भूमेः भ्रमणवेगः अवर्धत। कारणम् अज्ञातम् ।
नवदिल्ली> भूमेः भ्रमणवेगः अवर्धत इति वैज्ञानिकाः वदन्ति। जूलाई २९ दिनाङ्के एव भूमेः भ्रमणवेगः उत्थितः। एकवारं भ्रमणपूर्तीकरणाय भूमेः २४ होराः एव सामान्यतया आवश्यकम् । किन्तु जूलै२९ दिनाङ्के १.५९ मिल्ली न्यूनक्षणेन भूमेः भ्रमणपूर्तीकरणं समभवत्। २०२० जूलै१९ तमे दिनाङ्के एव इतः पूर्वं न्यूनक्षणेन भूमेः भ्रमणं पूर्तीकृतम् । आगमि संवत्सरे अपि एवं न्यूनक्षणेन भूमिः भ्रमणं पूर्तीकरिष्यति इति प्रतिवेदनमस्ति। भूमेः भ्रमणवेग-परिवर्तनस्य कारणं किमिति अज्ञातम् अस्ति इति वैज्ञानिकाः वदन्ति। ध्रुवप्रदेशेषु हिमद्रवणेन भूमेः ध्रुवभागस्य भारस्य न्यूनत्वमेव भ्रमणवेगपरिवर्तनस्य कारणमिति एकः वादः अस्ति। भूमेः मेरुदण्डे जातः परिवर्तनमेव भ्रमणवेगस्य कारणमिति अन्यः वादः अपि अस्ति।

.jpeg)



.jpeg)



.webp)


