OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 16, 2025

 हरितगमनागमनम् 

'कोच्ची मेट्रो' राष्ट्रीय पुरस्कारेण बहुमानितम्। 

कोच्ची> हरितगमानागमनमण्डले उपलब्धायाः श्रेष्ठतायाः कोच्ची मेट्रो रेल् यानसेवासंस्था राष्ट्रीयपुरस्कारेण सम्मानिता। केन्द्रप्रशासनस्य भवन-नगरकार्यविभागेन विधत्तः City with best green transport initiative नामकपुरस्कार एव लब्धः। हरियानस्थे गुरुग्रामे आयोजिते कार्यक्रमे  केन्द्र भवन-नगरकार्यविभागस्य मन्त्री मनोहरलालः पुरस्कारमदात्।

 काश्मीरे आरक्षकस्थाने महास्फोटनम्

नव मरणानि, ३२ जनाः आहताः। 

स्फोटनं गृहीतस्फोटकानां परिशोधनावेलायाम्।

नवदिल्ली> जम्मु काश्मीरस्थे नौगाम आरक्षकस्थाने परिपालितानि स्फोटकवस्तूनि विस्फोट्य आपन्नायां दुर्घटनायां नव अन्वेषणाधिकारिणः मृताः। ३२ जनाः व्रणिताः सन्तः आतुरालये परिचर्यायां वर्तन्ते। व्रणितेषु २७ जनाः आरक्षकाः भवन्ति। केन्द्रसर्वकारेण अन्वेषणमारब्धम्। 

  गतसप्ताहे दिल्ल्यां रक्तदुर्गसमीपे जातस्य स्फोटनस्य अंशतया अपराधिषु अन्यतमस्य डो मुसम्मिल् षक्कीलस्य हरियाने फरीदाबादस्थात् वासगृहात् निगृहीतानि स्फोटकवस्तूनि नौगामस्थे आरक्षकस्थाने परिशोधनायां कृतायां प्रमादेन विस्फोटितमासीत्। 'फोरन्सिक्' विभागस्थाः त्रयः, 'रवन्यू' अधिकारिणौ द्वौ, द्वौ आरक्षकविभागस्य छायाग्राहकौ, एकः आरक्षणाधिकारी, एकः सीवकः इत्येते मृत्युमुपगताः। प्रमादेन जाता दुर्घटना एषा, ऊहापोहानां स्थानं नास्तीति केन्द्रगृहमन्त्रालयाधिकारी  प्रशान्त लोखण्डे अवदत्।

Saturday, November 15, 2025

 दिल्ली भीकराक्रमणम्। 

उमर् नबी इत्यस्य पुल्वामस्थं भवनं सैन्येन विशीर्णितम्। 

उमर् नबी इत्यस्य गृहं विशीर्णावस्थायाम्।

श्रीनगरं> दिल्ल्यां रक्तदुर्गसमीपे आत्मघातिरूपेण भीकराक्रमणं कृतवतः डो उमर् नबी इत्यस्य दक्षिणकाश्मीरस्थे पुल्वामप्रदेशस्थं वासगृहं सुरक्षासेनया शुक्रवासरे प्रत्युषसि विशीर्णितम्। तत्रस्थान् बन्धुजनान् अपाकृत्यानन्तरमासीत् प्रक्रमः। ये भीकरप्रवर्तनाय सहयोगं कुर्वन्ति तेभ्यः पूर्वसूचना भवतीयं प्रक्रम इति अधिकृतैरुक्तम्। पुल्वामा भीकराक्रमणे भागं कुर्वतां गृहाण्यपि एतादृशं विशीर्णितानि आसन्। अतीते सोमवासरे  रक्तदुर्गसमीपे आपन्ने स्फोटने १३ जनाः मृताः आसन्।

 बिहारे विधानसभानिर्वाचनम् एन् डि ए सख्येन परिसंगृहीतम्। 

आहत्य - २४३, एन् डि ए सख्यं - २०२, महासख्यं - ३४, इतरे - ७।

एन् डि ए सख्यप्रवर्तकानां विजयाह्लादः। 

पाट्ना>  आराष्ट्रं साकूतमवलोक्यमानं बिहारराज्यस्य विधानसभानिर्वाचनस्य मतगणने सम्पन्ने भाजपा-जेडियू नेतृत्वोपेतेन एन् डि ए सख्येन महाविजयमवाप। २४३ सदस्योपेतसभायाः २०२ स्थानानि सख्येनावाप्तानि। 

  भाजपादलं  ८९ स्थानानि अवाप्य सभायां बृहत्तमं दलमभवत्। जेडियूदलेन ८५ स्थानानि सम्प्राप्तानि। जेडियूदलस्य अनिषेध्यनेता नितीश कुमारः मुख्यमन्त्री भविष्यतीति सूच्यते। शपथवाचनं १८ तमे दिनाङ्के स्यात्।

  आर् जे डी- कोण्ग्रस् नेतृत्वे विद्यमानं 'महासख्यं' दयनीयपराजयमन्वभवत्। महासख्येन ३४ स्थानानि प्राप्तानि। आर् जे डी- २५, कोण्ग्रस् - ६।

