि ऐ एस् एफ् भटौ अन्तर्भूतौ इति सूच्यते। 

  मच्चैल् मातृमन्दिरं प्रति गमनमार्गे आसीदयं दुरन्तः। तीर्थाटनमार्गः विनश्य अत्यन्तं तुमुलोSभवत्। तीर्थाटनं स्थगितं कारितम्। 

  राष्ट्रियदुरन्तनिवारणसेनायाः सङ्घद्वयं उधंपुरतः किष्त्वारं प्रति प्रेषितम्। शताधिके जनाः सुरक्षितस्थानं नीताः इति रक्षाप्रवर्तकैः निगदितम्। 

  गिरेः अधित्यकायां वर्तितानां ग्रामवासिनां गृहाणामुपरि प्रलयजलं पङ्क-शिलाखण्ड-वृक्षखण्डैः सहितं पतितम्। प्रदेशमासकलं मृदाच्छादितमभवत्।

Thursday, August 14, 2025

आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति। 

   सण्-मैक्रोसिस्टम्स् (Sun Microsystems) नामकस्य विश्वविश्रुतस्य तन्त्रज्ञानसंस्थानस्य सहसंस्थापकः प्रसिद्धः उद्यमधनपतिश्च खोस्ला विनोदः महतीं भविष्यद्वाणीम् अकरोत् । स अवदत् यद् आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति । तेन मानवानां कर्मलोपो भवेत्।

नवदिल्यां प्रवृत्ते प्रैम्स्ट्याक्-सम्मेलने (Primestack Conference) भाषमाणः स इमं विचारं प्राकटयत् । तस्य मतेन न केवलं सामान्यानि कर्माणि अपि तु यावन्ति विशेषज्ञानानि अपेक्षितानि कर्माणि सन्ति तान्यपि अनेन यन्त्रपुरुषेण अपहरिष्यन्ते । 

 खोस्लाविनोदः कथयति यद् एषा न कापि भीतिः अपितु महानवसर एव वर्तते । तस्य आशयः अयमस्ति यत् यदा कृत्रिमप्रज्ञा बौद्धिककार्याणि करिष्यति तदा मानवाः अधिकसृजनात्मकेषु कार्येषु स्वकीयं समयं प्रयोक्तुं शक्ष्यन्ते ॥


यथा पूर्वस्मिन् काले यन्त्राणि शारीरिकश्रमम् अपाहरन् तथैवेदानीं कृत्रिमबुद्धिमत्ता बौद्धिकश्रमम् अपहरिष्यति । किन्तु अस्य परिवर्तनस्य गतिः पूर्वस्मात् अतीव वेगवती भविष्यति प्रभावश्चापि सुविशालः। केचन चिन्तयन्ति यत् लुप्तानां कर्मणां स्थाने नूतनानि कर्माणि उत्पत्स्यन्ते । खोस्लाविनोदस्तु एतं विचारं पूर्णतया न अङ्गीकरोति । तस्य मतेन कर्मणः स्वरूपमेव परिवर्तते न तु केवलं सङ्ख्या ॥


चैट्-जीपीटी (ChatGPT) इत्यादीनां कृत्रिमप्रज्ञासाधनानाम् उदयः अस्य भविष्यकथनस्य प्रत्यक्षं प्रमाणम् । अतः कृत्रि मबुद्धिमत्तया सह कार्यं कर्तुं ये कुशलाः भविष्यन्ति तेषामेव भविष्यम् उज्ज्वलम् इति तस्य कथनस्य सारः ॥

 इस्रयेलाक्रमणम् 

गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि। 

जरुसलेमः> गासामभिभवितुम् उद्दिश्य  प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्। 

  एतावत्समयाभ्यन्तरे एतावदधिके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितरणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।

 नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय प्रारम्भः। 

अन्वेषणाय अङ्गत्रयोपेतसमितिः रूपीकृता।

नवदिल्ली> औद्योगिकभवनस्य सम्भरणप्रकोष्ठात् बहुप्रमाणेन धनपत्राणि अधिगतानि इत्यस्मिन् प्रकरणे अलहबादे उच्चन्यायालयस्य नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय लोकसभायाम् अभिशंसनप्रक्रियायै प्रक्रमः आरब्धः। सभापतिः ओं बिर्लावर्यः एतदधिकृत्य सभां निगदितवान्। 

