OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 8, 2026

 केरलम्। 

वयनाटे मृत्स्खलनं - त्रयः मृताः, पञ्च तिरोभूताः।

दुरन्तस्थानस्य दृश्यम्। 

 

मेप्पाटी [वयनाट्]>  वयनाट् जनपदे 'कल्लाटि - आनक्कांपोयिल्' प्रदेशस्थे सुरङ्गमार्गनिर्माणस्य प्रारम्भस्थाने मीनाक्षी इत्यत्र मृत्स्खलनेन इतरराज्यीयाः त्रयः कर्मकराः मृताः। प्रदेशवासिनः अभिव्याप्य १८ जनाः मद्विलीनाः अभवन्। नव जनान् अधिगम्य आतुरालयं प्रावेशयत्। पञ्च जनाः तिरोभूताः वर्तन्ते। 

  सुरङ्गमार्गाय निर्भिद्यमानस्य बृहदुपलस्य समीपात् अपनेतुमवशिष्टः मृत्सञ्चय एव स्खलितः।  वीथीतलात् २० पादमितोन्नत्यां सञ्चिता विंशतिसहस्रं टण् मिता मृदेव अतिवृष्ट्याः परिणतेन प्रवाहिता। मङ्गलवासरे प्रभाते ११ वादने आसीदियं दुर्घटना।