Friday, November 14, 2025

 बिहारे निर्वाचनफलन् अद्य प्रकाश्यते ।

बिहारस्य नियमसभा निर्वाचनस्य फलम् अद्य प्रकाश्यते । प्रभाते ८.३० वादने प्रथमफल सूचना लब्धुमर्हति। ३८ जनपदेषु ४६ मतगणनाकेन्द्राणि सज्जीकृतानि सन्ति । सुरक्षायै गणनाकेन्द्रेषु अर्धसैनिकाः विन्यस्ताः विद्यन्ते ।

Thursday, November 13, 2025

 दिल्ली स्फोटनम्। 

भीकराक्रमणमिति स्थिरीकृत्य केन्द्रप्रशासनम्। 

नवदिल्ली> गतदिने दिल्ल्यां  रक्तदुर्गस्य [Red Fort] समीपं १२ जनानां अकालमृत्योः हेतुभूतस्य कार् यानविस्फोटनस्य पृष्ठतः  भीकरसम्बन्धः केन्द्रसर्वकारेण दृढीकृतः। केन्द्रमन्त्रिमण्डलेन स्फोटनम् अपलपितम्। अपराधिनः तेषां पृष्ठतः ये प्रवर्तितवन्तः तान् च यावच्छ्रीघ्रम् अधिगम्य नीतिपीठस्य पुरतः आनयिष्यतीति मन्त्रिमण्डलेन निर्णीतम्।

 अमेरिकां विना ब्रसीले पर्यावरणशिखरसम्मेलनम् आरब्धम्। 

बेलेमः [ब्रसीलः]> आगोलतापनस्य न्यूनीकरणाय क्रियमाणान् प्रयत्नान् प्रबलीकर्तुं समायोजितं ३० तमम् आगोलपर्यावरणशिखरसम्मेलनं [सि पि ओ - ३०] आमसोण् काननस्य समीपस्थे ब्रसीलनगरे  बेलेमे आरब्धम्। किन्तु २०१५ तमवर्षस्य पर्यावरणसन्धेः निवर्तयितुं निर्णीतात् यू एस् राष्ट्रात् कोSपि प्रतिनिधिः न प्रेषितः।

 केरले प्रादेशिकसर्वकारनिर्वाचनाय विज्ञप्तिः उद्घोषिता। 

अनन्तपुरी> केरलराज्ये तद्देशीयस्वयंशासनसंस्थाभ्यः निर्वाचनाय दिनाङ्कः उद्घोषितः। निर्वाचनाय चरणद्वयं भविष्यति। डिसम्बर् नवमदिनाङ्के सम्पत्स्यमाने प्रथमचरणे तिरुवन्तपुरं जनपदात् एरणाकुलपर्यन्तं सप्तसु जनपदेषु मतदानप्रक्रिया भविष्यति। डिसम्बर् ११ तमे दिनाङ्के सम्पत्स्यमाने द्वितीयचरणे इतरेषु सप्तजनपदेषु निर्वाचनं भविष्यति। मतगणना १३ तमे दिनाङ्के अस्ति।

Wednesday, November 12, 2025

 बिहारे द्वितीयचरणे ६८. ९% मतदानम्।

पाट्ना> बिहारे विधानसभानिर्वाचनस्य द्वितीयचरणे ६८. ९% मतदानं सम्पन्नमिति निर्वाचनायोगेन निगदितम्। राज्यचरित्रे सर्वकालीनाभिलेख्यमिति सूच्यते। प्रथमचरणे ६४.६% मतदानं सम्पन्नमासीत्। १४ तमे दिनाङ्के मतगणना भविष्यति।

 दिल्ली स्फोटनम्। 

आत्मघात्याक्रमणं सन्दिह्यते।

दिल्ली> गतदिने दुरापन्नं कार् यानस्फोटनम् आसूत्रितमिति गृहमन्त्रालयेन सूचितम्। तत्र भीकरवादिनां भागभागित्वं नावगणनीयमिति अधिकारिभिः सूचितम्। 

  जेय्षे मुहम्मद इत्यस्य संघटनस्य भागभागित्वं सन्दिह्यते। अतः आत्मघात्याक्रमणमेव विधत्तमिति सूच्यते। कार् यानस्य इदानीन्तनस्वामी आरक्षकैः निगृहीतः।

Tuesday, November 11, 2025

 मालद्वीपे भारतस्य साहाय्येन निर्मितं अन्ताराष्ट्रियविमानपत्तनम् उद्घाटितम्।

  बहुकालं यावत् नयनीतिविच्छेदेन पीडिते  मालद्वीपे भारतस्य साहाय्येन निर्मितं हनीमाधू विमानपत्तनं मालद्वीपस्य राष्टपतिना मुहम्मद् मुयिसु महोदयेन उद्घाटितम्। रविवासरे समापन्ने समारोहे भारतस्य केन्द्रव्योमयानसचिवः के राम्मोहन् नायिडुः भागं स्वीकृतवान्। भारतस्य मालिद्वीपस्य च मिथः षष्टिवर्षपर्यन्तं स्थितस्य नयनीतिबन्धस्य स्मारकोऽयं भवति विमानपत्तनमिदम् इति मुयिसुना अभिप्रेतम्।