  सर्वकारस्य नेतृत्वे प्रथमतया एव कञ्चन न्यायाधिपं विरुध्य अभिशंसननिवेदनं प्रस्तुतम्। पक्षभेदं विना १४६ सदस्यैः हस्ताक्षरीकृतनिवेदनस्य आधारे एव अभिशंसनक्रियान्वयः आरब्धः। विपक्षनेता राहुल गान्धी, भाजपा नेता रविशङ्करप्रसाद‌ः इत्यादयः निवेदने हस्ताक्षरं कृतवन्तः। 

  आरोपणमन्वेष्टुं त्रीणां न्यायाधिपानां समितिः रूपीकृता। सर्वोच्चन्यायालयस्य न्यायाधिपः अरविन्दकुमारः, मद्रास् उच्चन्यायालयस्य मुख्यन्यायाधिपः मनिन्दर् मोहन श्रीवास्तवः, कर्णाटके उच्चन्यायालयस्य वरिष्ठः न्यायवादी बी वी आचार्यः इत्येते भवन्ति समितिसदस्याः। अस्याः समित्याः आवेदनस्याधारे अनन्तरक्रियाविधयः भविष्यन्तीति लोकसभापतिः अवदत्।

 महिला विश्वचषक एकदिनक्रिकट् - 

अनन्तपुरी वेदिका भविष्यति। 

ग्रीन् फील्ड् अन्ताराष्ट्रियक्रीडाङ्कणम्, अनन्तपुरी। 

अनन्तपुरी> भारतेन आतिथ्यम् ऊढ्यमानायै महिलानां विश्वचषक एकदिनक्रिकट् परम्परायै केरलस्य अनन्तपुरी 'ग्रीन् फील्ड्' क्रीडाङ्कणं वेदिका भविष्यति। भारतस्य द्वे स्पर्धे, पूर्वान्त्यस्पर्धाः अभिव्याप्य ६ स्पर्धाः अत्र सम्पत्स्यन्ते। 

  सेप्टम्बर् ३०तमदिनाङ्कतः नवम्बर् द्वितीयदिनाङ्कपर्यन्तमस्ति विश्वचषकस्पर्धापरम्परा। पूर्वं बङ्गलुरु चिन्नस्वामिक्रीडाङ्कणे निश्चिताः प्रतियोगिताः एव केरलं परिवर्तिताः। भारतम्, इङ्गलाण्ट्, न्यूसिलान्ट्, दक्षिणाफ्रिका, पाकिस्थानं, श्रीलङ्का, बङ्गलादेशः, आस्ट्रेलिया इत्येतानि राष्ट्राणि विश्वचषके भागं करिष्यन्ति।

Tuesday, August 12, 2025

 अमेरिकायाः उत्पादान् बहिष्कर्तुं सामाजिमाध्यमेषु घोषणा उन्नीयन्ते। 

मुम्बई> भारतीयसामानानाम् उपरि ५०% शुल्कं विहितस्य यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य निर्णयस्य प्रतिषेधसूचकत्वेन अमेरिकायाम् उत्पादितानि वस्तूनि बहिष्कर्तुं सामाजिकमाध्यमैः घोषणा प्रबला वर्तते। स्वदेशीयोत्पन्नेभ्यः प्राधान्यं दातव्यमिति प्रधानमन्त्रिणः नरेन्द्रमोदिनः उद्योगप्रमुखानां च उद्बोधनस्य आधारे अस्ति सामाजिकमाध्यमेषु अमेरिकाविरोधः। 

  डोमिनोस्, मक्डोणाल्स्, पेप्सी, कोकोकोला, ऐफोण् इत्यादीनि अमेरिकीयोत्पीदान् विरुध्य अस्ति मुख्यतया प्रतिषेधः।

 इस्रयेलाक्रमणे ६ वार्ताहराः हताः। 

गासा सिटी> गासा सिटी प्रदेशे इस्रयेलस्य आक्रमणे तीव्रे जाते प्रमुखः युद्धकार्यवार्ताहरः अनस् अल् षरीफ् नामकमभिव्याप्य ६ वार्ताहराः हताः। एते सर्वे खत्तरस्य वार्ताप्रसारणी 'अल् जसीरा' इत्यस्याः प्रवर्तकाः इति सूच्यते।