OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 9, 2026

 फिफा विश्वचषकः।

चतुर्थांशस्पर्धाः अद्य आरभ्यते।

यू एस्> विश्वचषकपादकन्दुस्पर्धाः अद्य आरभ्य तीव्रतां प्रयान्ति। ४८ गणेभ्यः अष्ट गणाः इति स्पर्धायाम् आकुञ्चितायां प्रतिद्वन्द्वाः कठिनायन्ते। 

    चतुर्थांशचक्रस्य  प्रथमस्पर्धायां पूर्वभूतः विश्ववीरः फ्रान्सदलः नूतनं आफ्रिक्कीयप्रबलवन्तं मोरोको दलम् अभिमुखीकरोति। गुरुवासरे रात्रौ १. ३० वादने बूस्टण् क्रीडाङ्कणे अस्ति स्पर्धा। 

  अर्जेन्टीना, फ्रान्सः, इङ्गलाण्टः, स्पेयिनः, मोरोको, नोर्वे, स्विटसर्लान्टः, बेल्जियम् इत्येतानि राष्ट्राणि चतुर्थांशचक्रे स्पर्धन्ते। अद्यतनं विना  प्रतियोगिताक्रमः एवम् - स्पेयिनः x बेल्जियं शुतक्रवासरे अर्धरात्रे १२. ३०, नोर्वे x  इङ्गलाण्टः रविवासरे प्रत्युषसि २. ३०, अर्जेन्टीना x स्विटसर्लान्टः रविवासरे प्रभाते ६. ३० वादनेषु।