गाज़ा- प्रशासनम् हमास-संघटनया विसर्जितम्। अधिकारहस्तान्तरणं च
गासा-नगरम्> गाज़ा-क्षेत्रे स्वकीयं शासनं विसृज्य हमास-संघटना अधिकारं 'पलेस्टीनियस्य समितये दास्यति। एषा समितिः तकनीकी-विशेषज्ञैः (Technocrats) निर्मास्यते। डोनल्ड ट्रम्पस्य शान्ति-योजनानुसारम् एषः निर्णयः स्वीकृतः। तथापि, पूर्वतनमन्त्रिपरिषदः कर्मचारिणः च स्वपदस्थाने एव स्थास्यन्ति। सुरक्षा-व्यवस्थायाः उत्तरदायित्वं पुनः हमास-संघटनायाः हस्ते एव भविष्यति।