 दिल्ल्यां महत्स्फोटनं - १३ जनाः हताः। २४ जनाः आहताः।

रक्तदुर्गः। 

दिल्ली> प्राचीनदिल्ल्यां 'रक्तदुर्गस्य' [Red Fort] समीपे मेट्रो निस्थानस्य प्रथमद्वारस्य समीपे महत् कार् यानस्फोटनेन १३ जनाः हताः। २४ जनाः व्रणिताः। व्रणिताः समीपस्थं लोकनायक जयप्रकाश् नारायण आतुरालयं प्रवेशिताः। 

  सोमवासरे सायं ६. ५२ वादने आसीत् स्फोटनमिति अधिकृतैः निगदितम्। प्रसिद्धस्य रक्तदुर्गस्य समीपं मन्दं चलितवत् कार् यानं महाशब्देन विस्फोटितमासीत्। अग्निप्रकाण्डः समीपस्थानि यानानि प्रसारयत्। उपदशं वाहनानि नाशितानि। 

  दिल्ल्यामशेषम् अतिजाग्रत्ता विज्ञापिता। स्फोटने भीकरबन्धः सन्दिह्यते इत्यनेन भीकरविरुद्धसंघः दुर्घटनास्थानमेत्य सूचना‌ः समग्रहीत्।

 रष्यराष्ट्रे सैनिकउद्योगस्थानाम् उदग्रयानं भग्नम् ॥

मोस्को> रष्यस्य सैनिकोद्योगस्थाः उदग्रयानदुर्घटनया हताः। KA -226 इति उदग्रयानमेव दुर्घटनया भग्नः। पञ्च जनाः हताश्च। किसलियारतः इसबरबाषं प्रति गमनसमये आसीत् इयं दुर्घटना।


Monday, November 10, 2025

 वन्दे भारतश्रेण्याः चत्वारि यानानि च उद्घाटितानि। 

वाराणसी> वन्दे भारतश्रेण्याम् अन्तर्भूतानि चत्वारि रेल् यानानि प्रधानमन्त्रिणा नरेन्द्रमोदिना 'वीडियो काण्फ्रन्स् उद्घाटितानि। एरणाकुलं - बाङ्गलुरु, बनारस - खजुराहो, लखनौ - सहारसंपुरं, फिरोस् पुरं - दिल्ली इत्येतेषु मार्गेषु नूतनानि यानानि सेवां कुर्वन्ति।

 बिहारे द्वितीयचरणनिर्वाचनं श्वः।

पाट्ना> बिहारस्य विधानसभानिर्वाचनस्य द्वितीयचरणं श्वः सम्पत्स्यते। सघोषप्रचारणं ह्यः समाप्तम्। प्रभाते सप्तवादनतः सायं ६ वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। 

 द्वितीयचरणे २० जनपदस्थेषु १२२ मण्डलेषु निर्वाचनं सम्पत्स्यते। १३०२ स्थानाशिनः जनाभिमतम् अभिकांक्षन्ति। तेषु १३६ महिलाः सन्ति। ३. ७ कोटि मतदानिनः सन्ति। प्रथमचरणं षष्ठदिनाङ्के सम्पन्नम्।

Sunday, November 9, 2025

 भारत-आस्ट्रेलिया टि - २०

पञ्चमस्पर्धा वृष्टिस्थगिता; भारतस्य परम्परा।

ब्रिस्बेन> अतिशक्तया वृष्ट्या भारत-आस्ट्रेलिययोर्मध्ये प्रचाल्यमाना पञ्चमी तथा अन्तिमा च स्पर्धा परित्यक्ता । अतः परम्परा २ - १ इति क्रमेण भारताय उपलब्धा। पराम्परायाः प्रथमस्पर्धा अपि वृष्टिकारणतः त्यक्तः आसीत्।

 'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः। 


वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix]  विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः। 

  १९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।

Saturday, November 8, 2025

 चतुरङ्ग विश्वचषकः  

एरिगासि हरिकृष्णयोः विजयः। 

पनजी> गोवाराज्ये अनुवर्तमानस्य विश्व चषकचतुरङ्गप्रतिद्वन्द्वस्य तृतीयचक्रस्य प्रथमक्रीडायां भारतीयौ अर्जुन एरिगासी, पि हरिकृष्णः एत्येतौ विजयीभूतौ। किन्तु विश्ववीरौ डि गुकेशः, आर् प्रग्नानन्दश्च समस्थितिविधेयौ अभूताम्। 

 भूतपूर्वः अवरज विश्वविजयी [Junior Champion] पि हरिकृष्णः बेल्जियराष्ट्रस्य दार्धा डैनियल नामकं पराजितवान्। एरिगासी तु उस्बकिस्थानस्य वोखिदोव षंसिदीनं च पराजितवान्।